चरकसंहिता
कल्पस्थानम् ।
सप्तमोऽध्याय: ।
अथात: श्यामात्रिवृत्कल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
विरेचने त्रिवृन्मूलं श्रेष्ठमाहुर्मनीषिण: ।
तस्या: संज्ञा गुणा: कर्म भेद: कल्पश्च वक्ष्यते ॥३॥
त्रिभण्डी त्रिवृता चैव श्यामा कूटरणा तथा ।
सर्वानुभूति सुवहा शब्दै: पर्यायवाचकै: ॥४॥
कषाया मधुरा रूक्षा विपाके कटुका च सा ।
कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी ॥५॥
सेदानीमौषधैर्युक्ता वातपित्तकफापहै: ।
कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत् ॥६॥
मूलं तु द्विविधं तस्या: श्यामं चारुणमेव च ।
तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम् ॥७॥
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तच्छुभम् ।
मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत मूर्च्छयेत् ॥८॥
तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि ।
शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नरा: ॥९॥
गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत् ।
उपोष्य प्रयत: शुक्ले शुक्लवासा: समाहित: ॥१०॥
गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत् ।
तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत् ॥११॥
स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोषित: सुखम् ।
अक्षमात्रं तयो: पिण्डं विनीयाम्लेन ना पिबेत् ॥१२॥
गोऽव्यजामहिषीमूत्रसौवीरकतुषोदकै: ।
प्रसन्नया त्रिफलया शृतया पृथक् पिबेत् ॥१३॥
एकैकं सैन्धवादीनां द्वादशानां सनागरम् ।
त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत् ॥१४॥
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली ।
सरल: किलिमं हिङ्गु भार्गी तेजोवती तथा ॥१५॥
मुस्तं हैमवती पथ्या चित्रको रजनी वचा ।
स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तै: पृथक् ॥१६॥
एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम् ।
मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत् ॥१७॥
जीवकर्षभकौ मेदां श्रावणीं कर्कटाह्वयाम् ।
मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा ॥१८॥
काकोलीं क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा ।
क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत् ॥१९॥
वातपित्तहितान्येतान्यन्यानि तु कफानिले ।
क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसै: पृथक् ॥२०॥
सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत् ।
लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम् ॥२१॥
अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत्
चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते ॥२२॥
सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नर: ।
श्यामात्रिवृत्कषायेण कल्केन च सशर्करम् ॥२३॥
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं तत: ।
सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे ॥२४॥
क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचै: सह ।
मात्रया लेहयेदेतदीश्वराणां विरेचनम् ॥२५॥
कुडवांशान् रसानिक्षुद्राक्षापीलुपरूषकात् ।
सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत् ॥२६॥
तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित् ।
एतदुत्सन्नपित्तानामीश्वराणां विरेचनम् ॥२७॥
शर्करामोदकान् वर्तीर्गुलिकामांसपूपकान् ।
अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम् ॥२८॥
पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह ।
लेहयेन्मधुना सार्धं श्लेष्मलानां विरेचनम् ॥२९॥
मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात् ।
सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत् ॥३०॥
सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम्।
पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत् ॥३१॥
त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया ।
लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम् ॥३२॥
पानकानि रसान् यूषान्मोदकान् रागषाडवान् ।
अनेन विधिना कुर्याद्विरेकार्थं कफाधिके ॥३३॥
भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा ।
चूर्णं फलरसक्षौद्रशक्तुभिस्तर्पणं पिबेत् ॥३४॥
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च ।
नरेषु सुकुमारेषु निरपायं विरेचनम् ॥३५॥
शर्करात्रिफलाश्यामात्रिवृत्पिप्पलिमाक्षिकै: ।
मोदक: सन्निपातोर्ध्वरक्तपित्तज्वरापह: ॥३६॥
त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वच: ।
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिता: ॥३७॥
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु ।
भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम् ॥३८॥
गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम् ।
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ॥३९॥
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान् ।
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पली: ॥४०॥
लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक् ।
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ ॥४१॥
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा ।
पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान् ॥४२॥
गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा ।
मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ॥४३॥
अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम् ।
कुष्ठार्श:कामलामेहगुल्मोदरभगन्दरान् ॥४४॥
ग्रहणीपाण्डुरोगांश्च हन्यु: पुंसवनाश्च ते ।
कल्याणका इति ख्याता: सर्वेष्वृतुषु यौगिका: ॥४५॥
इति कल्याणकगुड: ।
व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभया: ।
समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम् ॥४६॥
त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड्गुणम् ।
चूर्णितं गुडिका: कृत्वा क्षौद्रेण पलसंमिता: ॥४७॥
भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम् ।
मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये ॥४८॥
तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रणाशिन: ।
योग: सर्वविषाणां च मत: श्रेष्ठो विरेचने ॥४९॥
मूत्रजानां च रोगाणां विधिज्ञेनावचारित: ।
पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम् ॥५०॥
दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम् ।
त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली ॥५१॥
समूला पिप्पली मुस्तमजमोदा दुरालभा ।
कार्षिकं नागरपलं गुडस्य पलविंशतिम् ॥५२॥
चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान् ।
हिङ्गुसौवर्चलव्योषयवानीबिडजीरकै: ॥५३॥
वचाजगन्धात्रिफलाचव्यचित्रकधान्यकै: ।
मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमै: ॥५४॥
त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्श:प्लीहशूलिनाम् ।
हिक्काकासारुचिश्वासकफोदावर्तिनां शुभा: ॥५५॥
त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम् ।
क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम् ॥५६॥
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् ।
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये ॥५७॥
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम् ।
स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत् ॥५८॥
शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम् ।
त्रिवृत् त्रायन्तिहपुषा: सातलां कटुरोहिणीम् ॥५९॥
स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत् त्र्यहम् ।
एष सर्वर्तुको योग: स्निग्धानां मलदोषहृत् ॥६०॥
त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली ।
नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम् ॥६१॥
सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं तत: ।
पिबेत् सुखतमं ह्येतद्रूक्षाणामपि शस्यते ॥६२॥
त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम् ।
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात् ॥६३॥
तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत् ।
गुल्मपार्श्वर्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम् ॥६४॥
त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम् ।
कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे ॥६५॥
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु ।
तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम् ॥६६॥
श्यामात्रिवृतयोर्मूलं पचेदामलकै: सह ।
जले तेन कषायेण पक्त्वा सर्पि: पिबेन्नर: ॥६७॥
श्यामात्रिवृत्कषायेण सिद्धं सर्पि: पिबेत्तथा ।
साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते ॥६८॥
त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भस: पचेत् ।
पादशेषं कषायं तं पूतं गुडतुलायुतम् ॥६९॥
स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकै: ।
प्रलिप्ते मधुना मासं जातं तन्मात्रया पिबेत् ॥७०॥
ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम् ।
सुरां वा त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम् ॥७१॥
यवै: श्यामात्रिवृत्क्वाथस्विन्नै: कुल्माषमम्भसा ।
आसुतं षडहं पल्ले जातं सौवीरकं पिबेत् ॥७२॥
भृष्टान् वा सतुषाञ्छुद्धान् यवांस्तच्चूर्णसंयुतान् ।
आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम् ॥७३॥
तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश ।
त्रिवृच्चूर्णेन संयोज्य विरेकार्थं प्रयोजयेत् ॥७४॥
भवतश्चात्र—
त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गै:
।
मद्यैस्तथाऽम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि ॥७५।
शीताम्बुना पीतवतश्च तस्य
सिञ्चेन्मुखं छर्दिविघातहेतो: ।
हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम् ॥७६॥
तत्र श्लोका:–
एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभि: ।
मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश ॥७७॥
क्षीरादौ सप्त लेहेऽष्टौ चत्वार: सितयाऽपि च ।
पानकादिषु पञ्चैव षडृतौ पञ्च मोदका: ॥७८॥
चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा ।
द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु ॥७९॥
श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम् ।
शतं दशोत्तरं सिद्धं योगानां परमर्षिणा ॥८०॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्याय: ॥७॥
Last updated on July 2nd, 2021 at 09:47 am