चरकसंहिता
चिकित्सास्थाम् ।
चतुर्थोऽध्याय: ।
अथातो रक्तपित्तचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम् ।
प्रणम्योवाच निर्मोहमग्निवेशोऽग्निवर्चसम् ॥३॥
भगवन् रक्तपित्तस्य हेतुरुक्त: सलक्षण: ।
वक्तव्यं यत् परं तस्य वक्तुमर्हसि तद्गुरो ॥४॥
गुरुरुवाच-
महागदं महावेगमगिन्वच्छीघ्रकारी च ।
हेतुलक्षणविच्छीघ्रं रक्तपित्तमुपाचरेत् ॥५॥
तस्योष्णं तीक्ष्णमम्लं च कटूनि लवणानि च ।
घर्मश्चान्नविदाहश्च हेतु: पूर्वं निदर्शित: ॥६॥
तैर्हेतुभि: समुत्क्लिष्टं पित्तं रक्तं प्रपद्यते ।
तद्योनित्वात् प्रपन्नं च वर्धते तत् प्रदूषयत् ॥७॥
तस्योष्मणा द्रवो धातुर्धातोर्धातो: प्रसिच्यते ।
स्विद्यतस्तेन संवृद्धिं भूयस्तदधिगच्छति ॥८॥
संयोगाद्दूषणात्ततु सामान्याद्गन्धवर्णयो: ।
रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभि: ॥९॥
प्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते ।
स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम् ॥१०॥
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम् ।
श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ॥११॥
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसंनिभम् ।
मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् ॥१२॥
संसृष्टलिङ्गं संसर्गात् त्रिलिङ्गं सान्निपातिकम् ।
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ॥१३॥
यत् त्रिदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत् ।
व्याधिभि: क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ॥१४॥
गतिरूर्ध्वमधश्चैव रक्तपित्तस्य दर्शिता ।
ऊर्ध्वा सप्तविधद्वारा द्विद्वारा त्वधरा गति: ॥१५॥
सप्त च्छिद्राणि शिरसि द्वे चाध:, साध्यमूर्ध्वगम् ।
याप्यं त्वधोगं, मार्गौ तु द्वावसाध्यं प्रपद्यते ॥१६॥
यदा तु सर्वच्छिद्रेभ्यो रोमकूपेभ्य एव च ।
वर्तते तामसङ्ख्येयां गतिं तस्याहुरान्तिकीम् ॥१७॥
यच्चोभयाभ्यां मार्गाभ्यामतिमात्रं प्रवर्तते ।
तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव च ॥१८॥
संसृष्टं कफवाताभ्यां कण्ठे सज्जति चापि यत् ।
यच्चाप्युपद्रवै: सर्वैर्यथोक्तै: समभिद्रुतम् ॥१९॥
हारिद्रनीलहरितताम्रैर्वर्णैरुपद्रुतम् ।
क्षीणस्य कासमानस्य यच्च तच्च न सिध्यति ॥२०॥
यद् द्विदोषानुगं यद्वा शान्तं शान्तं प्रकुप्यति ।
मार्गान्मार्गं चरेद्यद्वा याप्यं पित्तमसृक् च तत् ॥२१॥
एकमार्गं बलवतो नातिवेगं नवोत्थितम् ।
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् ॥२२॥
स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम् ।
अधोगस्योत्तरं प्राय:, पूर्वं स्यादूर्ध्वगस्य तु ॥२३॥
ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् ।
द्विमार्गं कफवाताभ्यामुभाभ्यामनुबध्यते ।२४॥
अक्षीणबलमांसस्य रक्तपित्तं यदश्नत:।
तद्दोषदुष्टमुत्क्लिष्टं नादौ स्तम्भनमर्हति ॥२५॥
गलग्रहं पूतिनस्यं मूर्च्छायमरुचिं ज्वरम् ।
गुल्मं प्लीहानमानाहं किलासं कृच्छ्रमूत्रताम् ॥२६॥
कुष्ठान्यर्शांसि वीसर्पं वर्णनाशं भगन्दरम् ।
बुद्धीन्द्रियोपरोधं च कुर्यात् स्तम्भितमादित: ॥२७॥
तस्मादुपेक्ष्यं बलिनो बलदोषविचारिणा ।
रक्तपित्तं प्रथमत: प्रवृद्धं सिद्धिमिच्छता ॥२८॥
प्रायेण हि समुत्क्लिष्टमामदोषाच्छरीरिणाम् ।
वृद्धिं प्रयाति पित्तासृक्तस्मात्तल्लङ्घ्यमादित: ॥२९॥
मार्गौ दोषानुबन्धं च निदानं प्रसमीक्ष्य च ।
लङ्घनं रक्तापित्तादौ तर्पणं वा प्रयोजयेत् ॥३०॥
ह्रीबेरचन्दनोशीरमुस्तपर्पटकै: शृतम् ।
केवलं शृतशीतं वा दद्यात्तोयं पिपासवे ॥३१॥
ऊर्ध्वगे तर्पणं पूर्वं पेयां पूर्वमधोगते ।
कालसात्म्यानुबन्धज्ञो दद्यात् प्रकृतिकल्पवित् ॥३२॥
जलं खर्जूरमृद्वीकामधूकै: सपरूषकै: ।
शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम् ॥३३॥
तर्पणं सघृतक्षौद्रं लाजचूर्णै: प्रदापयेत् ।
ऊर्ध्वगं रक्तपित्तं तत् पीतं काले व्यपोहति ॥३४॥
मन्दाग्नेरम्लसात्म्याय तत् साम्लमपि कल्पयेत् ।
दाडिमामलकैर्विद्वानम्लार्थं चानुदापयेत् ॥३५॥
शालिषष्टिकनीवारकोरदूषप्रशान्तिका: ।
श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥३६॥
मुद्गा मसूराश्चणका: समकुष्ठाढकीफला: ।
प्रशस्ता: सूपयूषार्थे कल्पिता रक्तपित्तिनाम् ॥३७॥
पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवा: ।
किराततिक्तकं शाकं गण्डीर: सकठिल्लक: ॥३८॥
कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मले: ।
अन्नपानविधौ शाकं यच्चान्यद्रक्तपित्तनुत् ॥३९॥
शाकार्थं शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम् ।
स्विन्नं वा सर्पिषा भृष्टं यूषवद्वा विपाचितम् ॥४०॥
पारावतान् कपोताश्चं लावान् रक्ताक्षवर्तकान् ।
शशान् कपिञ्जलानेणान् हरिणान्कालपुच्छकान् ॥४१॥
रक्तपित्ते हितान् विद्याद्रसांस्तेषां प्रयोजयेत् ।
ईषदम्लाननम्लान् वा घृतभृष्टान् सशर्करान् ॥४२॥
कफानुगे यूषशाकं दद्याद्वातानुगे रसम् ।
रक्तपित्ते यवागूनामत: कल्प: प्रवक्ष्यते ॥४३॥
पद्मोत्पलानां किञ्जल्क: पृश्निपर्णी प्रियङ्गुका: ।
जले साध्या रसे तस्मिन् पेया स्याद्रक्तपित्तिनाम् ॥४४॥
चन्दनोशीरलोध्राणां रसे तद्वत् सनागरे ।
किराततिक्तकोशीरमुस्तानां तद्वदेव च ॥४५॥
धातकीधन्वयासाम्बुबिल्वानां वा रसे शृता ।
मसूरपृश्निपर्ण्योर्वा स्थिरामुद्गरसेऽथ वा ॥४६॥
रसे हरेणुकानां वा सघृते सबलारसे ।
सिद्धा: पारावतादीनां रसे वा स्यु: पृथक्पृथक् ॥४७॥
इत्युक्ता रक्तपित्तघ्न्य: शीता: समधुशर्करा: ।
यवाग्व: कल्पना चैषा कार्या मांसरसेष्वपि ॥४८॥
शश: सवास्तुक: शस्तो विबन्धे रक्तपित्तिनाम् ।
वातोल्बणे तित्तिरि: स्यादुदुम्बररसे शृत: ॥४९॥
मयूर: प्लक्षनिर्यूहे न्यग्रोधस्य च कुक्कुट: ।
रसे बिल्वोत्पलादीनां वर्तकक्रकरौ हितौ ॥५०॥
तृष्यते तिक्तकै: सिद्धं तृष्णाघ्नं वा फलोदकम् ।
सिद्धं विदारिगन्धाद्यैरथवा शृतशीतलम् ॥५१॥
ज्ञात्वा दोषावनुबलौ बलमाहारमेव च ।
जलं पिपासवे दद्याद्विसर्गादल्पशोऽपि वा ॥५२॥
निदानं रक्तपित्तस्य यत्किंचित् संप्रकाशितम् ।
जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभि: ॥५३॥
इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तनुत् ।
वक्ष्यते बहुदोषाणां कार्यं बलवतां च यत् ॥५४॥
अक्षीणबलमांसस्य यस्य संतर्पणोत्थितम् ।
बहुदोषं बलवतो रक्तपित्तं शरीरिण: ॥५५॥
काले संशोधनार्हस्य तद्धरेन्निरुपद्रवम् ।
विरेचनेनोर्ध्वभागमधोगं वमनेन च ॥५६॥
त्रिवृतामभयां प्राज्ञ: फलान्यारग्वधस्य वा ।
त्रायमाणां गवाक्ष्या वा मूलमामलकानि वा ॥५७॥
विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम् ।
रस: प्रशस्यते तेषां रक्तपित्ते विशेषत: ॥५८॥
वमनं मदनोन्मिश्रो मन्थ: सक्षौद्रशर्कर: ।
सशर्करं वा सलिलमिक्षूणां रस एव वा ॥५९॥
वत्सकस्य फलं मुस्तं मदनं मधुकं मधु ।
अधोवहे रक्तपित्ते वमनं परमुच्यते ॥६०॥
ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादि: क्रमो हित: ।
अधोगते यवाग्वादिर्न चेत्स्यान्मारुतो बली ॥६१॥
बलमांसपरिक्षीणं शोकभाराध्वकर्शितम् ।
ज्वलनादित्यसंतप्तमन्यैर्वा क्षीणमामयै: ॥६२॥
गर्भिणीं स्थविरं बालं रूक्षाल्पप्रमिताशिनम् ।
अवम्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम् ॥६३॥
शोषेण सानुबन्धं वा तस्य संशमनी क्रिया ।
शस्यते रक्तपित्तस्य परं साऽथ प्रवक्ष्यते ॥६४॥
अटरूषकमृद्वीकापथ्याक्वाथ: सशर्कर: ।
मधुमिश्र: श्वासकासरक्तपित्तनिबर्हण: ॥६५॥
अटरूषकनिर्यूहे प्रियङ्गु मृत्तिकाञ्जने ।
विनीय लोध्रं क्षौद्रं च रक्तपित्तहरं पिबेत् ॥६६॥
पद्मकं पद्मकिञ्जल्कं दूर्वां वास्तूकमुत्पलम् ।
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत् ॥६७॥
प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे ।
यवासभृङ्गरजसोर्मूलं वा गोशकृद्रसे ॥६८॥
विनीय रक्तपितघ्नं पेयं स्यात्तण्डुलाम्बुना ।
युक्तं वा मधुसर्पिर्भ्यां लिह्याद्गोश्वशकृद्रसम् ॥६९॥
खदिरस्य प्रियङ्गूणां कोविदारस्य शाल्मले: ।
पुष्पचूर्णानि मधुना लिह्यान्ना रक्तपित्तिक: ॥७०॥
शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि ।
लिह्याच्चूर्णानि मधुना केशरस्य पद्मानां च ॥७१॥
धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम् ।
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावतं शकृत् ॥७२॥
उशीरकालीयकलोध्रपद्मकप्रियङ्गुकाकट्फलशङ्खगैरिका: ।
पृथक् पृथक् चन्दनतुल्यभागिका: ।
सशर्करास्तण्डुलधावनाप्लुता: ॥७३॥
रक्तं सपित्तं तमकं पिपासां
दाहं च पीता: शमयन्ति सद्य: ।
किराततिक्तं क्रमुकं समुस्तं
प्रपौण्डरीकं कमलोत्पले च ॥७४॥
ह्रीबेरमूलानि पटोलपत्रं
दुरालभा पर्पटको मृणालम् ।
धनञ्जयोदुम्बरवेतसत्वङ्न्यग्रोधशालेययवासकत्वक् ॥७५॥
तुगालतावेतसतण्डुलीयं
ससारिवं मोचरस: समङ्गा ।
पृथक् पृथक् चन्दनयोजितानि
तेनैव कल्पेन हितानि तत्र ॥७६॥
निशि स्थिता वा स्वरसीकृता वा
कल्कीकृता वा मृदिता: शृता वा ।
एते समस्ता गणश: पृथग्वा
रक्तं सपित्तं शमयन्ति योगा: ॥७७॥
मुद्गा: सलाजा: सयवा: सकृष्णा:
सोशीरमुस्ता: सह चन्दनेन ।
बलाजले पर्युषिता: कषाया
रक्तं सपित्तं शमयन्त्युदीर्णम् ॥७८॥
वैदूर्यमुक्तामणिगैरिकाणां
मृच्छङ्खहेमामलकोदकानाम् ।
मधूदकस्येक्षुरसस्य चैव
पानाच्छमं गच्छति रक्तपित्तम् ॥७९॥
उशीरपद्मोत्पलचन्दनानां
पक्वस्य लोष्टस्य च य: प्रसाद: ।
सर्शकर: क्षौद्रयुत: सुशीतो
रक्तातियोगप्रशमाय देय: ॥८०॥
प्रियङ्गुकाचन्दनलोध्रसारिवामधूकमुस्ताभयधातकीजलम् ।
समृत्प्रसादं सह यष्टिकाम्बुना
सशर्करं रक्तनिबर्हणं परम् ॥८१॥
कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते च ।
यद्रक्तपित्तं प्रशमं न याति तत्रानिल: स्यादनु तत्र कार्यम् ॥८२॥
छागं पय: स्यात् परमं प्रयोगे
गव्यं शृतं पञ्चगुणे जले वा ।
सशर्करं माक्षिकसंप्रयुक्तं
विदारिगन्धादिगणै: शृतं वा ॥८३॥
द्राक्षाशृतं नागरकै: शृतं वा
बलाशृतं गोक्षुरकै: शृतं वा ।
सजीवकं सर्षभकं ससर्पि:
पय: प्रयोज्यं सितया शृतं वा॥८४।
शतावरीगोक्षुरकै: शृतं वा
शृतं पयो वाऽप्यथ पर्णिनीभि: ।
रक्तं निहन्त्याशु विशेषतस्तु
यन्मूत्रमार्गात् सरुजं प्रयाति ॥८५॥
विशेषतो विट्पथसंप्रवृत्ते
पयो मतं मोचरसेन सिद्धम्
वटावरोहैर्वटशुङ्गकैर्वा
ह्रीबेरनीलोत्पलनागरैर्वा ॥८६॥
कषाययोगान् पयसा पुरा वा
पीत्वाऽनु चाद्यात् पयसैव शालीन् ।
कषाययोगैरथवा विपक्वमेतै: पिबेत् सर्पिरतिस्रवे च ॥८७॥
वासां सशाखां सपलाशमूलां
कृत्वा कषायं कुसुमानि चास्या: ।
प्रदाय कल्कं विपचेद्घृतं तत् ।
सक्षौद्रमाश्वेव निहन्ति रक्तम् ॥८८॥
इति वासाघृतम् ।
पलाशवृन्तस्वरसेन सिद्धं
तस्यैव कल्केन मधुद्रवेण ।
लिह्याद्घृतं वत्सककल्कसिद्धं
तद्वत् समङ्गोत्पललोध्रसिद्धम् ॥८९॥
स्यात् त्रायमाणविधिरेष एव
सोदुम्बरे चैव पटोलपत्रे ।
सर्पींषि पित्तज्वरनाशनानि
सर्वाणि शस्तानि च रक्तपित्ते ॥९०॥
अभ्यङ्गयोगा: परिषेचनानि
सेकावगाहा: शयनानि वेश्म ।
शीतो विधिर्बस्तिविधानमग्र्यं
पित्तज्वरे यत् प्रशमाय दिष्टम् ॥९१॥
तद्रक्तपित्ते निखिलेन कार्यं
कालं च मात्रां च पुरा समीक्ष्य ।
सर्पिर्गुडा ये च हिता: क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्य: ॥९२॥
कफानुबन्धे रुधिरे सपित्ते
कण्ठागते स्याद्ग्रथिते प्रयोग: ।
युक्तस्य युक्त्या मधुसर्पिषोश्च
क्षारस्य चैवोत्पलनालजस्य ॥९३॥
मृणालपद्मोत्पलकेशराणां
तथा पलाशस्य तथा प्रियङ्गो: ।
तथा मधूकस्य तथाऽसनस्य
क्षारा: प्रयोज्या विधिनैव तेन ॥९४॥
शतावरीदाडिमतिन्तिडीकं
काकोलिमेदे मधुकं विदारीम् ।
पिष्ट्वा च मूलं फलपूरकस्य
घृतं पचेत् क्षीरचतुर्गुणं ज्ञ: ॥९५॥
कासज्वरानाहविबन्धशूलं
तद्रक्तपित्तं च घृतं निहन्यात् ।
यत् पञ्चमूलैरथ पञ्चभिर्वा
सिद्धं घृतं तच्च तदर्थकारि ॥९६॥
इति शतावर्यादिघृतम् ।
कषाययोगा य इहोपदिष्टास्ते चावपीडे भिषजा प्रयोज्या: ।
घ्राणात् प्रवृत्तं रुधिरं सपित्तं
यदा भवेन्नि:सृतदुष्टदोषम् ॥९७॥
रक्ते प्रदुष्टे ह्यवपीडबन्धे
दुष्टप्रतिश्यायशिरोविकारा: ।
रक्तं सपूयं कुणपश्च गन्ध:
स्याद् घ्राणनाश: कृमयश्च दुष्टा: ॥९८॥
नीलोत्पलं गैरिकशङ्खयुक्तं
सचन्दनं स्यात्तु सिताजलेन ।
नस्यं तथाऽऽम्रास्थिरस: समङ्गा
सधातकीमोचरस: सलोध्र: ॥९९॥
द्राक्षारसस्येक्षुरसस्य नस्यं
क्षीरस्य दूर्वास्वरसस्य चैव ।
यवासमूलानि पलाण्डुमूलं
नस्यं तथा दाडिमपुष्पतोयम् ॥१००॥
प्रियालतैलं मधुकं पयश्च
सिद्धं घृतं माहिषमाजिकं वा ।
आम्रास्थिपूर्वै: पयसा च नस्यं
ससारिवै: स्यात् कमलोत्पलैश्च ॥१०१॥
भद्रश्रियं लोहितचन्दनं च
प्रपौण्डरीकं कमलोत्पले च ।
उशीरवानीरजलं मृणालं
सहस्रवीर्या मधुकं पयस्या ॥१०२॥
शालीक्षुमूलानि यवासगुन्द्रामूलं नलानां कुशकाशयोश्च ।
कुचन्दनं शैवलमप्यनन्ता
कालानुसार्या तृणमूलमृद्धि: ॥१०३॥
मूलानि पुष्पाणि च वारिजानां
प्रलेपनं पुष्करिणीमृदश्च ।
उदुम्बराश्वत्थमधूकलोध्रा:
कषायवृक्षा: शिशिराश्च सर्वे ॥१०४॥
प्रदेहकल्पे परिषेचने च
तथाऽवगाहे घृततैलसिद्धौ ।
रक्तस्य पित्तस्य च शान्तिमिच्छन्
भद्रश्रियादीनि भिषक् प्रयुञ्जात् ॥१०५॥
धारागृहं भूमिगृहं सुशीतं
वनं च रम्यं जलवातशीतम् ।
वैदूर्यमुक्तामणिभाजनानां
स्पर्शाश्च दाहे शिशिराम्बुशीता: ॥१०६॥
पत्राणि पुष्पाणि च वारिजानां
क्षौमं च शीतं कदलीदलानि ।
प्रच्छादनार्थं शयनासनानां
पद्मोत्पलानां च दला: प्रशस्ता: ॥१०७॥
प्रियङ्गुकाचन्दनरूषितानां
स्पर्शा: प्रियाणां च वराङ्गनानाम् ।
दाहे प्रशस्ता: सजला: सुशीता:
पद्मोत्पलानां च कलापवाता: ॥१०८॥
सरिद्ध्रदानां हिमवद्दरीणां
चन्द्रोदयानां कमलाकराणाम् ।
मनोऽनुकूला: शिशिराश्च सर्वा:
कथा: सरक्तं शमयन्ति पित्तम् ॥१०९॥
तत्र श्लोकौ —
हेतुं वृद्धिं संज्ञां स्थानं लिङ्गं पृथक् प्रदुष्टस्य ।
मार्गौ साध्यमसाध्यं याप्यं कार्यक्रमं चैव ॥११०॥
पानान्नमिष्टमेव च वर्ज्यं संशोधनं च शमनं च ।
गुरुरुक्तवान्यथावच्चिकित्सिते रक्तपित्तस्य ॥१११॥
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्याय: ॥४॥
Last updated on June 18th, 2021 at 07:23 am