चरकसंहिता
शारीरस्थानम् ।
अष्टमोऽध्याय: ।
अथातो जातिसूत्रीयं शारीरं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
स्त्रीपुंसयोरव्यापन्नशुक्रशोणितगर्भाशययो: श्रेयसीं प्रजामिच्छतोस्तदर्थाभिनिर्वृत्तिकरं कर्मोपदेक्ष्याम: ॥३॥
अथाप्येतौ स्त्रीपुंसौ स्नेहस्वेदाभ्यामुपपाद्य, वमनविरेचनाभ्यां संशोध्यं, क्रमेण प्रकृतिमापादयेत् । संशुद्धौ चास्थापनानुवासनाभ्यामुपाचरेत्, उपाचरेच्च मधुरौषधसंस्कृताभ्यां घृतक्षीराभ्यां पुरुषं, स्त्रियं तु तैलमाषाभ्याम् ॥४॥
तत: पुष्पात् प्रभृति त्रिरात्रमासीत ब्रह्मचारिण्यध:शायिनी, पाणिभ्यामन्नमजर्जरपात्राद्भुञ्जाना, न च काञ्चिन्मृजामापद्येत । ततश्चतुर्थेऽहन्येनामुत्साद्य सशिरस्कं स्नापयित्वा शुक्लानि वासांस्याच्छादयेत् पुरुषं च । तत: शुक्लवाससौ स्रग्विणौ सुमनसावन्योन्यमभिकामौ संवसेयातां स्नानात् प्रभृति युग्मेष्वह:सु पुत्रकामौ, अयुग्मेषु दुहितृकामौ ॥५॥
न च न्युब्जां पार्श्वगतां वा संसेवेत । न्युब्जाया वातो बलवान् स योनिं पीडयति, पार्श्वगताया दक्षिणे पार्श्वे श्लेष्मा स च्युत: पिदधाति गर्भाशयं, वामे पार्श्वे पित्तं तदस्या: पीडितं विदहति रक्तं शुक्रं च, तस्मादुत्ताना बीजं गृह्णीयात्, तथाहि यथास्थानमवतिष्ठन्ते दोषा: । पर्याप्ते चैनां शीतोदकेन परिषिञ्चेत् । तत्रात्यशिता क्षुधिता पिपासिता भीता विमना: शोकार्ता क्रुद्धाऽन्यं च पुमांसमिच्छन्ती मैथुने चातिकामा वा न गर्भं धत्ते, विगुणां वा प्रजां जनयति । अतिबालामतिवृद्धा दीर्घरोगिणीमन्येन वा विकारेणोपसृष्टां वर्जयेत् । पुरुषेऽप्येत एव दोषा: । अत: सर्वदोषवर्जितौ स्त्रीपुरुषौ संसृज्येयाताम् ॥६॥
संजातहर्षौ मैथुने चानुकूलाविष्टगन्धं स्वास्तीर्णं सुखं शयनमुपकल्प्य मनोज्ञं हितमशनमशितवा नात्यशितौ दक्षिणपादेन पुमानारोहेत वामपादेन स्त्री ॥७॥
तत्र मन्त्रं प्रयुञ्जीत- “अहिरसि आयुरसि सर्वत: प्रतिष्ठाऽसि धाता त्वा ददतु विधाता त्वा दधातु ब्रह्मवर्चसा भव’’ इति ।
“ब्रह्मा बृहस्पतिर्विष्णु: सोम: सूर्यस्तथाऽश्विनौ ।
भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम्’’
इत्युक्त्वा संवसेयाताम् ॥८॥
सा चेदेवमाशासीत–बृहन्तमवदातं हर्यक्षमोजस्विनं शुचिं सत्त्वसंपन्नं पुत्रमिच्छेयमिति, शुद्धस्नानात् प्रभृत्यस्यै मन्थमवदातयवानां मधुसर्पिर्भ्यां संसृज्य श्वेताया गो: सरूपवत्साया: पयसाऽऽलोड्य राजते कांस्ये वा पात्रे काले काले सप्ताहं सततं प्रयच्छेत पानाय । प्रातश्च शालियवान्नविकारान् दधिमधुसर्पिर्भि: पयोभिर्वा संसृज्य भुञ्जीत, तथा सायमवदातशरणशयनासन पानवसनभूषणा च स्यात् । सायं प्रातश्च शश्वच्छ्वेतं महान्तं वृषभमाजानेयं वा हरिचन्दनाङ्गदं पश्येत । सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत । सौम्याकृतिवचनोपचारचेष्टाश्चं स्त्रीपुरुषानितरानपि चेन्द्रियार्थानवदातान् पश्येत् । सहचर्यश्चैनां प्रियहिताभ्यां सततमुपचरेयुस्तथा भर्ता । न च मिश्रीभावमापद्येयातामिति । अनेन विधिना सप्तरात्रं स्थित्वाऽष्टमेऽहन्याप्लुत्याद्भि: सशिरस्कं सह भर्त्रा अहतानि वस्त्राण्याच्छादयेदवदातानि, अवदाताश्च स्रजो भूषणानि च बिभृयात् ॥९॥
तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राग्प्रवणमुदक्प्रवणं वा प्रदेशमभिसमीक्ष्य, गोमयोदकाभ्यां स्थण्डिलमुपलिप्य, प्रोक्ष्य चोदकेन, वेदीमस्मिन् स्थापयेत् । तां पश्चिमेनाहतवस्त्रसंचये श्वेतार्षभे वाऽप्यजिन उपविशेद् ब्राह्मणप्रयुक्त:, राजन्यप्रयुक्तस्तु वैयाघ्रे चर्मण्यानडुहे वा, वैश्यप्रयुक्तस्तु रौरवे बास्ते वा । तत्रोपविष्ट: पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय, कुशै: परिस्तीर्य, परिधिभिश्च परिधाय, लाजै: शुक्लाभिश्च गन्धवतीभि: सुमनोभिरुपकिरेत् । तत्र प्रणीयोदपात्रं पवित्रपूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्तत: स्थापयेत् ॥१०॥
तत: पुत्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मणमुपविश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्रमाशासाना । ततस्तस्या आशासानाया ऋत्विक् प्रजापतिमभिनिर्दिश्य योनौ तस्या: कामपरिपूरणार्थं काम्यामिष्टिं निर्वर्तयेद् ‘विष्णुर्योनिं कल्पयतु’ इत्यनयर्चा । ततश्चैवाज्येन स्थालीपाकमभिघार्य त्रिर्जुहुयाद्यथामनयम् । मन्त्रोपमन्त्रितमुदपात्रं तस्यै दद्यात् सर्वोदकार्थान् कुरुष्वेति । तत: समाप्ते कर्मणि पूर्वं दक्षिणपादमभिहरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत सह भर्त्रा । ततो ब्राह्मणान् स्वस्ति वाचयित्वाऽऽज्यशेषं प्राश्नीयात् पूर्वं पुमान्, पश्चात् स्त्री, न चोच्छिष्टमवशेषयेत् । ततस्तौ सह संवसेयातामष्टरात्रं, तथाविधपरिच्छदावेव च स्यातां, तथेष्टपुत्रं जनयेताम् ॥११॥
या तु स्त्री श्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं च पुत्रमाशासीत, या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम्, एष एवानयोरपि होमविधि: । किन्तु परिबर्हो वर्णवर्जं स्यात् । पुत्रवर्णानुरूपस्तु यथाशीरेव तयो: परिबर्होऽन्य: कार्य: स्यात् ॥१२॥
शूद्रा तु नमस्कारमेव कुर्यात् (देवाग्निद्विजगुरुतपस्विसिद्धेभ्य:) ॥१३॥
या या च यथाविधं पुत्रमाशासीत तस्यास्तस्यास्तां तां पुत्राशिषमनुनिशम्य तांस्ताञ्जनपदान्मनसाऽनुपरिक्रामयेत् । ततो या या येषां येषां जनपदानां मनुष्याणामनुरूपं पुत्रमाशासीत सा सा तेषां तेषां जनपदानां मनुष्याणामाहारविहारोपचार परिच्छदाननुविधत्स्वेति वाच्या स्यात् । इत्येतत् सर्वं पुत्राशिषां समृद्धिकरं कर्म व्याख्यातं भवति ॥१४॥
न खलु केवलमेतदेव कर्म वर्णवैशेष्यकरं भवति । अपि तु तेजोधातुरप्युदकान्तरिक्षधातुप्रायोऽवदातवर्णकरो भवति, पृथिवीवायुधातुप्राय: कृष्णवर्णकर:, समसर्वधातुप्राय: श्यामवर्णकर: ॥१५॥
सत्त्ववैशेष्यकराणि पुनस्तेषां तेषां प्राणिनां मातापितृसत्त्वान्यन्तर्वत्न्या: श्रुतयश्चाभीक्ष्णं स्वोचितं च कर्म सत्त्वविशेषाभ्यासश्चेति ॥१६॥
यथोक्तेन विधिनोपसंस्कृतशरीरयो: स्त्रीपुरुषयोर्मिश्रीभावमापन्नयो: शुक्रं शोणितेन सह संयोगं समेत्याव्यापन्नमव्यापन्नेन योनावनुपहतायामप्रदुष्टे गर्भाशये गर्भमभिनिर्वर्तयत्येकान्तेन । यथा–निर्मले वाससि सुपरिकल्पिते रञ्जनं समुदितगुणमुपनिपातादेव रागमभिनिर्वर्तयति, तद्वत्, यथा वा क्षीरं दध्नाऽभिषुतमभिषवणाद्विहाय स्वभावमापद्यते दधिभावं, शुक्रं तद्वत् ॥१७॥
एवमभिनिर्वर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतु: पूर्वमुक्त: । यथा हि बीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते व्रीहिर्वा व्रीहित्वं यवो वा यवत्वं तथा स्त्रीपुरुषावपि यथोक्तं हेतुविभागमनुविधीयेते ॥१८॥
तयो: कर्मणा वेदोक्तेन विवर्तनमुपदिश्यते प्राग्व्यक्तीभावात् प्रयुक्तेन सम्यक् । कर्मणां हि देशकालसंपदुपेतानां नियतमिष्टफलत्वं, तथेतरेषामितरत्वम् । तस्मादापन्नगर्भा स्त्रियमभिसमीक्ष्य प्राग्व्यक्तीभावाद्गर्भस्य पुंसवनमस्यै दद्यात् । गोष्ठे जातस्य न्यग्रोधस्य प्रागुत्तराभ्यां शाखाभ्यां शुङ्गे अनुपहते आदाय द्वाभ्यां धान्यमाषाभ्यां संपदुपेताभ्यां गौरसर्षपाभ्यां वा सह दध्नि प्रक्षिप्य पुष्येण पिबेत्, तथैवापराञ्जीवकर्षभकापामार्गसहचरकल्काश्चं युगपदेकैकशो यथेष्टं वाऽप्युपसंस्कृत्य पयसा, कुड्यकीटकं मत्स्यकं वोदकाञ्जलौ प्रक्षिप्य पुष्येण पिबेत्, तथा कनकमयान् राजतानायसाश्चं पुरुषकानग्निवर्णानणुप्रमाणान् दध्नि पयस्युदकाञ्जलौ वा प्रक्षिप्य पिबेदनवशेषत: पुष्येण, पुष्येणैव च शालिपिष्टस्य पच्यमानस्योष्माणमुपाघ्राय तस्यैव च पिष्टस्योदकसंसृष्टस्य रसं देहल्यामुपनिधाय दक्षिणे नासापुटे स्वयमासिञ्चेत् पिचुना । यच्चान्यदपि ब्राह्मणा ब्रूयुराप्ता वा स्त्रिय: पुंसवनमिष्टं तच्चानुष्ठेयम् । इति पुंसवनानि ॥१९॥
अत ऊर्ध्वं गर्भस्थापनानि व्याख्यास्याम:–ऐन्द्री ब्राह्मी शतवीर्या सहस्रवीर्याऽमोघाऽव्यथा शिवाऽरिष्टा वाट्यपुष्पी विष्वक्सेनकान्ता चेत्यासामोषधीनां शिरसा दक्षिणेन वा पाणिना धारणं, एताभिश्चैव सिद्धस्य पयस: सर्पिषो वा पानम्, एताभिश्चैव पुष्ये पुष्ये स्नानं, सदा च ता: समालभेत । तथा सर्वासां जीवनीयोक्तानामोषधीनां सदोपयोगस्तैस्तैरुपयोगविधिभि: । इति गर्भस्थापनानि व्याख्यातानि भवन्ति ॥२०॥
गर्भोपघातकरास्त्विमे भावा भवन्ति, तद्यथा–उत्कटविषमकठिनासनसेविन्या वातमूत्रपुरीषवेगानुपरुन्धत्या दारुणानुचित- व्यायामसेविन्यास्तीक्ष्णोष्णातिमात्रसेविन्या: प्रमिताशनसेविन्या गर्भो म्रियतेऽन्त: कुक्षे:, अकाले वा स्रंसते, शोषी वा भवति, तथाऽभिघातप्रपीडनै: श्वभ्रकूपप्रपातदेशावलोकनैर्वाऽभीक्ष्णं मातु: प्रपतत्यकाले गर्भ:, तथाऽतिमात्रसंक्षोभिभिर्यानैर्यानेन, अप्रियाति- मात्रश्रवणैर्वा । प्रततोत्तानशायिन्या: पुनर्गर्भस्य नाभ्याश्रया नाडी कण्ठमनुवेष्टयति, विवृतशायिनी नक्तंचारिणी चोन्मत्तं जनयति, अपस्मारिणं पुन: कलिकलहशीला, व्यवायशीला दुर्वपुषमह्रीकं स्त्रैणं वा, शोकनित्या भीतमपचितमल्पायुषं वा, अभिध्यात्री परोपतापिनमीर्ष्युं स्त्रैणं वा, स्तेनात्वायासबहुलमतिद्रोहिणमकर्मशीलं वा, अमर्षिणी चण्डमौपधिकमसूयकं वा, स्वप्ननित्या तन्द्रालुमबुधमल्पाग्निंवा, मद्यनित्या पिपासालुमल्पस्मृतिमनवस्थितचित्तं वा, गोधामांसप्राया शार्करिणमश्मरिणं शनैर्मेहिणं वा, वराहमांसप्राया रक्ताक्षं क्रथनमतिपरुषरोमाणं वा, मत्स्यमांसनित्या चिरनिमेषं स्तब्धाक्षं वा, मधुरनित्या प्रमेहिणं मूकमतिस्थूलं वा, अम्लनित्या रक्तपित्तिनं त्वगक्षिरोगिणं वा, लवणनित्या शीघ्रवलीपलितं खालित्यरोगिणं वा, कटुकनित्या दुर्बलमल्पशुक्रमनपत्यं वा, तिक्तनित्या शोषिणमबलमनुपचितं वा, कषायानित्या श्यावमानाहिनमुदावर्तिनं वा, यद्यच्च यस्य यस्य व्याधेर्निदानमुक्तं तत्तदासेवमानाऽन्तर्वत्नी तन्निमित्तविकारबहुलमपत्यं जनयति । पितृजास्तु शुक्रदोषा मातृजैरपचारैर्व्याख्याता: । इति गर्भोपघातकरा भावा भवन्त्युक्ता: । तस्मादहितानाहारविहारान् प्रजासंपदमिच्छन्ती स्त्री विशेषेण वर्जयेत् । साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति ॥२१॥
व्याधीश्चांस्या मृदुमधुरशिशिरसुखसुकुमारप्रायैरौषधाहारोपचारैरुपचरेत्, न चास्या वमनविरेचनशिरोविरेचनानि प्रयोजयेत्, न रक्तमवसेचयेत्, सर्वकालं च नास्थापनमनुवासनं वा कुर्यादन्यत्रात्ययिकाद्व्याधे: । अष्टमं मासमुपादाय वमनादिसाध्येषु पुनर्विकारेष्वात्ययिकेषु मृदुभिर्वमनादिभिस्तदर्थकारिभिर्वोपचार: स्यात् । पूर्णमिव तैलपात्रमसंक्षोभयताऽन्तर्वत्नी भवत्युपचर्या ॥२२॥
सा चेदपचाराद् द्वयोस्त्रिषु वा मासेषु पुष्पं पश्येन्नास्या गर्भ: स्थास्यतीति विद्यात्, अजातसारो हि तस्मिन् काले भवति गर्भ: ॥२३॥
सा चेच्चतुष्प्रभृतिषु मासेषु क्रोधशोकासूयेर्ष्याभयत्रासव्यवायव्यायामसंक्षोभसंधारणविषमाशनशयनस्थानक्षुत्पिपासातियोगात् कदाहाराद्वा पुष्पं पश्येत्, तस्या गर्भस्थापनविधिमुपदेक्ष्याम: । पुष्पदर्शनादेवैनां ब्रूयात्–शयनं तावन्मृदुसुखशिशिरास्तरणसंस्तीर्ण- मीषदवनतशिरस्कं प्रतिपद्यस्वेति । ततो यष्टीमधुकसर्पिर्भ्यां परमशिशिरवारिणि संस्थिताभ्यां पिचुमाप्लाव्योपस्थसमीपे स्थापयेत्तस्या:, तथा शतधौतसहस्रधौताभ्यां सर्पिर्भ्यामधोनाभे: सर्वत: प्रदिह्यात्, सर्वतश्च गव्येन चैनां पयसा सुशीतेन मधुकाम्बुना वा न्यग्रोधादि कषायेण वा परिषेचयेदधो नाभे:, उदकं वा सुशीतमवगाहयेत्, क्षीरिणां कषायद्रुमाणां च स्वरसपरिपीतानि चेलानि ग्राहयेत्, न्यग्रोधादिशुङ्गासिद्धयोर्वा क्षीरसर्पिषो: पिचुं ग्राहयेत्, अतश्चैवाक्षमात्रं प्राशयेत्, प्राशयेद्वा केवलं क्षीरसर्पि:, पद्मोत्पलकुमुद किञ्जल्कांश्चास्यै समधुशर्करान् लेहार्थं दद्यात्, शृङ्गाटकपुष्करबीजकशेरुकान् भक्षणार्थं, गन्धप्रियङ्ग्वसितोत्पलशालूकोदुम्बर शलाटुन्यग्रोधशुङ्गानि वा पाययेदेनामाजेन पयसा, पयसा चैनां बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन समधुशर्करं रक्तशालीनामोदनं मृदुसुरभिशीतलं भोजयेत्, लावकपिञ्जलकुरङ्गशम्बरशशहरिणैणकालपुच्छकरसेन वा घृतसुसंस्कृतेन सुखशिशिरोपवातदेशस्थां भोजयेत्, क्रोधशोकायासव्यवायव्यायामेभ्यश्चाभिरक्षेत्, सौम्याभिश्चैनां कथाभिर्मनोनुकूलाभिरुपासीत; तथाऽस्या गर्भस्तिष्ठति ॥२४॥
यस्या: पुनरामान्वयात् पुष्पदर्शनं स्यात्, प्रायस्तस्यास्तद्गर्भोपघातकरं भवति, विरुद्धोपक्रमत्वात्तयो: ॥२५॥
यस्या: पुनरुष्णतीक्ष्णोपयोगाद्गर्भिण्या महति संजातसारे गर्भे पुष्पदर्शनं स्यादन्यो वा योनिस्रावस्तस्या गर्भो वृद्धिं न प्राप्नोति नि:स्रुतत्वात्, स कालमवतिष्ठतेऽतिमात्रं, तमुपविष्टकमित्याचक्षते केचित् । उपवासव्रतकर्मपराया: पुन: कदाहाराया: स्नेहद्वेषिण्या वातप्रकोपणोक्तान्यासेवमानाया गर्भो वृद्धिं न प्राप्नोति परिशुष्कत्वात्, स चापि कालमवतिष्ठतेऽतिमात्रम्, अस्पन्दना भवति, तं तु नागोदरमित्याचक्षते ॥२६॥
नार्योस्तयोरुभयोरपि चिकित्सितविशेषमुपदेक्ष्याम:–भौतिकजीवनीयबृंहणीयमधुरवातहरसिद्धानां सर्पिषां पयसामामगर्भाणां चोपयोगो गर्भवृद्धिकर:, तथा संभोजनमेतैरेव सिद्धैश्च घृतादिभि: सुभिक्षाया:, अभीक्ष्णं यानवाहनापमार्जनावजृम्भणैरुपपादनमिति ॥२७॥
यस्या: पुनर्गर्भ: प्रसुप्तो न स्पन्दते तां श्येनमत्स्यगवयशिखिताम्रचूडतित्तिरीणामन्यतमस्य सर्पिष्मता रसेन माषयूषेण वा प्रभूतसर्पिषा मूलकयूषेण वा रक्तशालीनामोदनं मृदुमधुरशीतलं भोजयेत् । तैलाभ्यङ्गेन चास्या अभीक्ष्णमुदरबस्तिवंक्षणोरुकटीपार्श्वपृष्ठ- प्रदेशानीषदुष्णेनोपचरेत् ॥२८॥
यस्या: पुनरुदावर्तविबन्ध: स्यादष्टमे मासे न चानुवासनसाध्यं मन्येत ततस्तस्यास्तद्विकारप्रशमनमुपकल्पयेन्निरूहम् । उदावर्तो ह्युपेक्षित: सहसा सगर्भां गर्भिणीं गर्भमथवाऽतिपातयेत् । तत्र वीरणशालिषष्टिककुशकाशेक्षुवालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधुकमृद्वीकानां च पयसाऽर्धोदकेनोद्गमय्य रसं प्रियालबिभीतकमज्जतिलकल्कसंप्रयुक्तमीषल्लवण- मनत्युष्णं च निरूहं दद्यात् । व्यपगतविबन्धां चैनां सुखसलिलपरिषिक्ताङ्गीं स्थैर्यकरमविदाहिनमाहारं भुक्तवतीं सायं मधुरकसिद्धेन तैलेनानुवासयेत् । न्युब्जां त्वेनामास्थापनानुवासनाभ्यामुपचरेत् ॥२९॥
यस्या: पुनरतिमात्रदोषोपचयाद्वा तीक्ष्णोष्णतिमात्रसेवनाद्वा वातमूत्रपुरीषवेगविधारणैर्वा विषमाश(स)नशयनस्थानसंपीडनाभिघातैर्वा क्रोधशोकेर्ष्याभयत्रासादिभिर्वा साहसैर्वाऽपरै: कर्मभिरन्त:कुक्षेर्गर्भो म्रियते, तस्या: स्तिमितं स्तब्धमुदरमाततंशीतमश्मान्तर्गतमिव भवत्यस्पन्दनो गर्भ:, शूलमधिकमुपजायते, न चाव्य: प्रादुर्भवन्ति, योनिर्न प्रस्रवति, अक्षिणी चास्या: स्रस्ते भवत:, ताम्यति, व्यथते, भ्रमते, श्वसिति, अरतिबहुला च भवति, न चास्या वेगप्रादुर्भावो यथावदुपलभ्यते, इत्येवंलक्षणां स्त्रियं मृतगर्भेयमिति विद्यात् ॥३०॥
तस्य गर्भशल्यस्य जरायुप्रपातनं कर्म संशमनमित्याहुरेके, मन्त्रादिकमथर्ववेदविहितमित्येके, परिदृष्टकर्मणा शल्यहर्त्रा हरणमित्येके । व्यपगतगर्भशल्यां तु स्त्रियमामगर्भां सुरासीध्वरिष्टमधुमदिरासवानामन्यतममग्रे सामर्थ्यत: पाययेद्गर्भकोष्ठ शुद्ध्यर्थमर्तिविस्मरणार्थं प्रहर्षणार्थं च, अत: परं संप्रीणनैर्बलानुरक्षिभिरस्नेहसंप्रयुक्तैर्यवाग्वादिभिर्वा तत्कालयोगिभिराहारैरुपचरेद्दोषधातुक्लेदविशोषणमात्रं कालम् । अत: परं स्नेहपानैर्बस्तिभिराहारविधिभिश्च दीपनीयजीवनीयबृंहणीयमधुरवातहरसमाख्यातैरुपचरेत् । परिपक्वगर्भशल्याया: पुनर्विमुक्तगर्भशल्यायास्तदहरेव स्नेहोपचार: स्यात् ॥३१॥
परमतो निर्विकारमाप्याय्यमानस्य गर्भस्य मासे मासे कर्मोपदेक्ष्याम: । प्रथमे मासे शङ्किता चेद्गर्भमापन्ना क्षीरमनुपस्कृतं मात्रावच्छीतं काले काले पिबेत्, सात्म्यमेव च भोजनं सायं प्रातश्च भुञ्जीत, द्वितीये मासे क्षीरमेव च मधुरौषधसिद्धं, तृतीये मासे क्षीरं मधुसर्पिर्भ्यामुपसंसृज्य, चतुर्थे मासे क्षीरनवनीतमक्षमात्रमश्नीयात्, पञ्चमे मासे क्षीरसर्पि:, षष्ठे मासे क्षीरसर्पिर्मधुरौषधसिद्धं, तदेव सप्तमे मासे । तत्र गर्भस्य केशा जायमाना मातुर्विदाहं जनयन्तीति स्त्रियो भाषन्ते, तन्नेति भगवानात्रेय:, किन्तु गर्भोत्पीडनाद्वातपित्तश्लेष्माण उर: प्राप्य विदाहं जनयन्ति, तत: कण्डूरुपजायते, कण्डूमूला च किक्किसावाप्तिर्भवति । तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रं काले कालेऽस्यै पानार्थं दद्यात्, चन्दनमृणालकल्कैश्चास्या: स्तनोदरं विमृद्नीयात्, शिरीषधातकीसर्षपमधुकचूर्णैर्वा, कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा, निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषतहरिण शशरुधिरयुतया त्रिफलया वा, करवीरपत्रसिद्धेन तैलेनाभ्यङ्ग:, परिषेक: पुनर्मालतीमधुकसिद्धेनाम्भसा, जातकण्डूश्च कण्डूयनं वर्जयेत्त्वग्भेदवैरूप्यपरिहारार्थम्, असह्यायां तु कण्ड्वामुन्मर्दनोद्धर्षणाभ्यां परिहार: स्यात्, मधुरमाहारजातं वातहरमल्पमस्नेहलवणमल्पोदकानुपानं च भुञ्जीत । अष्टमे तु मासे क्षीरयवागूं सर्पिष्मतीं काले काले पिबेत्, तन्नेति भद्रकाप्य:, पैङ्गल्याबाधो ह्यस्या गर्भमागच्छेदिति, अस्त्वत्र पैङ्गल्याबाधा इत्याह भगवान् पुनर्वसुरात्रेय:, न त्वेवैतन्न कार्यम्, एवं कुर्वती ह्यरोगाऽऽरोग्यबलवर्ण स्वरसंहननसंपदुपेतं ज्ञातीनामपि श्रेष्ठमपत्यं जनयति । नवमे तु खल्वेनां मासे मधुरौषधसिद्धेन तैलेनानुवासयेत् । अतश्चवास्यास्तैलात् पिचुं योनौ प्रणयेद्गर्भस्थानमार्गस्नेहनार्थम् । यदिदं कर्म प्रथमं मासं समुपादायोपदिष्टमानवमान्मासात्तेन गर्भिण्या गर्भसमये गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदूभवति, वातश्चानुलोम: संपद्यते, मूत्रपुरीषे च प्रकृतिभूते सुखेन मार्गमनुपद्येत चर्मनखानि च मार्दवमुपयान्ति, बलवर्णौ चोपचीयेते, पुत्रं चेष्टं संपदुपेतं सुखिनं सुखेनैषा काले प्रजायत इति ॥३२॥
प्राक् चैवास्या नवमान्मासात् सूतिकागारं कारयेदपहृतास्थिशर्कराकपाले देशे प्रशस्तरूपरसगन्धायां भूमौ प्राग्द्वारमुदग्द्वारं वा बैल्वानां काष्ठानां तैन्दुकैङ्गुदकानां भल्लातकानां वार(रु)णानां खादिराणां वा, यानि चान्यान्यपि ब्राह्मणा: शंसेयुरथर्ववेद विदस्तेषां, वसनालेपनाच्छादनापिधानसंपदुपेतं वास्तुविद्याहृदययोगाग्निसलिलोदूखलवर्च:स्थानस्नानभूमिमहानसमृतुसुखं च ॥३३॥
तत्र सर्पिस्तैलमधुसैन्धवसौवर्चलकालविड्लवणविडङ्गकुष्ठकिलिमनागरपिप्पलीपिप्पलीमूलहस्तिपिप्पलीमण्डूक- पर्ण्येलालाङ्गलीवचाचव्यचित्रकचिरबिल्वहिङ्गुसर्षपलशुनकतककणकणिकानीपातसीबल्वजभूर्जकुलत्थमैरेयसुरासवा: सन्निहिता: स्यु:, तथाऽश्मानौ द्वौ, द्वे कु(च)ण्डमुसले, द्वे उदूखले, खरवृषभश्च, द्वौ च तीक्ष्णौ सूचीपिप्पलकौ सौवर्णराजतौ, शस्त्राणि च तीक्ष्णायसानि, द्वौ च बिल्वमयौ पर्यङ्कौ, तैन्दुकैङ्गुदानि च काष्ठान्यग्निसन्धुक्षणानि, स्त्रियश्च बह्वयो बहुश: प्रजाता: सौहार्दयुक्ता: सततमनुरक्ता: प्रदक्षिणाचारा: प्रतिपत्तिकुशला: प्रकृतिवत्सलास्त्यक्तविषादा: क्लेशसहिन्योऽभिमता:, ब्राह्मणाश्चाथर्ववेदविद:, यच्चान्यदपि तत्र समर्थ मन्येत्, यच्चान्यच्च ब्राह्मणा ब्रूयु: स्त्रियश्च वृद्धास्तत् कार्यम् ॥३४॥
तत: प्रवृत्ते नवमे मासे पुण्येऽहनि प्रशस्तनक्षत्रयोगमुपगते प्रशस्ते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते शान्तिं हुत्वा गोब्राह्मणमग्निमुदकं चादौ प्रवेश्य गोभ्यस्तृणोदकं मधुलाजाश्चं प्रदाय ब्राह्मणेभ्योऽक्षतान् सुमनसो नान्दीमुखानि च फलानीष्टानि दत्त्वोदकपूर्वमासनस्थेभ्योऽभिवाद्य पुनराचम्य स्वस्ति वाचयेत् । तत: पुण्याहशब्देन गोब्राह्मणं समनुवर्तमाना प्रदक्षिणं प्रविशेत् सूतिकागारम् । तत्रस्था च प्रसवकालं प्रतीक्षेत ॥३५॥
तस्यास्तु खल्विमानि लिङ्गानि प्रजननकालमभितो भवन्ति, तद्यथा–क्लमो गात्राणां, ग्लानिराननस्य, अक्ष्णो: शैथिल्यं, विमुक्तबन्धनत्वमिवं वक्षस:, कुक्षेरवस्रंसनम्, अधोगुरुत्वं, वंक्षणबस्तिकटीकुक्षिपार्श्वपृष्ठनिस्तोद:, योने: प्रस्रवणम्, अनन्नाभिलाषश्चेति, ततोऽनन्तरमावीनां प्रादुर्भाव:, प्रसेकश्च गर्भोदकस्य ॥३६॥
आवीप्रादुर्भावे तु भूमौ शयनं विदध्यान्मृद्वास्तरणोपपन्नम् । तदध्यासीत सा । तां तत: समन्तत: परिवार्य यथोक्तगुणा: स्त्रिय: पर्युपासीरन्नाश्वासयन्त्यो वाग्भिर्ग्राहिणीयाभि: सान्त्वनीयाभिश्च ॥३७॥
सा चेदावीभि: संक्लिश्यमाना न प्रजायेताथैनां ब्रूयात्– उत्तिष्ठ, मुसलमन्यतरं गृह्णीष्व, अनेनैतदुलूखलं धान्यपूर्णं मुहुर्मुहुरभिजहि मुहुर्मुहुरवजृम्भस्व चङ्क्रमस्व चान्तराऽन्तरेति, एवमुपदिशन्त्येके । तन्नेत्याह भगवानात्रेय: । दारुणव्यायामवर्जनं हि गर्भिण्या: सततमुपदिश्यते, विशेषतश्च प्रजननकाले प्रचलितसर्वधातुदोषाया: सुकुमार्या नार्या मुसलव्यायामसमीरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यात्, दुष्प्रतीकारतमा हि तस्मिन् काले विशेषेण भवति गर्भिणी, तस्मान्मुसलग्रहणं परिहार्यमृषयो मन्यन्ते, जृम्भणं चङ्क्रमणं च पुनरनुष्ठेयमिति । अथास्यै दद्यात् कुष्ठैलालाङ्गलिकीवचाचित्रकचिरबिल्वचव्यचूर्णमुपघ्रातुं, सा तन्मुहुर्मुहुरुपजिघ्रेत्, तथा भूर्जपत्रधूमं शिंशपासारधूमं वा । तस्याश्चान्तराऽन्तरा कटीपार्श्वपृष्ठसक्थिदेशानीषदुष्णेन तैलेनाभ्यज्यानुसुखमवमृद्नीयात् । अनेन कर्मणा गर्भोऽवाक् प्रतिपद्यते ॥३८॥
स यदा जानीयाद्विमुच्य हृदयमुदरमस्यास्त्वाविशति, बस्तिशिरोऽवगृह्णाति, त्वरयन्त्येनामाव्य:, परिवर्ततेऽधो गर्भ इति, अस्यामवस्थायां पर्यङ्कमेनामारोप्य प्रवाहयितुमुपक्रमेत । कर्णे चास्या मन्त्रमिममनुकूला स्त्री जपेत्–
‘क्षितिर्जलं वियत्तेजो वायुर्विष्णु: प्रजापति: ।
सगर्भां त्वां सदा पान्तु वैशल्यं च दिशन्तु ते ॥
प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने !।
कार्तिकेयद्युतिं पुत्रं कार्तिकेयाभिरक्षितम्’ इति ॥३९॥
ताश्चैनां यथोक्तगुणा: स्त्रियोऽनुशिष्यु:-अनागतावीर्मा प्रवाहिष्ठा:, प्रवाहते व्यर्थमेवास्यास्तत् कर्म भवति, प्रजा चास्या
विकृता विकृतिमापन्ना च, श्वासकासशोषप्लीहप्रसक्ता वा भवति । यथा हि क्षवथूद्गारवातमूत्रपुरीषवेगान् प्रयतमानोऽप्यप्राप्तकालान्न लभते कृच्छ्रेण वाऽप्यवाप्नोति, तथाऽनागतकालं गर्भमपि प्रवाहमाणा, यथा चैषामेव क्षवथ्वादीनां सन्धारणमुपघातायोपपद्यते, तथा प्राप्तकालस्य गर्भस्याप्रवाहणमिति । सा यथानिर्देशं कुरुष्वेति वक्तव्या स्यात् । तथा च कुर्वती शनै: पूर्वं प्रवाहेत, ततोऽनन्तरं बलवत्तरम् । तस्यां च प्रवाहमाणायां स्त्रिय: शब्दं कुर्यु:– ‘प्रजाता प्रजाता धन्यं पुत्रम्’ इति । तथाऽस्या हर्षेणाप्याय्यन्ते प्राणा: ॥४०॥
यदा च प्रजाता स्यात्तदैवैनामवेक्षेत–काचिदस्या अपरा प्रपन्ना न वेति । तस्याश्चेदपरा न प्रपन्ना स्यादथैनामन्यतमा स्त्री दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवन्निपीड्य सव्येन पाणिना पृष्ठत उपसंगृह्य तां सुनिर्धूतं निर्धुनुयात् । अथास्या: पार्ष्ण्या श्रोणीमाकोटयेत् । अस्या: स्फिचावुपसंगृह्य सुपीडितं पीडयेत्। अथास्या बालवेण्या कण्ठतालु परिमृशेत् । भूर्जपत्रकाचमणिसर्पनिर्मोकैश्चास्या योनिं धूपयेत् । कुष्ठतालीसकल्कं बल्वजयूषे मैरेयसुरामण्डे तीक्ष्णे कौलत्थे वा यूषे मण्डूकपर्णीपिप्पलीसंपाके वा संप्लाव्य पाययेदेनाम् । तथा सूक्ष्मैलाकिलिमकुष्ठनागरविडङ्गपिप्पलीकालागुरुचव्यचित्रकोपकुञ्चिकाकल्कं खरवृषभस्य वा जीवतो दक्षिणं कर्णमुत्कृत्य दृषदि जर्जरीकृत्य बल्वजक्वाथादीनामाप्लावनानामन्यतमे प्रक्षिप्याप्लाव्य मुहूर्तस्थितमुद्धृत्य तदाप्लावनं पाययेदेनाम् । शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य चैनां तैलस्य पिचुं ग्राहयेत् । अतश्चैवानुवासयेत् । एतैरेव चाप्लावनै: फलजीमूतेक्ष्वाकुधामार्गवकुटजकृतवेधनहस्तिपिप्पल्युपहितैरास्थापयेत् । तदास्थापनमस्या: सह वातमूत्रपुरीषैर्निर्हरत्यपरामासक्तां वायोरेवाप्रतिलोमगत्वात् । अपरां हि वातमूत्रपुरीषाण्यन्यानि चान्तर्बहिर्मार्गाणि सज्जन्ति ॥४१॥
तस्यास्यु खल्वपराया: प्रपतनार्थे कर्मणि क्रियमाणे जातमात्रस्यैव कुमारस्य कार्याण्येतानि कर्माणि भवन्ति, तद्यथा– अश्मनो: संघट्टनं कर्णयोर्मूले, शीतोदकेनोष्णोदकेन वा मुखपरिषेका:, तथा स क्लेशविहतान् प्राणान् पुनर्लभेत । कृष्णकपालिकाशूर्पेण चैनमभिनिष्पुणीयुर्यद्यचेष्ट: स्याद् यावत् प्राणानां प्रत्यागमनम् (तत्तत् सर्वमेव कार्यम्) । तत: प्रत्यागतप्राणं प्रकृतिभूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपादयेत् ॥४२॥
अथास्य ताल्वोष्ठकण्ठजिह्वाप्रमार्जनमारभेताङ्गुल्या सुपरिलिखितनखया सुप्रक्षालितोपधानकार्पाससपिचुमत्या । प्रथमं प्रमार्जितास्यस्य चास्य शिरस्तालु कार्पासपिचुना स्नेहगर्भेण प्रतिसंछादयेत् । ततोऽस्यानन्तरं सैन्धवोपहितेन सर्पिषा कार्यं प्रच्छर्दनम् ॥४३॥
तत: कल्पनं नाड्या: । अतस्तस्या: कल्पनविधिमुपदेक्ष्याम:–नाभिबन्धनात् प्रभृत्यष्टाङ्गुलमभिज्ञानं कृत्वा छेदनावकाशस्य द्वयोरन्तरयो: शनैर्गृहीत्वा तीक्ष्णेन रौक्मराजतायसानां छेदनानामन्यतमेनार्धधारेण छेदयेत् । तामग्रे सूत्रेणोपनिबध्य कण्ठेऽस्य शिथिलमवसृजेत् । तस्य चेन्नाभि: पच्येत, तां लोध्रमधुकप्रियङ्गुसुरदारुहरिद्राकल्कसिद्धेन तैलेनाभ्यज्यात्, एषामेव तैलौषधानां चूर्णेनावचूर्णयेत् । इति नाडीकल्पनविधिरुक्त: सम्यक् ॥४४॥
असम्यक्कल्पने हि नाड्या आयामव्यायामोत्तुण्डिता-पिण्डलिका-विनामिका-विजृम्भिकाबाधेभ्योभयम् । तत्राविदाहिभिर्वातपित्तप्रशमनैरभ्यङ्गोत्सादनपरिषेकै: सर्पिर्भिश्चोपक्रमेत गुरुलाघवमभिसमीक्ष्य ॥४५॥
अतोऽनन्तरं जातकर्म कुमारस्य कार्यम् । तद्यथा–मधुसर्पिषी मन्त्रोपमन्त्रिते यथामनयं प्रथमं प्राशितुं दद्यात् । स्तनमत ऊर्ध्वमेतेनैव विधिना दक्षिणं पातुं पुरस्तात् प्रयच्छेत् । अथात: शीर्षत: स्थापयेदुदकुम्भं मन्त्रोपमन्त्रितम् ॥४६॥
अथास्य रक्षां विदध्यात्–आदानीखदिरकर्कन्धुपीलुपरूषकशाखाभिरस्या गृहं समन्तत: परिवारयेत् । सर्वतश्च सूतिकागारस्य सर्षपातसीतण्डुलकणकणिका: प्रकिरेयु: । तथा तण्डुलबलिहोम: सततमुभयकालं क्रियेतानामकर्मण: । द्वारे च मुसलं देहलीमनु तिरश्चीनं न्यसेत् । वचाकुष्ठक्षौमकहिङ्गुसर्षपातसीलशुनकणकणिकानां रक्षोघ्नसमाख्यातानां चौषधीनां पोट्टलिकां बद्ध्वा सूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकाया: कण्ठे सपुत्राया:, स्थाल्युदककुम्भपर्यङ्केष्वपि, तथैव च द्वयोर्द्वारपक्षयो: । कणककण्टकेन्धनवानग्निस्तिन्दुककाष्ठेन्धनश्चाग्नि: सूतिकागारस्याभ्यन्तरतोनित्यं स्यात् । स्त्रियश्चैनां यथोक्तगुणा: सुहृदश्चानुश्चानुजागृयुर्दशाहं द्वादशाहं वा । अनुपरतप्रदानमङ्गलाशी: स्तुतिगीतवादित्रमन्नपानविशदमनुरक्तप्रहृष्ट जनसंपूर्ण च तद्वेश्म कार्यम् । ब्राह्मणश्चाथर्ववेदवित् सततमुभयकालं शान्तिं जुहुयात् स्वस्त्ययनार्थं कुमारस्य तथा सूतिकाया: । इत्येतद्रक्षाविधानमुक्तम् ॥४७॥
सूतिकां तु खलु बुभुक्षितां विदित्वा स्नेहं पाययेत परमया शक्त्या सर्पिस्तैलं वसां मज्जानं वा सात्म्यीभावमभिसमीक्ष्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरचूर्णसहितम् । स्नेहं पीतवत्याश्च सर्पिस्तैलाभ्यामभ्यज्य वेष्टयेदुदरं महताऽच्छेन वाससा, तथा तस्या न वायुरुदरे विकृतिमुत्पादयत्यनवकाशत्वात् । जीर्णे तु स्नेहे पिप्पल्यादिभिरेव सिद्धां यवागूं सुस्निग्धां द्रवां मात्रश: पाययेत । उभयत: कालं चोष्णोदकेन च परिषेचयेत् प्राक् स्नेहयवागूपानाभ्याम् । एवं पञ्चरात्रं सप्तरात्रं वाऽनुपाल्य क्रमेणाप्याययेत् । स्वस्थवृत्तमेतावत् सूतिकाया: ॥४८॥
तस्यास्तु खलु यो व्याधिरुत्पद्यते स कृच्छ्रसाध्यो भवत्यसाध्यो वा, गर्भवृद्धिक्षयितशिथिलसर्वधातुत्वात्, प्रवाहणवेदनाक्लेदनरक्तनि:स्रुतिविशेषशून्यशरीरत्वाच्च, तस्मात्तां यथोक्तेन विधिनोपचरेत्, भौतिकजीवनीयबृंहणीयमधुरवातहर- सिद्धैरभ्यङ्गोत्सादनपरिषेकावगाहनान्नपानविधिभिर्विशेषतश्चोपचरेत्, विशेषतो हि शून्यशरीरा: स्त्रिय: प्रजाता भवन्ति ॥४९॥
दशमे त्वहनि सपुत्रा स्त्री सर्वगन्धौषधैर्गौरसर्षपलोध्रैश्च स्नाता लघ्वहतशुचिवस्त्रं परिधाय पवित्रेष्टलघुविचित्रभूषणवती च संस्पृश्य मङ्गलान्युचितामर्चयित्वा च देवतां शिखिन: शुक्लवाससोऽव्यङ्गाश्चं ब्राह्मणान् स्वस्ति वाचयित्वा कुमारमहतानां च वाससां संचये प्राक्शिरसमुदक्शिरसं वा संवेश्य देवतापूर्वं द्विजातिभ्य: प्रणमतीत्युक्त्वा कुमारस्य पिता द्वे नामनी कारयेन्नाक्षत्रिकं नामाभिप्रायिकं च । तत्राभिप्रायिकं घोषवदाद्यन्तस्थान्तमूष्मान्तं वाऽवृद्धं त्रिपुरुषानूकमनवप्रतिष्ठितं, नाक्षत्रिकं तु नक्षत्रदेवता- समानाख्यं ह्यक्षरं चतुरक्षरं वा ॥५०॥
वृत्ते च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुष: प्रमाणज्ञानहेतो: । तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति । तद्यथा– एकैकजा मृदवोऽल्पा: स्निग्धा: सुबद्धमूला: कृष्णा: केशा: प्रशस्यन्ते, स्थिरा बहला त्वक्, प्रकृत्याऽतिसंपन्न- मीषत्प्रमाणातिवृत्तमनुरूपमातपमातपत्रोपमं शिर:, व्यूढं दृढं समं सुश्लिष्टशङ्खसन्ध्यूर्ध्वव्यञ्जनसंपन्नमुपचितं वलिभमर्धचन्द्राकृति ललाटं, बहलौ विपुलसमपीठौ समौ नीचैर्वृद्धौ पृष्ठतोऽवनतौ सुश्लिष्टकर्णपुत्रकौ महसच्छिद्रौ कर्णौ, ईषत्प्रलम्बिन्यावसंगते समे संहते महत्यौ भुवौ, समे समाहितदर्शने व्यक्तभागविभागे बलवती तेजसोपपन्ने स्वङ्गापाङ्गे चक्षुषी, ऋज्वी महोच्छ्वासा वंशसंपन्नेषदवनताग्रा नासिका, महदृजुसुनिविष्टदन्तमास्यम्, आयामविस्तोरोपपन्ना श्लक्ष्णा तन्वी प्रकृतिवर्णयुक्ता जिह्वा, श्लक्ष्णं युक्तोपचयमूष्मोपपन्नं रक्तं तालु, महानदीन: स्निग्धोऽनुनादी गम्भीरसमुत्थो धीर: स्वर:, नातिस्थूलौ नातिकृशौ विस्तारोपपन्नावास्य प्रच्छादनौ रक्तावोष्ठौ, महत्यौ हनू, वृत्ता नातिमहती ग्रीवा, व्यूढमुपचितमुर:, गूढं जत्रु पृष्ठवंशश्च, विप्रकृष्टान्तरौ स्तनौ, असंपातिनी स्थिरे पार्श्वे, वृत्तपरिपूर्णायतौ बाहू सक्थिनी अङ्गुलयश्च, महदुपचितं पाणिपादं, स्थिरा वृत्ता: स्निग्धास्ताम्रास्तुङ्गा: कूर्माकारा: करजा:, प्रदक्षिणावर्ता सोत्सङ्गा च नाभि:, उरस्त्रिभागहीना समा समुपचितमांसा कटी, वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनतौ स्फिचौ, अनुपूर्वे वृत्तावुपचययुक्तावूरू, नात्युपचिते नात्यपचिते एणीपदे प्रगूढसिरास्थिसन्धी जङ्घे, नात्यु पचितौ नात्यपचितौ गुल्फौ, पूर्वोपदिष्टगुणौ पादौ कूर्माकारौ, प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि तथा स्वप्रजागरणायासस्मितरुदित स्तनग्रहणानि, यच्च किञ्चिदन्यदप्यनुक्तमस्ति तदपि सर्वं प्रकृतिसंपन्नमिष्टं, विपरीतं पुनरनिष्टम् । इति दीर्घायुर्लक्षणानि ॥५१॥
अतो धात्रीपरीक्षामुपदेक्ष्याम: । अथ ब्रूयात्–धात्रीमानय समानवर्णां यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनामविरूपामजुगुप्सितां देशजातीयामक्षुद्रामक्षुद्रकर्मिणीं कुले जातां वत्सलामरोगां जीवद्वत्सां पुंवत्सां दोग्ध्रीमप्रमत्तामनुच्चारशायिनी मनन्त्यावसायिनीं कुशलोपचारां शुचिमशुचिद्वेषिणीं स्तनस्तन्यसंपदुपेतामिति ॥५२॥
तत्रेयं स्तनसंपत्–नात्यूर्ध्वौ नातिलम्बावनति कृशावनतिपीनौ युक्तपिप्पलको सुखप्रपानौ चेति (स्तनसंपत्) ॥५३॥
स्तन्यसंपत्तु प्रकृतिवर्णगन्धरसस्पर्शम्, उदपात्रे च दुह्यमानमुदकं व्येति प्रकृतिभूतत्वात्, तत् पुष्टिकरमारोग्यकरं चेति(स्तन्यसंपत्) ॥५४॥
अतोऽन्यथा व्यापन्नं ज्ञेयम् । तस्य विशेषा:–श्यावारुणवर्णं कषायानुरसं विशदमनालक्ष्यगन्धं रूक्षं द्रवं फेनिलं लघ्वतृप्तिकरं कर्शनं वातविकाराणां कर्तृ वातोपसृष्टं क्षीरमभिज्ञेयं, कुणपरुधिरगन्धि भृशोष्णं पित्तविकाराणां कर्तृ च पित्तोपसृष्टं क्षीरमभिज्ञेयम्, अत्यर्थशुक्लमतिमाधुर्योपपन्नं लवणानुरसं घृततैलवसामज्जगन्धि पिच्छिलं तन्तुमदुदकपात्रेऽवसीदच्छ्लेष्मविकाराणां कर्तृ श्लेष्मोपसृष्टं क्षीरमभिज्ञेयम् ॥५५॥
तेषां तु त्रयाणामपि क्षीरदोषाणां प्रतिविशेषमभिसमीक्ष्य यथास्वं यथादोषं च वमनविरेचनास्थापनानुवासनानि विभज्य कृतानि प्रशमनाय भवन्ति। पानाशनविधिस्तु दुष्टक्षीराया यवगोधूमशालिषष्टिकमुद्गहरेणुककुलत्थसुरासौवीरकमैरेयमेदक लशुनकरञ्जप्राय: स्यात्। क्षीरदोषविशेषाश्चांवेक्ष्यावेक्ष्य तत्तद्विधानं कार्यं स्यात् । पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सक- फलकिराततिक्तककटुकरोहिणीसारिवाकषायाणां च पानं प्रशस्यते, तथाऽन्येषां तिक्तकषायकटुकमधुराणां द्रव्याणां प्रयोग: क्षीरविकारविशेषानभिसमीक्ष्य मात्रां कालं च । इति क्षीरविशोधनानि ॥५६॥
क्षीरजननानि तु मद्यानि सीधुवर्ज्यानि, ग्राम्यानूपौदकानि च शाकधान्यमांसानि, द्रवमधुराम्ललवणभूयिष्ठाश्चाहारा:, क्षीरिण्यश्चौषधय:, क्षीरपानमनायासश्च, वीरणषष्टिकशालीक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटमूलकषायाणां च पानमिति (क्षीरजननानि)॥५७॥
धात्री तु यदा स्वादुबहुलशुद्धदुग्धा स्यात्तदा स्नातानुलिप्ता शुक्लवस्त्रं परिधायैन्द्रीं ब्राह्मीं शतवीर्यां सहस्रवीर्याममोघामव्यथां शिवामरिष्टां वाट्यपुष्पीं विष्वक्सेनकान्तां वा बिभ्रत्योषधिं कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं पाययेत् । इति धात्रीकर्म ॥५८॥
अतोऽनन्तरं कुमारागारविधिमनुव्याख्यास्याम:–वास्तुविद्याकुशल: प्रशस्तं रम्यमतमस्कं निवातं प्रवातैकदेशं दृढमपगतश्वापदशुदंष्ट्रिमूषिकपतङ्गं सुविभक्तसलिलोलूखलमूत्रवर्च:स्थानस्नानभूमिमहानसमृतुसुखं यथर्तुशयनासनास्तरणसंपन्नं कुर्यात्, सुविहितरक्षाविधानबलिमङ्गलहोमप्रायश्चित्तं शुचिवृद्धवैद्यानुरक्तजनसंपूर्णम् । इति कुमारागारविधि: ॥५९
शयनासनास्तरणप्रावरणानि कुमारस्य मृदुलघुशुचिसुगन्धीनि स्यु:, स्वेदमलजन्तुमन्ति मूत्रपुरीषोपसृष्टानि च वर्ज्यानि स्यु:, असति संभवेऽन्येषां तान्येव च सुप्रक्षालितोपधानानि सुधूपितानि शुद्धशुष्काण्युपयोगं गच्छेयु: ॥६०॥
धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानां च यवसर्षपातसीहिङ्गुगुग्गुलुवचाचोरकवय:स्थागोलोमीजटिलापलङ्कषा- शोकरोहिणीसर्पनिर्मोकाणि घृतयुक्तानि स्यु: ॥६१॥
मणयश्च धारणीया: कुमारस्य खङ्गरुरुगवयवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्योऽग्राणि गृहीतानि स्यु:, ऐन्द्र्याद्याश्चौषधयो जीवकर्षभकौ च, यानि चान्यान्यपि ब्राह्मणा: प्रशंसेयुरथर्ववेदविद: ॥६२॥
क्रीडनकानि खलु कुमारस्य विचित्राणि घोषवन्त्याभिरामाणि चागुरूणि चातीक्ष्णाग्राणि चानास्यप्रवेशीनि चाप्राणहराणि चावित्रासनानि स्यु: ॥६३॥
न ह्यस्य वित्रासनं साधु । तस्मात्तस्मिन् रुदत्यभुञ्जाने वाऽन्यत्र विधेयतामगच्छति राक्षसपिशाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वित्रासनार्थं नामग्रहणं न कार्यं स्यात् ॥६४॥
यदि त्वातुर्यं किञ्चित् कुमारमागच्छेत् तत् प्रकृतिनिमित्तपूर्वरूपलिङ्गोपशयविशेषैस्तत्त्वतोऽनुबुध्य सर्वविशेषानातुरौषध- देशकालाश्रयानवेक्षमाणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभिशीतशङ्करं कर्म प्रवर्तयन् । एवंसात्म्या हि कुमारा भवन्ति । तथा ते शर्म लभन्ते चिराय । अरोगे त्वरोगवृत्तमातिष्ठेद्देशकालात्मगुणविपर्ययेण वर्तमान:, क्रमेणासात्म्यानि परिवर्त्योपयुञ्जान: सर्वाण्यहितानि वर्जयेत् । तथा बलवर्णशरीरायुषां संपदमवाप्नोतीति ॥६५॥
एवमेनं कुमारमायौवनप्राप्तेर्धर्मार्थकौशलागमनाच्चानुपालयेत् ॥६६॥
इति पुत्राशिषां समृद्धिकरं कर्म व्याख्यातम् ।
तदाचरन् यथोक्तैर्विधिभि: पूजां यथेष्टं लभतेऽनसूयक इति ॥६७॥
तत्र श्लोकौ–
पुत्राशिषां कर्म समृद्धिकारकं
यदुक्तमेतन्महदर्थसंहितम् ।
तदाचरन् ज्ञो विधिभिर्यथातथं
पूजां यथेष्टं लभतेऽनसूयक: ॥६८॥
शरीरं चिन्त्यते सर्वं दैवमानुषसंपदा ।
सर्वभावैर्यतस्तस्माच्छरीरं स्थानमुच्यते ॥६९॥
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शारीरस्थाने जातिसूत्रीयं शारीरं नामाष्टमोऽध्याय: ॥८॥
शारीरस्थानं संपूर्णम् ।
Last updated on June 16th, 2021 at 09:21 am