चरकसंहिता
कल्पस्थानम् ।
पञ्चमोऽध्याय: ।
अथातो वत्सककल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा ।
कल्पं चास्य प्रवक्ष्यामि विस्तरेण यथातथम् ॥३॥
वत्सक: कुटज: शक्रो वृक्षको गिरिमल्लिका ।
बीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गका: ॥४॥
बृहत्फल: श्वेतपुष्प: स्निग्धपत्र: पुमान् भवेत् ।
श्यामा चारुणपुष्पा स्त्री फलवृन्तैस्तथाऽणुभि: ॥५॥
रक्तपित्तकफघ्नस्तु सुकुमारेष्वनत्यय: ।
हृद्रोगज्वरवातासृग्वीसर्पादिषु शस्यते ॥६॥
काले फलानि संगृह्य तयो: शुष्काणि निक्षिपेत् ।
तेषामन्तर्नखं मुष्टिं जर्जरीकृत्य भावयेत् ॥७॥
मधुकस्य कषायेण कोविदारादिभिस्तथा ।
निशि स्थितं विमृद्यैतल्लवणक्षौद्रसंयुतम् ॥८॥
पिबेत्तद्वमनं श्रेष्ठं पित्त श्लेष्मनिबर्हणम् ।
अष्टाहं पयसाऽऽर्केण तेषां चूर्णानि भावयेत् ॥९॥
जीवकस्य कषायेण तत: पाणितलं पिबेत् ।
फलजीमूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा ॥१०॥
सर्षपाणां मधूकानां लवणस्याथवाऽम्बुना ।
कृशरेणाथवा युक्तं विदध्याद्वमनं भिषक् ॥११॥
तत्र श्लोक:–
कषायैर्नव चूर्णैश्च पञ्चोक्ता: सलिलैस्त्रय: ।
एकश्च कृशरायां स्याद्योगास्तेऽष्टादश स्मृता: ॥१२॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते
कल्पस्थाने वत्सककल्पो नाम पञ्चमोऽध्याय: ॥५॥
Last updated on May 25th, 2021 at 08:28 am