Skip to content

36. Bhoomipravibhaaga Vidnyaaneeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थाने

षट्‌त्रिंशत्तमोऽध्याय: ।

अथातो भूमिप्रविभागीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाघातनदेवतायतनसिकताभिरनुपहतामनूषरामभङ्गुरामदूरोदकां [२] स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वा भूमिमौषधग्रहणाय परीक्षेत |

तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं पृथ्ववगाढमूलमुदीच्यां चौषधमाददीतेत्येष भूमिपरीक्षाविशेषः सामान्यः ||३||

विशेषतस्तु तत्र, अश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा; स्निग्धा शीतलाऽऽसन्नोदका स्निग्धशस्यतृणकोमलवृक्षप्राया शुक्लाऽम्बुगुणभूयिष्ठा; नानावर्णा लघ्वश्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा; रूक्षा भस्मरासभवर्णा तनुवृक्षाल्परसकोटरवृक्षप्रायाऽनिलगुणभूयिष्ठा; मृद्वी समा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा ||४||

अत्र केचिदाहुराचार्याः- प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासङ्ख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति; तत्तु न सम्यक्, सौम्याग्नेयत्वाज्जगतः | सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीत, आग्नेयान्याग्नेयेषु; एवमव्यापन्नगुणानि भवन्ति |

सौम्यान्यौषध्मनि सौम्येष्वृतुषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्धशीतानि जायन्ते | एतेन शेषं व्याख्यातम् ||५||

तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्याण्याददीत, अग्न्याकाशमारुतगुणभूयिष्ठायां वमनद्रव्याणि, उभयगुणभूयिष्ठायामुभयतोभागानि, आकाशगुणभूयिष्ठायां संशमनानि, एवं बलवत्तराणि भवन्ति ||६||

सर्वाण्येव चाभिनवानि, अन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः ||७||

विडङ्गं पिप्पली क्षौद्रं सर्पिश्चाप्यनवं हितम् |

शेषमन्यत्वभिनवं गृह्णीयाद्दोषवर्जितम् ||८||

(सर्वाण्येव सक्षीराणि वीर्यवन्ति) तेषामसम्पत्तावतिक्रान्तसंवत्सराण्याददीतेति ||९||

भवन्ति चात्र-

गोपालास्तापसा व्याधा ये चान्ये वनचारिणः |

मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते ||१०||

सर्वावयवसाध्येषु पलाशलवणादिषु |

व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते ||११||

गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते |

तस्माद्भूमिस्वभावेन बीजिनः षड्रसायुताः ||१२||

अव्यक्तः किल तोयस्य रसो निश्चयनिश्चितः |

रसः स एव चाव्यक्तो व्यक्तो भूमिरसाद्भवेत् ||१३||

सर्वलक्षणसम्पन्ना भूमिः साधारणा स्मृता |

द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः ||१४||

विगन्धेनापरामृष्टमविपन्नं रसादिभिः |

नवं द्रव्यं पुराणं वा ग्राह्यमेवं विनिर्दिशेत् ||१५||

जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् |

क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत् ||१६||

 प्लोतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम् |

प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते ||१७||

इति सुश्रुतसंहितायां सूत्रस्थाने भूमिप्रविभागीयो नाम षट्त्रिंशोऽध्यायः ||३६||

Last updated on May 24th, 2021 at 07:25 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English