सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
एकचत्वारिंशत्तमोऽध्याय: ।
अथातः शोषप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अनेकरोगानुगतो बहुरोगपुरोगमः |
दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ||३||
संशोषणाद्रसादीनां शोष इत्यभिधीयते |
क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः ||४||
राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः |
तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः ||५||
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि |
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ||६||
क्रियाणामविभागेन प्रागेकोत्पादनेन च |
एक एव मतः शोषः सन्निपातात्मको ह्यतः ||७||
उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि |
क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् ||८||
जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः |
कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ||९||
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तरम् |
क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ||१०||
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् |
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ||११||
स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः |
ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ||१२||
शिरसः परिपूर्णत्वमभक्तच्छन्द एव च |
कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ||१३||
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् |
(कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ||१४||
त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः) |
जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः ||१५||
व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः |
व्रणोरःक्षतपीडाभ्यां शोषनन्ये वदन्ति हि ||१६||
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः |
पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः ||१७||
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः |
विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः ||१८||
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रियः |
कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः(नः) ||१९||
ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः |
सम्प्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः ||२०||
अध्वप्रशोषी स्रस्ताङ्गः सम्भृष्टपरुषच्छविः |
प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः ||२१||
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः |
उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना ||२२||
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् |
व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः ||२३||
व्यायामभाराध्ययनैरभिघातातिमैथुनैः |
कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् |
तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति ||२४||
कासमानश्छर्दयेच्च पीतरक्तासितारुणम् |
सन्तप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति ||२५||
दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः |
केषाञ्चिदेवं शोषो हि कारणैर्भेदमागतः ||२६||
न तत्र दोषलिङ्गानां समस्तानां निपातनम् |
क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसञ्ज्ञिताः ||२७||
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसङ्क्षये ||२८||
श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्राः |
शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ||२९||
स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च |
तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ||३०||
महाशनं क्षीयमाणमतीसारनिपीडितम् |
शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ||३१||
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम् |
स्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च ||३२||
स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम् |
आस्थापनं तथा कार्यं शिरसश्च विरेचनम् ||३३||
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः |
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्रवं नरम् ||३४||
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः |
बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ||३५||
काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून् |
गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान् ||३६||
देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः |
खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि ||३७||
मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः |
अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् ||३८||
खादेत्, पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले |
सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः ||३९||
मांसादमांसेषु घृतं च सिद्धं शोषापहं क्षौद्रकणासमेतम् |
द्राक्षासितामागधिकावलेहः सक्षौद्रतैलः क्षयरोगघाती ||४०||
घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम् |
सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्रयुतं प्रलिह्यात् ||४१||
क्षीरं पिबेद्वाऽप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम् |
तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वाऽपि पयोनुपानम् ||४२||
उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च |
कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्रयुतं हिताशी ||४३||
यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च |
शकृद्रसा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः ||४४||
मूर्वाहरिद्राखदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य |
भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् ||४५||
कटुत्रिकं चैव सभद्रदारु घृतोत्तमं यक्ष्मनिवारणाय |
द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च ||४६||
यवान् कुलत्थान् बदराणि भार्गीं पाठां हुताशं समहीकदम्बम् |
कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम् ||४७||
व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च |
एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन ||४८||
गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्रसक्षीररसक्षतोत्थैः |
द्राक्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि ||४९||
एलाजमोदामलकाभयाक्षगायत्र्यरिष्टासनशालसारान् |
विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च ||५०||
पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च |
त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च ||५१||
प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात् |
पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रितश्च ||५२||
एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम् |
यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च ||५३||
श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च |
न चात्र किञ्चित् परिवर्जनीयं रसायनं चैतदुपास्यमानम् ||५४||
प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र |
उपद्रवांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ||५५||
अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः |
स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम् ||५६||
रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम् |
सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य ||५७||
शोकं स्त्रियं क्रोधमसूयनं च त्यजेदुदारान् विषयान् भजेत |
वैद्यान् द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ||५८||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे
(तृतीयोऽध्यायः, आदित) एकचत्वारिंशोऽध्यायः ||४१||
Last updated on July 8th, 2021 at 12:03 pm