Skip to content

52. कासप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता

अथ उत्तरतन्त्रम्‌ ।

द्विपञ्चाशत्तमोऽध्यायः ।

अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः |
कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ||३||

धूमोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च |
विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ||४||

प्राणो ह्युदानानुगतः प्रदुष्टः सम्भिन्नकांस्यस्वनतुल्यघोषः |
निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ||५||

स वातपित्तप्रभवः कफाच्च क्षतात्तथाऽन्यः क्षयजोऽपरश्च |
पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात् ||६||

भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः |
स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ||७||

हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः |
प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ||८||

उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः |
पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः ||९||

प्र(वि)लिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः |
अभक्तरुग्गौरवसादयुक्तः कासेत ना सान्द्रकफं कफेन ||१०||

वक्षोऽतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः |
विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ||११||

स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी |
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् ||१२||

ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति |
वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् ||१३||

शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम् |
उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम् ||१४||

फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः |
लेहः समैः क्षौद्रसिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् ||१५||

पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम् |
सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् ||१६||

खादेद्गुडं नागरपिप्पलीभ्यां द्राक्षां च सर्पिर्मधुनाऽवलिह्यात् |
द्राक्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च ||१७||

लिह्याद्घृतक्षौद्रयुतां समांशां सितोपलां वा मरिचांशयुक्ताम् |
धात्रीकणाविश्वसितोपलाश्च सञ्चूर्ण्य मण्डेन पिबेच्च दध्नः ||१८||

हरेणुकां मागधिकां च तुल्यां दध्ना पिबेत् कासगदाभिभूतः |
उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम् ||१९||

बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्रवन्तीं च सतिल्वकाख्याम् [११] |
भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि ||२०||

कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वाऽपि |
क्षौद्रेण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्तिः ||२१||

धूमे प्रशस्ता घृतसम्प्रयुक्ता वेणुत्वगेलालवणैः कृता वा |
मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः ||२२||

विधाय वर्तीश्च पयोऽनुपानं धूमं पिबेद्वातबलासकासी |
पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य ||२३||

द्राक्षाम्बुमञ्जिष्ठपुराह्वयाभिः क्षीरं शृतं माक्षिकसम्प्रयुक्तम् |
निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् ||२४||

उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः |
एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम् ||२५||

यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य |
विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम् ||२६||

विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च |
धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र ||२७||

हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव |
प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च ||२८||

उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च |
कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम् ||२९||

निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम् |
पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः ||३०||

शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशटीभिः |
सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् ||३१||

श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान् |
विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् ||३२||

घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत् |
प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ||३३||

खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः |
चूर्णं सिताक्षौद्रघृतप्रगाढं त्रीन् हन्ति कासानुपयुज्यमानम् ||३४||

रक्ताहरिद्राञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः |
क्षौद्रेण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम् ||३५||

चूर्णं पिबेदामलकस्य वाऽपि क्षीरेण पक्वं सघृतं हिताशी |
चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ||३६||

कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्रघृतेन वाऽपि |
गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रेण शीतं मरिचोपदंशम् ||३७||

प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य |
चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः ||३८||

विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः |
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ||३९||

तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् |
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ||४०||

शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः |
स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ||४१||

द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान् |
पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान् ||४२||

द्विपालिकान् न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम् |
द्रोणे जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ||४३||

पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च |
चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते ||४४||

रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात् |
तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ||४५||

पाण्ड्वामयश्वासशिरोविकारान् हृद्रोगहिक्काविषमज्वरांश्च |
मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः ||४६||

कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् |
पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम् ||४७||

शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम् ||४८||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कासप्रतिषेधो नाम (चतुर्दशोऽध्यायः, आदितः) द्विपञ्चाशत्तमोऽध्यायः ||५२||

Last updated on July 9th, 2021 at 05:28 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English