Skip to content

12. दोषभेदीय – सूत्र – अ.हृ.”

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) दोषादिविज्ञानीय

एकादशोऽध्यायः।

अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

दोषधातुमला मूलं सदा देहस्य तं चलः।

उत्साहोच्छ्वासनिश्वासचेष्टावेगप्रवर्तनैः॥१॥

सम्यग्गत्या च धातूनामक्षाणां पाटवेन च।

अनुगृह्णात्यविकृतः, पित्तं पक्त्यूष्मदर्शनैः॥२॥

क्षुत्तृड्रुचिप्रभामेधाधीशौर्यतनुमार्दवैः।

श्लेष्मा स्थिरत्वस्निग्धत्वसन्धिबन्धक्षमादिभिः॥३॥

प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे।

गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम्‌॥४॥

अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्‌।

स्वेदस्य क्लेदविधृतिः वृद्धस्तु कुरुतेऽनिलः॥५॥

कार्श्यकार्ष्ण्योष्णकामित्वकम्पानाहशकृद्‌ग्रहान्‌।

बलनिद्रेन्द्रियभ्रंशप्रलापभ्रमदीनताः॥६॥

पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्‌दाहाल्पनिद्रताः।

पित्तम्‌ श्लेष्माऽग्निसदनप्रसेकालस्यगौरवम्‌॥७॥

श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः।

रसोऽपि श्लेष्मवत्‌ रक्तं विसर्पप्लीहविद्रधीन्‌॥८॥

कुष्ठवातास्रपित्तास्रगुल्मोपकुशकामलाः।

व्यङ्गाग्निनाशसम्मोहरक्तत्वङ्‌नेत्रमूत्रताः॥९॥

मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः।

कण्ठादिष्वधिमांसं च तद्वन्मेदस्तथा श्रमम्‌॥१०॥

अल्पेऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम्‌।

अस्थ्यध्यस्थ्यधिदंतांश्च मज्जा नेत्राङ्गगौरवम्‌॥११॥

पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च।

अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि॥१२॥

कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्‌।

मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्‌॥१३॥

स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्‌।

दूषिकादीनपि मलान्‌ बाहुल्यगुरुतादिभिः॥१४॥

लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम्‌।

संज्ञामोहस्तथा श्लेष्मवृद्ध्युक्तामयसम्भवः॥१५॥

पित्ते मन्दोऽनलः शीतं प्रभाहानिः कफे भ्रमः।

श्लेष्माशयानां शून्यत्वं हृद्‌द्रवः श्लथसन्धिता॥१६॥

रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुता।

रक्तेऽम्लशिशिरप्रीतिशिराशैथिल्यरूक्षताः॥१७॥

मांसेऽक्षग्लानिगण्डस्फिक्शुष्कतासन्धिवेदनाः।

मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता॥१८॥

अस्थन्यस्थितोदः शदनं दन्तकेशनखादिषु।

अस्थनं मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्‌॥१९॥

शुक्रे चिरात्‌ प्रसिच्येत शुक्रं शोणितमेव वा।

तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूमायतीव च॥२०॥

पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव।

कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन्‌ भृशम्‌॥२१॥

मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्त्रमेव वा।

स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः॥२२॥

मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्ष्ययेत्‌ क्षयम्‌।

स्वमलायनसंशोषतोदशून्यत्वलाघवैः॥२३॥

दोषादीनां यथास्वं च विद्याद्वृद्धिक्षयौ भिषक्‌।

क्षयेण विपरीतानां गुणानां वर्धनेन च॥२४॥

वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः।

मलोचितत्वाद्देहस्य क्षयो वृद्धेस्तु पीडनः॥२५॥

तत्रास्थिनि स्थितो वायुः, पित्तं तु स्वेदरक्तयोः।

श्लेष्मा शेषेषु, तेनैषामाश्रयाश्रयिणां मिथः॥२६॥

यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्‌।

अस्थिमारुतयोर्नैवं, प्रायो वृद्धिर्हि तर्पणात्‌॥२७॥

श्लेष्मणाऽनुगता तस्मात्‌ सङ्‌क्षयस्तद्विपर्ययात्‌।

वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान्‌॥२८॥

विकारान्‌ साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः।

वायोरन्यत्र, तज्जांस्तु तैरेवोत्क्रमयोजितैः॥२९।

विशेषाद्रक्तवृद्ध्युत्थान्‌ रक्तस्रुतिविरेचनैः।

मांसवृद्धिभवान्‌ रोगान्‌ शस्त्रक्षाराग्निकर्मभिः॥३०॥

स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्‌क्षयात्‌।

जातान्‌ क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिस्तथा॥३१॥

विड्‌वृद्धिजानतीसारक्रियया, विट्‌क्षयोद्भवान्‌।

मेषाजमध्यकुल्माषयवमाषद्वयादिभिः॥३२॥

मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया।

व्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान्‌॥३३॥

स्वस्थानस्थस्य कायाग्नेरंशा धातुषु संश्रिताः।

तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः॥३४॥

पूर्वो धातुः परं कुर्याद्वृद्धः क्षीणश्च तद्विधम्‌।

दोषा दुष्टा रसैर्धातून्‌ दूषयन्त्युभये मलान्‌॥३५॥

अधो द्वे, सप्त शिरसि, खानि स्वेदवहानि च।

मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः॥३६॥

ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्‌।

हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्‌॥३७॥

स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्‌।

यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति॥३८॥

निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः।

ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः॥३९॥

बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः।

दुःच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये॥४०॥

जीवनीयौषधक्षीररसाद्यास्तत्र भेषजम्‌।

ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः॥४१॥

यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु।

तत्तत्त्यजन्‌ समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्‌॥४२॥

कुर्वते हि रुचिं दोषा विपरीतसमानयोः।

वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न॥४३॥

यथाबलं यथास्वं च दोषा वृद्धा वितन्वते।

रूपाणि, जहति क्षीणाः, समाः स्वं कर्म कुर्वते॥४४॥

य एव देहस्य समा विवृद्ध्यै

त एव दोषा विषमा वधाय।

यस्मादतस्ते हितचर्ययैव

क्षयाद्विवृद्धेरिव रक्षणीयाः॥४५॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादिविज्ञानीयो नामैकादशोऽध्यायः॥११॥

Last updated on July 9th, 2021 at 06:03 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English