सुश्रुतसंहिता ।
सूत्रस्थानम् ।
त्रिचत्वारिंशत्तमोऽध्याय: ।
अथातो वमनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति |
अथ मदनपुष्पाणामातपपरिशुष्काणां चूर्णप्रकुञ्जं प्रत्यक्पुष्पासदापुष्पीनिम्बकषायाणामन्यतमेनालोड्य मधुसैन्धवयुक्तां पुष्पचूर्णमात्रां पाययित्वा वामयेत् | मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयुक्तान्यभिप्रतप्तानि; मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् | निर्वृत्तानां वा नातिहरितपाण्डूनां कुशमूढावबद्धमृद्गोमयप्रलिप्तानां यवबु(तु)षमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिप्पलीरुद्धृत्यातपे शोषयेत्, तासां दधिमधुपललविमृदितपरिशुष्काणां सुभाजनस्थानामन्तर्नखमुष्टिमुष्णे यष्टीमधुककषाये कोविदारादीनामन्यतमे वा कषाये प्रमृद्य रात्रिपर्युषितं मधुसैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्मुखः प्राङ्मुखमातुरं पाययेदनेन मन्त्रेणाभिमन्त्र्य-
“ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानलानिलाः|
ऋषयः सौषधीग्रामा भूतसङ्घाश्च पान्तु ते ||१||
रसायनमिवर्षीणां देवानाममृतं यथा |
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ||२||
विशेषेण श्लेष्मज्वरप्रतिश्यायान्तर्विद्रधिषु; अप्रवर्तमाने वा दोषे पिप्पलीवचागौरसर्षपकल्कोन्मिश्रैः सलवणैरुष्णाम्बुभिः पुनः पुनः प्रवर्तयेदासम्यग्वान्तलक्षणादिति |
मदनफलमज्जचूर्णं वा तत्क्वाथपरिभावितं मदनफलकषायेण; मदनफलमज्जसिद्धस्य वा पयसः सन्तानिकां क्षौद्रयुक्तां, मदनफलमज्जसिद्धं वा पयः, मदनफलमज्जसिद्धेन वा पयसा यवागूम्, अधोभागासृक्पित्तहृद्दाहयोः; मदनफलमज्जसिद्धस्य वा पयसो दधिभावमुपगतस्य दध्युत्तरं दधि वा कफप्रसेकच्छर्दिमूर्च्छातमकेषु; मदनफलमज्जरसं स्नेहं वा भल्लातकस्नेहवदादाय फाणितीभूतं लेहयेत्, आतपपरिशुष्कं वा तमेव जीवन्तीकषायेण, पित्ते कफस्थानगते; मदनफलमज्जक्वाथं वा पिप्पल्यादिप्रतीवापं, तच्चूर्णं वा निम्बरूपिकाकषाययोरन्यतरेण सन्तर्पणकफजव्याधिहरं, मदनफलमज्जचूर्णं वा मधूककाश्मर्यद्राक्षाकषायेण | मदनफलविधानमुक्तम् ||३||
जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण, निर्वृत्तेषु क्षीरयवागूं, रोमशेषु सन्तानिकां, अरोमशेषु दध्युत्तरं, हरितपाण्डुषु दधि, तत्कषायसंसृष्टां वा सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु; पर्यागतेषु मदनफलमज्जवदुपयोगः ||४||
तद्वदेव कुटजफलविधानम् ||५||
कृतवेधनानामप्येष एव कल्पः ||६||
इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत्, एवं क्षीरेण, कासश्वासच्छर्दिकफरोगेषूपयोगः ||७||
धामार्गवस्यापि मदनफलमज्जवदुपयोगः; विशेषतस्तु गरगुल्मोदरकासश्वासश्लेष्मामयेषु वायौ च कफस्थानगते ||८||
कृतवेधनफलपिप्पलीनां वमनद्रव्यकषायपरिपीतानां बहुशश्चूर्णमुत्पलादिषु दत्तमाघ्रातं वामयति, तत्त्वनवबद्धदोषेषु यवागूमाकण्ठात्पीतवत्सु च विदध्यात् | वमनविरेचनशिरोविरोचनद्रव्याण्येवं वा प्रधानतमानि भवन्ति ||९||
भवतश्चात्र-
वमनद्रव्ययोगाणां दिगियं सम्प्रकीर्तिता |
तान् विभज्य यथाव्याधि कालशक्तिविनिश्चयात् ||१०||
कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान् |
पेयलेह्याद्यभोज्येषु वमनान्युपकल्पयेत् ||११||
इति सुश्रुतसंहितायां सूत्रस्थाने वमनद्रव्यविकल्पविज्ञानीयो नाम त्रिचत्वारिंशत्तमोऽध्यायः ||४३||
Last updated on May 24th, 2021 at 07:44 am