चरकसंहिता
विमानस्थानम् ।
अष्टमोऽध्याय: ।
अथातो रोगभिषग्जितीयं विमानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
बुद्धिमानात्मन: कार्यगुरुलाघवं कर्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाद्भिषग्बुभूषु: शास्त्रमेवादित: परीक्षेत । विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षं सुप्रणीतसूत्रभाष्यसंग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं संगतार्थमसंकुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च, तदभिप्रपद्येत शास्त्रम् । शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्वम् ॥३॥
ततोऽनन्तरमाचार्यं परीक्षेत; तद्यथा–पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं ज्ञापनसमर्थं चेति । एवंगुणो ह्याचार्य: सुक्षेत्रमार्तवो मेघ इव शस्यगुणै: सुशिष्यमाशु वैद्यगुणै: संपादयति ॥४॥
तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भर्तृवच्चाप्रमत्त: । ततस्तत्प्रसादात् कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभिधानस्य सौष्ठवेऽर्थस्य विज्ञाने वचनशक्तौ च भूयो भूय: प्रयतेत सम्यक् ॥५॥
तत्रोपायाननुव्याख्यास्याम:–अध्ययनम्, अध्यापनं, तद्विद्यसंभाषा चेत्युपाया: ॥६॥
तत्रायमध्ययनविधि:–कल्य: कृतक्षण: प्रातरुत्थायोपव्यूषं वा कृत्वाऽऽवश्यकमुपस्पृश्योदकं देवर्षिगोब्राह्मणगुरुवृद्धसिद्धाचार्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मन:पुर:सराभिर्वाग्भि: सूत्रमनुक्रामन् पुन: पुनरावर्तयेद् बुद्ध्वा सम्यगनुप्रविश्यार्थतत्त्वं स्वदोषपरिहारार्थं परदोषप्रमाणार्थं च; एवं मध्यंदिनेऽपराह्णे रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यस्येत् । इत्यध्ययनविधि: ॥७॥
अथाध्यापनविधि:–अध्यापने कृतबुद्धिराचार्य: शिष्यमेवादित: परीक्षेत; तद्यथा– प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माण- मृजुचक्षुर्मुखनासावंशं तनुरक्तविशदजिह्वमविकृतदन्तौष्ठममिन्मिनं धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसंपन्नमुदारसत्त्वं तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्गमव्यापन्नेन्द्रियं निभृतमनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने कर्मदर्शने चानन्यकार्यमलुब्धमनलसं सर्वभूतहितैषिण- माचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च, एवंगुणसमुदितमध्याप्यमाहु:॥८॥
एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्योऽनुभाषेत–उदगयने शुक्लपक्षे प्रशस्तेऽहनितिष्यहस्तश्रवणाश्व युजामन्यतमेन नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्ड: कृतोपवास: स्नात: काषायवस्त्रसंवीत: सगन्धहस्त: समिधोऽग्निमाज्यमुपलेपनमुदकुम्भान् माल्यदामदीपहिरण्यहेमरजतमणिमुक्ताविद्रुमक्षौमपरिधीन् कुशलाजसर्षपाक्षतांश्च शुक्लानि सुमनांसि ग्रथिताग्रथितानि मेध्यान् भक्ष्यान् गन्धाश्चं घृष्टानादायोपतिष्ठस्वेति ॥९॥
स तथा कुर्यात् ॥१०॥
तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवणे वा चतुष्किष्कुमात्रं चतुरस्रं स्थण्डिलं गोमयोदकेनोपलिप्तं कुशास्तीर्णं सुपरिहितं परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा,तत्र पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुख: शुचिरध्ययनविधिमनुविधाय मधुसर्पिर्भ्यां त्रिस्त्रिर्जुहुयादग्निमाशी: संप्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निं धन्वन्तरिं प्रजापतिमश्विनाविन्द्रमृषीश्चं सूत्रकारानभिमन्त्रयमाण: पूर्वं स्वाहेति॥११॥
शिष्यश्चैनमन्वालभेत । हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत् । परिक्रम्य ब्राह्मणान् स्वस्ति वाचयेत्, भिषजश्चाभिपूजयेत् ॥१२॥
अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्–ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिनाऽमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च भवितव्यं, न च ते मद्वचनात् किञ्चिदकार्यं स्यादन्यत्र राजद्विष्टात् प्राणहराद्विपुलादधर्म्यादनर्थसंप्रयुक्ताद्वाऽप्यर्थात्; मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं, पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्, अनुत्सेकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्, अनुज्ञातेन (चाननुज्ञातेन च) प्रविचरता पूर्वं गुर्वर्थोपाहरणे यथाशक्ति प्रयतितव्यं, कर्मसिद्धिमर्थसिद्धिं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासितव्यमहरहरुत्तिष्ठता चोपविशता च, सर्वात्मना चातुराणामारोग्याय प्रयतितव्यं, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं, मनसाऽपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेव परस्वं, निभृतवेशपरिच्छदेन भवितव्यम्, अशौण्डेनापापेनापापसहायेन च, श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसंपत्सु नित्यं यत्नवता च, न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वाऽप्यौषधमनुविधातव्यं, तथा सर्वेषामत्यर्थविकृतदुष्टदु:खशीलाचारोपचाराणामनपवादप्रतिकाराणां मुमूर्षूणां च, तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्षाणां वा; न च कदाचित् स्त्रीदत्तमामिषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्यक्षेण, आतुरकुलं चानुप्रविशता विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमता स्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता सम्यगनुप्रवेष्टव्यम्, अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित्, प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषु वा भावेषु, न चातुरकुलप्रवृत्तयो बहिर्निश्चारयितव्या:, ह्रसितं चायुष: प्रमाणमातुरस्य जानताऽपि त्वया न वर्णयितव्यं तत्र यत्रोच्यमानमातुरस्यान्यस्य वाऽप्युपघाताय संपद्यते; ज्ञानवताऽपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यम्, आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनेके ॥१३॥
न चैव ह्यस्ति सुतरमायुर्वेदस्य पारं, तस्मादप्रमत्त: शश्वदभियोगमस्मिन् गच्छेत्, एतच्च कार्यम्, एवंभूयश्च वृत्तसौष्ठवमनसूयता परेभ्योऽप्यागमयितव्यं, कृत्स्नो हि लोको बुद्धिमतामाचार्य: शत्रुश्चाबुद्धिमताम्, अतश्चाभिसमीक्ष्य बुद्धिमताऽमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं लौक्यमभ्युपदिशतो वच: श्रोतव्यमनुविधातव्यं चेति । अत: परमिदं ब्रूयात्– देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषु ते नित्यं सम्यग्वर्तितव्यं, तेषु ते सम्यग्वर्तमानस्यायमग्नि: सर्वगन्धरसरत्नबीजानि यथेरिताश्च देवता: शिवाय स्यु:, अतोऽन्यथा वर्तमानस्याशिवायेति । एवं ब्रुवति चाचार्ये शिष्य: `तथा’ इति ब्रूयात् । यथोपदेशं च कुर्वन्नध्याप्य:, अतोऽन्यथा त्वनध्याप्य: । अध्याप्यमध्यापयन् ह्याचार्यो यथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तै: श्रेयस्करैर्गुणै: शिष्यमात्मानं च युनक्ति । इत्यध्यापनविधिरुक्त: ॥१४॥
संभाषाविधिमत ऊर्ध्वं व्याख्यास्याम: –भिषक् भिषजा सह संभाषेत । तद्विद्यसंभाषा हि ज्ञानाभियोगसंहर्षकरी भवति, वैशारद्यमपि चाभिनिर्वर्तयति, वचनशक्तिमपिचाधत्ते, यशश्चाभिदीपयति पूर्वश्रुते च संदेहवत: पुन: श्रवणाच्छ्रुतसंशयमपकर्षति, श्रुते चासंदेहवतो भूयोऽध्ववसायमभिनिर्वर्तयति, अश्रुतमपि च कञ्चिदर्थं श्रोत्रविषयमापादयति, यच्चाचार्य: शिष्याय शुश्रूषवे प्रसन्न: क्रमेणोपदिशति गुह्याभिमतमर्थजातं तत् परस्परेण सह जल्पन् पिण्डेन विजिगीषुराह संहर्षात् तस्मात्तद्विद्यसंभाषामभिप्रशंसन्ति कुशला: ॥१५॥
द्विविधा तु खलु तद्विद्यसंभाषा भवति — सन्धायसंभाषा, विगृह्यसंभाषा च ॥१६॥
तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसंपन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनयकोविदेन क्लेशक्षमेण प्रियसंभाषणेन च सह सन्धायसंभाषा विधीयते । तथाविधेन सह कथयन् विस्रब्ध: कथयेत् पृच्छेदपि च विस्रब्ध:, पृच्छते चास्मै विस्रब्धाय विशदमर्थं ब्रूयात्, न च निग्रहभयादुद्विजेत, निगृह्य चैनं न हृष्येत्, न च परेषु विकत्थेत, न च मोहादेकान्तग्राही स्यात्, न चाविदितमर्थमनुवर्णयेत्, सम्यक् चानुनयेनानुनयेत्, तत्र चावहित: स्यात् । इत्यनुलोमसंभाषाविधि: ॥१७॥
अत ऊर्ध्वमितरेण सह विगृह्य संभाषायां जल्पेच्छ्रेयसा योगमात्मन: पश्यन् । प्रागेव च जल्पाज्जल्पान्तरं परावरान्तरं परिषद्विशेषाश्चं सम्यक् परीक्षेत । सम्यक्परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालौ शंसति, तस्मात् परीक्षामभिप्रशंसन्तिकुशला: । परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणाञ् श्रेयस्करान् दोषवतश्च परीक्षेत सम्यक्, तद्यथा–श्रुतं विज्ञानं धारणं प्रतिभानं वचनशक्तिरिति, एतान् गुणान् श्रेयस्करानाहु:; इमान् पुनर्दोषवत:, तद्यथा–कोपनत्वमवैशारद्यं भीरुत्वमधारणत्वमनवहितत्वमिति । एतान् गुणान् गुरुलाघवत: परस्य चैवात्मनश्च तुलयेत् ॥१८॥
तत्र त्रिविध: पर: संपद्यते–प्रवर:, प्रत्यवर:, समो वा, गुणविनिक्षेपत:, नत्वेव कार्त्स्न्येन ॥१९॥
परिषत्तु खलु द्विविधा-ज्ञानवती, मूढपरिषच्च। सैव द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन– सुहृत्परिषत्, उदासीनपरिषत्, प्रतिनिविष्टपरिषच्चेति । तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्तिसंपन्नायां मूढायां वा न कथंचित् केनचित् सह जल्पो विधीयते, मूढायां तु सुहृत्परिषद्युदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणाप्यदीप्तयशसा महाजनविद्विष्टेनापि सह जल्पो विधीयते । तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसंकुलैर्वाक्यदण्डकै: कथयितव्यम्, अतिहृष्टं मुहुर्मुहुरुपहसता परं निरूपयता च पर्षदमाकारैर्ब्रुवतश्चास्य वाक्यावकाशो न देय:; कष्टशब्दं च ब्रुवता वक्तव्यो नोच्यते, अथवा पुनर्हीना ते प्रतिज्ञा, इति । पुनश्चाहू(ह्व)यमान: प्रतिवक्तव्य:–परिसंवत्सरो भवान् शिक्षस्व तावत्; न त्वया गुरुरूपासितो नूनम्, अथवा पर्याप्तमेतावत्ते, सकृदपि हि परिक्षेपिकं निहतं निहतमाहुरिति नास्य योग: कर्तव्य: कथञ्चित् । अप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरेके; नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशला: ॥२०॥
प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम्, अथवाऽप्युदासीनपरिषद्यवधान- श्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसंपन्नायां कथयता चावहितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यं, समवेक्ष्य च यत्रैनं
श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन्; यत्र त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात् । तत्र खल्विमे प्रत्यवराणामाशु निग्रहे भवन्त्युपाया:; तद्यथा– श्रुतहीनं महता सूत्र पाठेनाभिभवेत्, विज्ञानहीनं पुन: कष्टशब्देन वाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसंकुलैर्वाक्यदण्डकै:, प्रतिभाहीनं पुनर्वचनेनैकविधेनानेकार्थवाचिना, वचनशक्तिहीनमर्धोक्तस्य वाक्यस्याक्षेपेण, अविशारदमपत्रपणेन, कोपनमायासनेन, भीरुं वित्रासनेन, अनवहितं नियमनेनेति । एवमेतैरुपायै: परमवरमभिभवेच्छीघ्रम् ॥२१॥
तत्र श्लोकौ–
विगृह्य कथयेद्युक्त्या युक्तं च न निवारयेत् ।
विगृह्यभाषा तीव्रं हि केषांचिद् द्रोहमावहेत् ॥२२॥
नाकार्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते ।
कुशला नाभिनन्दन्ति कलहं समितौ सताम् ॥२३॥
एवं प्रवृत्ते वादे कुर्यात् ॥२४॥
प्रागेव तावदिदं कर्तुं यतेत–सन्धाय पर्षदाऽयनभूतमात्मन: प्रकरणमादेशयितव्यं, यद्वा परस्य भृशदुर्गं स्यात्, पक्षमथवा परस्य भृशं विमुखमानयेत्; परिषदि चोपसंहितायामशक्यमस्माभिर्वक्तुम्, एषैव ते परिषद्यथेष्टं यथायोगं यथाभिप्रायं वादं वादमर्यादां च स्थापयिष्यतीत्युक्त्वा तूष्णीमासीत ॥२५॥
तत्रेदं वादमर्यादालक्षणं भवति–इदं वाच्यम्, इदमवाच्यम्, एवं पराजितो भवतीति ॥२६॥
इमानि तु खलु पदानि भिषग्वादमार्गज्ञानार्थमधिगम्यानि भवन्ति; तद्यथा-वाद:, द्रव्यं, गुणा:, कर्म, सामान्यं, विशेष:, समवाय:, प्रतिज्ञा, स्थापना, प्रतिष्ठापना, हेतु:, दृष्टान्त:, उपनय:, निगमनम्, उत्तरं, सिद्धान्त:, शब्द:, प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यं, संशय:, प्रयोजनं, सव्यभिचारं, जिज्ञासा, व्यवसाय:, अर्थप्राप्ति:, संभव:, अनुयोज्यम्, अननुयोज्यम्, अनुयोग:, प्रत्यनुयोग:, वाक्यदोष:, वाक्यप्रशंसा, छलम्, अहेतु:, अतीतकालम्, उपालम्भ:, परिहार:, प्रतिज्ञाहानि:, अभ्यनुज्ञा, हेत्वन्तरम्, अर्थान्तरं, निग्रहस्थानमिति ॥२७॥
तत्र वादो नाम स यत् परेण सह शास्त्रपूर्वकं विगृह्य कथयति । स च द्विविध: संग्रहेण–जल्प:, वितण्डा च । तत्र पक्षाश्रितयोर्वचनं जल्प:, जल्पविपर्ययो वितण्डा । यथा-एकस्य पक्ष: पुनर्भवोऽस्तीति, नास्तीत्यपरस्य, तौ च स्वस्वपक्षहेतुभि: स्वस्वपक्षं स्थापयत:, परपक्षमुद्भावयत:, एष जल्प: । जल्पविपर्ययो वितण्डा । वितण्डा नाम परपक्षे दोषवचनमात्रमेव ॥२८॥
द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया: स्वलक्षणै: श्लोकस्थाने पूर्वमुक्ता: ॥२९॥
अथ प्रतिज्ञा–प्रतिज्ञा नाम साध्यवचनं; यथा–नित्य: पुरुष इति ॥३०॥
अथ स्थापना–स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनै: स्थापना । पूर्वं हि प्रतिज्ञा, पश्चात् स्थापना, किं ह्यप्रतिज्ञातं स्थापयिष्यति, यथा-नित्य: पुरुष इति प्रतिज्ञा; हेतु:–अकृतकत्वादिति, दृष्टान्त:–यथाऽऽकाशमिति, उपनय: — यथा चाकृतकमाकाशं, तच्च नित्यं, तथा पुरुष इति निगमनं–तस्मान्नित्य इति ॥३१॥
अथ प्रतिष्ठापना–प्रतिष्ठापना नाम या तस्या एव परप्रतिज्ञाया विपरीतार्थस्थापना । यथा-अनित्य: पुरुष इति प्रतिज्ञा; हेतु: –ऐन्द्रियकत्वादिति; दृष्टान्त: –यथा घट इति, उपनयो–यथा घट ऐन्द्रियक: स चानित्य:, तथा चायमिति; निगमनं– तस्मादनित्य इति ॥३२॥
अथ हेतु: –हेतुर्नामोपलब्धिकारणं; तत् प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यमिति, एभिर्हेतुभिर्यदुपलभ्यते तत् तत्त्वम् ॥३३॥
अथ दृष्टान्त:–दृष्टान्तो नाम यत्र मूर्खविदुषां बुद्धिसाम्यं, यो वर्ण्यं वर्णयति । यथा–अग्निरुष्णः, द्रवमुदकं, स्थिरा पृथिवी, आदित्य: प्रकाशक इति, यथा आदित्य: प्रकाशकस्तथा सांख्यज्ञानं प्रकाशकमिति ॥३४॥
उपनयो निगमनं चोक्तं स्थापनाप्रतिष्ठापनाव्याख्यायाम् ॥३५॥
अथोत्तरम्– उत्तरं नाम साधर्म्योपदिष्टे हेतौ वैधर्म्यवचनं, वैधर्म्योपदिष्टे वा हेतौ साधर्म्यवचनम् । यथा- हेतुसधर्माणो विकारा:, शीतकस्य हि व्याधेर्हेतुभि: साधर्म्यं हिमशिशिरवातसंस्पर्शा:,’ इति ब्रूवत: परो ब्रूयात् –हेतुविधर्माणो विकारा:, यथा शरीरावयवानां दाहौष्ण्यकोथप्रपचने हेतुवैधर्म्यं हिमशिशिरवातसंस्पर्शा इति । एतत् सविपर्ययमुत्तरम् ॥३६॥
अथ सिद्धान्त: -सिद्धान्तो नाम स य: परीक्षकैर्बहुविधं परीक्ष्य हेतुभिश्च साधयित्वा स्थाप्यते निर्णय: । स चतुर्विध: – सर्वतन्त्रसिद्धान्त:, प्रतितन्त्रसिद्धान्त:, अधिकरणसिद्धान्त:, अभ्युपगमसिद्धान्तश्चेति । तत्र सर्वतन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन् सर्वस्मिंस्तन्त्रे तत्तत् प्रसिद्धं; यथा सन्ति निदानानि, सन्ति व्याधय:, सन्ति सिद्ध्युपाया: साध्यानामिति । प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रे तत्तत् प्रसिद्धं, यथा–अन्यत्राष्टौ रसा: षडत्र, पञ्चेन्द्रियाण्यत्र षडिन्द्रियाण्यन्यत्र तन्त्रे, वातादिकृता:
सर्वे विकारा यथाऽन्यत्र, अत्र वातादिकृता भूतकृताश्च प्रसिद्धा: । अधिकरणसिद्धान्तो नाम स यस्मिन्नधिकरणे प्रस्तूयमाने सिद्धान्यन्यान्यप्यधिकरणानि भवन्ति, यथा- न मुक्त: कर्मानुबन्धिकं कुरुते, निस्पृहत्वात्’ इति प्रस्तुते सिद्धा: कर्मफल-मोक्ष- पुरुष-प्रेत्यभावा भवन्ति । अभ्युपगमसिद्धान्तो नाम स यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषज:; तद्यथा–द्रव्यं प्रधानमिति कृत्वा वक्ष्याम:, गुणा: प्रधानमिति कृत्वा वक्ष्याम:, वीर्यं प्रधानमिति कृत्वा वक्ष्याम:, इत्येवमादि: । इति चतुर्विध: सिद्धान्त: ॥३७॥
अथ शब्द:–शब्दो नाम वर्णसमाम्नायः; स चतुर्विध:–दृष्टार्थश्च, अदृष्टार्थश्च, सत्यश्च, अनृतश्चेति । तत्र दृष्टार्थो नाम– त्रिभिर्हेतुभिर्दोषा: प्रकुप्यन्ति, षड्भिरुपक्रमैश्च प्रशाम्यन्ति, सति श्रोत्रादिसद्भावे शब्दादिग्रहणमिति । अदृष्टार्थ: पुन:–अस्ति प्रेत्यभाव:, अस्ति मोक्ष इति । सत्यो नाम–यथार्थभूत:, सन्त्यायुर्वेदोपदेशा:, सन्ति सिद्ध्युपाया: साध्यानां व्याधीनां, सन्त्यारम्भफलानीति । सत्यविपर्ययश्चानृत: ॥३८॥
अथ प्रत्यक्षं-प्रत्यक्षं नाम तद्यदात्मना चेन्द्रियैश्च स्वयमुपलभ्यते; तत्रात्मप्रत्यक्षा: सुखुदु:खेच्छाद्वेषादय:, शब्दादयस्त्विन्द्रियप्रत्यक्षा: ॥३९॥
अथानुमानम्–अनुमानं नाम तर्को युक्त्यपेक्ष:; यथा—अग्निं जरणशक्त्या, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दादिग्रहणेनेत्येवमादि ॥४०॥
अथैतिह्यम्–ऐतिह्यं नामाप्तोपदेशो वेदादि: ॥४१॥
अथौपम्यम्–औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनं; यथा–दण्डेन दण्डकस्य, धनुषा धनु:स्तम्भस्य, इष्वासेनाऽऽरोग्यदस्येति ॥४२॥
अथ संशय: –संशयो नाम सन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चय:; यथा–दृष्टा ह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्च तथा सक्रियाश्चाक्रियाश्च पुरुषा: शीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्टत्वात् संशय:-किमस्ति खल्वकालमृत्युरुत नास्तीति ॥४३॥
अथ प्रयोजनं–प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भा:; यथा–यद्यकालमृत्युरस्ति ततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणि च परिहरिष्यामि, कथं मामकालमृत्यु: प्रसहेतेति ॥४४॥
अथ सव्यभिचारं–सव्यभिचारं नाम यद् व्यभिचरणं; यथा–भवेदिदमौषधमस्मिन् व्याधौ यौगिकमथवा नेति ॥४५॥
अथ जिज्ञासा–जिज्ञासा नाम परीक्षा; यथा भेषजपरीक्षोत्तरकालमुपदेक्ष्यते ॥४६॥
अथ व्यवसाय:–व्यवसायो नाम निश्चय:; यथा–वातिक एवायं व्याधिः; इदमेवास्य भेषजं चेति ॥४७॥
अथार्थप्राप्ति:–अर्थप्राप्तिर्नाम यत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापि सिद्धि:; यथा–नायं संतर्पणसाध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्ति:–अपतर्पणसाध्योऽयमिति, नानेन दिवा भोक्तव्यमित्युक्ते भवत्यर्थप्राप्ति:–निशि भोक्तव्यमिति ॥४८॥
अथ संभव:–यो यत: संभवति स तस्य संभव:; यथा–षड्धातवो गर्भस्य, व्याधेरहितं, हितमारोग्यस्येति ॥४९॥
अथानुयोज्यम्–अनुयोज्यं नाम यद्वाक्यं वाक्यदोषयुक्तं तत् । सामान्यतो व्याहृतेष्वर्थेषु वा विशेषग्रहणार्थं यद्वाक्यं तदप्यनुयोज्यं; यथा– संशोधनसाध्योऽयं व्याधि:’ इत्युक्ते किं वमनसाध्योऽयं, किंवा विरेचनसाध्य:’ इत्यनुयुज्यते ॥५०॥
अथाननुयोज्यम्–अननुयोज्यं नामातो विपर्ययेण; यथा–अयमसाध्य: ॥५१॥
अथानुयोग:–अनुयोगो नाम स यत् तद्विद्यानां तद्विद्यैरेव सार्धं तन्त्रे तन्त्रेकदेशे वा प्रश्नः प्रश्नैकदेशो वा ज्ञानविज्ञान- वचनप्रतिवचनपरीक्षार्थमादिश्यते । यथा–‘नित्यः पुरुष:’ इति प्रतिज्ञाते यत् पर: ‘को हेतु:’ इत्याह, सोऽनुयोग: ॥५२॥
अथ प्रत्यनुयोग:–प्रत्यनुयोगो नामानुयोगस्यानुयोग: यथा–अस्यानुयोगस्य पुन: को हेतुरिति ॥५३॥
अथ वाक्यदोष:–वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनम्, अधिकम्, अनर्थकम्, अपार्थकं, विरुद्धं चेति; एतानि ह्यन्तरेण न प्रकृतोऽर्थ: प्रणश्येत् । तत्र न्यूनं–प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति; यद्वा बहूपदिष्टहेतुकमेकेन हेतुना साध्यते तच्च न्यूनम् । अथाधिकम्–अधिकं नाम यन्न्यूनविपरीतं, यद्वाऽऽयुर्वेदे भाष्यमाणे बार्हस्पत्यमौशनसमन्यद्वा यत्किंचिदप्रतिसंबद्धार्थमुच्यते, यद्वा संबद्धार्थमपि द्विरभिधीयते तत् पुनरुक्तदोषत्वादधिकं, तच्च पुनरुक्तं द्विविधम्– अर्थपुनरुक्तं, शब्दपुनरुक्तं च; तत्रार्थपुनरुक्तं यथा–भेषजमौषधं साधनमिति, शब्दपुनरुक्तं पुनर्भेषजं भेषजमिति । अथानर्थकम्–अनर्थकं नाम यद्वचनमक्षरग्राममात्रमेव स्यात् पञ्चवर्गवन्न चार्थतो गृह्यते । अथापार्थकम्–अपार्थकं नाम यदर्थवच्च परस्परेणासंयुज्यमानार्थकं यथा–वक्र-न(त)क्र-वंश-वज्र-निशाकरा इति । अथ विरुद्धं–विरुद्धं नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरूद्धं; तत्र पूर्वं दृष्टान्तसिद्धान्तावुक्तौ; समय: पुनस्त्रिधा भवति; यथा–आयुर्वैदिकसमय:, याज्ञिकसमय:, मोक्षशास्त्रिकसमयश्चेति; तत्रायुर्वैदिकसमय:-चतुष्पादं भेषजमिति, याज्ञिकसमय:-आलभ्या यजमानै: पशव इति, मोक्षशास्त्रिकसमय:-सर्वभूतेष्वहिंसेति; तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं भवति । इति वाक्यदोषा: ॥५४॥
अथ वाक्यप्रशंसा–वाक्यप्रशंसा नाम यथा खल्वस्मिन्नर्थे त्वन्यूनम्, अनधिकम्, अर्थवत्, अनपार्थकम्, अविरुद्धम् अधिगतपदार्थं चेति यत्तद्वाक्यमननुयोज्यमिति प्रशस्यते ॥५५॥
अथच्छलं–छलं नाम परिशठमर्थाभासमनर्थकं वाग्वस्तुमात्रमेव । तद्विधं–वाक्छलं, सामान्यच्छलं च । तत्र वाक्छलं नाम यथा–कश्चिद् ब्रूयात्–नवतन्त्रोऽयंभिषगिति, अथ भिषग् ब्रूयात्–नाहं नवतन्त्र एकतन्त्रोऽहमिति, परो ब्रूयात्–नाहं ब्रवीमि नव तन्त्राणि तवेति, अपि तु नवाभ्यस्तं ते तन्त्रमिति; भिषक् ब्रूयात्–न मया नवाभ्यस्तं तन्त्रम्, अनेकधाऽभ्यस्तं मया तन्त्रमिति; एतद्वाक्छलम् । सामान्यच्छलं नाम यथा–व्याधिप्रशमनायौषधमित्युक्ते, परो ब्रूयात्–सत् सत्प्रशमनायेति किं नु भवानाह; सन् हि रोग:, सदौषधं, यदि च सत् सत्प्रशमनाय, तत्र सत् कास:, सत् क्षय: सत्सामान्यात् कासस्ते क्षयप्रशमनाय भविष्यतीति । एतत् सामान्यच्छलम् ॥५६॥
अथाहेतु: –अहेतुर्नामप्रकरणसम:, संशयसम:, वर्ण्यसमश्चेति । तत्र प्रकरणसमो नामाहेतुर्यथा–अन्य: शरीरादात्मा नित्य इति; परो ब्रूयात् – यस्मादन्य: शरीरादात्मा, तस्मान्नित्य:, शरीरं ह्यनित्यमतो विधर्मिणा चात्मना भवितव्यमित्येष चाहेतु:; नहि य एव पक्ष: स एव हेतुरिति । संशयसमो नामाहेतुर्य एव संशयहेतु: स एव संशयच्छेदहेतु:; यथा–अयमायुर्वेदैकदेशमाह, किंन्वयं चिकित्सक: स्यान्न वेति संशये परो ब्रूयात्–यस्मादयमायुर्वेदैकदेशमाह तस्माच्चिकित्सकोऽयमिति, न च संशयच्छेदहेतुं विशेषयति, एष चाहेतु: न हि य एव संशयहेतु:, स एव संशयच्छेदहेतुर्भवति । वर्ण्यसमो नामाहेतु:–यो हेतुर्वर्ण्याविशिष्ट:; यथा– कश्चिद्ब्रूयात्–अस्पर्शत्वाद् बुद्धिरनित्या शब्दवदिति, अत्र वर्ण्य: शब्दो बुद्धिरपि वर्ण्या, तदुभयवर्ण्याविशिष्टत्वाद्वर्ण्यसमोऽप्यहेतु: ॥५७॥
अथातीतकालम्–अतीतकालं नाम यत् पूर्वं वाच्यं तत् पश्चादुच्यते, तत् कालातीतत्वादग्राह्यं भवतीति; पूर्वं वा निग्रहप्राप्तमनिगृह्य परिगृह्य पक्षान्तरितं पश्चान्निगृहीते, तत्तस्यातीतकालत्वान्निग्रहवचनमसमर्थं भवतीति ॥५८॥
अथोपालम्भ: -उपालम्भो नाम हेतोर्दोषवचनं, यथा-पूर्वमहेतवो हेत्वाभासा व्याख्याता: ॥५९॥
अथ परिहार:–परिहारो नाम तस्यैव दोषवचनस्य परिहरणं; यथा–नित्यमात्मनि शरीरस्थे जीवलिङ्गान्युपलभ्यन्ते, तस्य चापगमन्नोपलभ्यन्ते, तस्मादन्य: शरीरादात्मा नित्यश्चेति ॥६०॥
अथ प्रतिज्ञाहानि:–प्रतिज्ञाहानिर्नाम सा पूर्वपरिगृहीतां प्रतिज्ञां पर्यनुयुक्तो यत् परित्यजति, यथा प्राक् प्रतिज्ञां कृत्वा नित्य: पुरुष इति, पर्यनुयुक्तस्त्वाह–अनित्य इति ॥६१॥
अथाभ्यनुज्ञा–अभ्यनुज्ञा नाम सा य इष्टानिष्टाभ्युपगम: ॥६२॥
अथ हेत्वन्तरं–हेत्वन्तरं नाम प्रकृतहेतौ वाच्ये यद्विकृतहेतुमाह ॥६३॥
अथार्थान्तरम्–अर्थान्तरं नामैकस्मिन् वक्तव्येऽपरं यदाह । यथा-ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह ॥६४॥
अथ निग्रहस्थानं–निग्रहस्थानं नाम पराजयप्राप्ति:, तच्च त्रिरभिहितस्य वाक्यस्यापरिज्ञानं परिषदि विज्ञानवत्यां, यद्वा अननुयोज्यस्यानुयोगोऽनुयोज्यस्य चाननुयोग: । प्रतिज्ञाहानि:, अभ्यनुज्ञा, कालातीतवचनम्, अहेतु:, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरंच निग्रहस्थानम् ॥६५॥
इति वादमार्गपदानि यथोद्देशमभिनिर्दिष्टानि भवन्ति ॥६६॥
वादस्तु खलु भिषजां प्रवर्तमानो प्रवर्तेतायुर्वेद एव, नान्यत्र । अत्र हि वाक्यप्रतिवाक्यविस्तरा: केवलाश्चोपपत्तय: सर्वाधिकरणेषु । ता: सर्वा समवेक्ष्यावेक्ष्य सर्वं वाक्यं ब्रूयात्, नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकं वा । सर्वं च हेतुमद्ब्रूयात् । हेतुमन्तो ह्यकलुषा: सर्व एव वादविग्रहाश्चिकित्सिते कारणभूता:, प्रशस्तबुद्धिवर्धकत्वात्, सर्वारम्भसिद्धिं ह्यावहत्यनुपहता बुद्धि: ॥६७॥
इमानि खलु तावदिह कानिचित् प्रकरणानि भिषजां ज्ञानार्थमुपदेक्ष्याम: । ज्ञानपूर्वकं हि कर्मणां समारम्भं प्रशंसन्ति कुशला: । ज्ञात्वा हि कारणकरण-कार्ययोनि-कार्य-कार्यफलानुबन्ध देश-कालप्रवृत्त्युपायान् सम्यगभिनिर्वर्तमान: कार्याभि- निर्वृत्ताविष्टफलानुबन्धे कार्यमभिनिर्वर्तयत्यनतिमहता यत्नेन कर्ता ॥६८॥
तत्र कारणं नाम तद् यत् करोति, स एव हेतु:, स कर्ता ॥६९॥
करणं पुनस्तद् यदुपकरणायोपकल्पते कर्तु:कार्याभिनिर्वृत्तौ प्रयतमानस्य ॥७०॥
कार्ययोनिस्तु सा या विक्रियमाणा कार्यत्वमापद्यते ॥७१॥
कार्यं तु तद्यस्याभिनिर्वृत्तिमभिसन्धाय कर्ता प्रवर्तते ॥७२॥
कार्यफलं पुनस्तद् यत्प्रयोजना कार्याभिनिर्वृत्तिरिष्यते ॥७३॥
अनुबन्ध: खलु स य: कर्तारमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनिमित्त: शुभो वाऽप्यशुभो भाव: ॥७४॥
देशस्त्वधिष्ठानम् ॥७५॥
काल: पुन: परिणाम: ॥७६॥
प्रवृत्तिस्तु खलु चेष्टा कार्यार्था, सैव क्रिया, कर्म, यत्न:, कार्यसमारम्भश्च ॥७७॥
उपाय: पुनस्त्रयाणां कारणादीनां सौष्ठवमभिविधानं च सम्यक् कार्यकार्यफलानुबन्धवर्ज्यानां, कार्याणामभिनिर्वर्तक इत्यतस्तूपाय:; कृते नोपायार्थोऽस्ति, न च विद्यते तदात्वे, कृताच्चोत्तरकालं फलं, फलाच्चानुबन्ध इति ॥७८॥
एतद्दशविधमग्रे परीक्ष्यं, ततोऽनन्तरं कार्यार्था प्रवृत्तिरिष्टा । तस्माद्भिषक् कार्यं चिकीर्षु: प्राक् कार्यसमारम्भात् परीक्षया केवलं परीक्ष्यं परीक्ष्य कर्म समारभेत कर्तुम् ॥७९॥
तत्र चेद्भिषगभिषग्वा भिषजं कश्चिदेवं खलु पृच्छेद्–वमनविरेचनास्थापनानुवासनशिरोविरेचनानि प्रयोक्तुकामेन भिषजा कतिविधया परीक्षया कतिविधमेव परीक्ष्यं, कश्चात्र परीक्ष्यविशेष:, कथं च परीक्षितव्य:, किंप्रयोजना च परीक्षा, क्व च वमनादीनां प्रवृत्ति:, क्व च निवृत्ति:, प्रवृत्तिनिवृत्तिलक्षणसंयोगे च किं नैष्ठिकं, कानि च वमनादीनां भेषजद्रव्याण्युपयोगं गच्छन्तीति ॥८०॥
स एवं पृष्टो यदि मोहयितुमिच्छेत्, ब्रूयादेनं–बहुविधा हि परीक्षा तथा परीक्ष्यविधिभेद:, कतमेन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षया केन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदाग्रं भवान् पृच्छत्याख्यायमानं; नेदानीं भवतोऽन्येन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षयाऽन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षाविधिभेदेनान्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वाऽन्यथाऽऽचक्षाण इच्छां पूरयेयमिति ॥८१॥
स यदुत्तरं ब्रूयात्तत् समीक्ष्योत्तरं वाच्यं स्याद्यथोक्तं च प्रतिवचवनविधिमवेक्ष्य; सम्यक् यदि तु ब्रूयान्न चैनं मोहयितुमिच्छेत्, प्राप्तं तु वचनकालं मन्येत, काममस्मै ब्रूयादाप्तमेव निखिलेन ॥८२॥
द्विविधा तु खलु परीक्षा ज्ञानवतां–प्रत्यक्षम्, अनुमानं च । एतद्धि द्वयमुपदेशश्च परीक्षा स्यात् । एवमेषा द्विविधा परीक्षा, त्रिविधा वा सहोपदेशेन ॥८३॥
दशविधं तु परीक्ष्यं कारणादि यदुक्तमग्रे, तदिह भिषगादिषु संसार्य संदर्शयिष्याम:–इह कार्यप्राप्तौ कारणं भिषक्, करणं पुनर्भेषजं, कार्ययोनिर्धातुवैषम्यं, कार्यं धातुसाम्यं, कार्यफलं सुखावाप्ति:, अनुबन्ध: खल्वायु:, देशो भूमिरातुरश्च, काल: पुन: संवत्सराश्चतुरावस्था च, प्रवृत्ति: प्रतिकर्मसमारम्भ:, उपायस्तु भिषगादीनां सौष्ठवमभिविधानं च सम्यक् । इहाप्यस्योपायस्य विषय: पूर्वेणैवोपायविशेषेण व्याख्यात: । इति कारणादीनि दश दशसु भिषगादिषु संसार्य संदर्शितानि, तथैवानुपूर्व्यैतद्दशविधं परीक्ष्यमुक्तं च ॥८४॥
तस्य यो यो विशेषो यथा यथा च परीक्षितव्य:, स तथा तथा व्याख्यास्यते ॥८५॥
कारणं भिषगित्युक्तमग्रे, तस्य परीक्षा–भिषङ्नाम यो भिषज्यति, य: सूत्रार्थप्रयोगकुशल:, यस्य चायु: सर्वथा विदितं यथावत् । स च सर्वधातुसाम्यं चिकीर्षन्नात्मानमेवादित: परीक्षेत गुणिषु गुणत: कार्याभिनिर्वृत्तिं पश्यन्, कच्चिदहमस्य कार्यस्याभिनिर्वर्तने समर्थो न वेति; तत्रेमे भिषग्गुणा यैरुपपन्नो भिषग्धातुसाम्याभिनिर्वर्तने समर्थो भवति; तद्यथा–पर्यवदातश्रुतता, परिदृष्टकर्मता, दाक्ष्यं, शौचं, जितहस्तता, उपकरणवत्ता, सर्वेन्द्रियोपपन्नता, प्रकृतिज्ञता, प्रतिपत्तिज्ञता चेति ॥८६॥
करणं पुनर्भेषजम् । भेषजं नाम तद्यदुपकरणायोपकल्पते भिषजो धातुसाम्याभिनिर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायान्तेभ्य: । तद् द्विविधं व्यपाश्रयभेदात्–दैवव्यपाश्रयं, युक्तिव्यपाश्रयं चेति । तत्र दैवव्यपाश्रयं– मन्त्रौषधिमणिमङ्गलबल्युपहार- होमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं–संशोधनोपशमने चेष्टाश्च दृष्टफला: । एतच्चैव भेषजमङ्गभेदादपि द्विविधं–द्रव्यभूतम्, अद्रव्यभूतं च । तत्र यदद्रव्यभूतं तदुपायाभिप्लुतम् । उपायो नाम भयदर्शनविस्मापनविस्मारण- क्षोभणहर्षणभर्त्सनवधबन्धस्वप्नसंवाहनादिरमूर्तो भावविशेषो यथोक्ता: सिद्ध्युपायाश्चोपायाभिप्लुता इति । यत्तु द्रव्यभूतं तद्वमनादिषु योगमुपैति । तस्यापीयं परीक्षा–इदमेवंप्रकृत्यैवंगुणमेवंप्रभावमस्मिन् देशे जातमस्मिन्नृतावेवं गृहीतमेवं निहितमेवमुपस्कृतमनया च मात्रया युक्तमस्मिन् व्याधावेवंविधस्य पुरुषस्यैव तावन्तं दोषमपकर्षत्युपशमयति वा, यदन्यदपि चैवंविधं भेषजं भवेत्तच्चानेन विशेषेण युक्तमिति ॥८७॥
कार्ययोनिर्धातुवैषम्यं, तस्य लक्षणं विकारागम: । परीक्षा त्वस्य विकारप्रकृतेश्चैवोनातिरिक्तलिङ्गविशेषावेक्षणं विकारस्य च साध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति ॥८८॥
कार्यं धातुसाम्यं, तस्य लक्षणं विकारोपशम:। परीक्षा त्वस्य-रुगुपशमनं, स्वरवर्णयोग:, शरीरोपचय:, बलवृद्धि:, अभ्यवहार्याभिलाष:, रुचिराहारकाले, अभ्यवहृतस्य चाहारस्य काले सम्यग्जरणं, निद्रालाभो यथाकालं, वैकारिणां च स्वप्नानामदर्शनं, सुखेन च प्रतिबोधनं, वातमूत्रपुरीषरेतसां मुक्ति:, सर्वाकारैर्मनोबुद्धीन्द्रियाणां चाव्यापत्तिरिति ॥८९॥
कार्यफलं सुखावाप्ति:, तस्य लक्षणं–मनोबुद्धीन्द्रियशरीरतुष्टि: ॥९०॥
अनुबन्धस्तु खल्वायु:, तस्य लक्षणं–प्राणै: सह संयोग: ॥९१॥
देशस्तु भूमिरातुरश्च ॥९२॥
तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतोर्वा स्यादौषधपरिज्ञानहेतोर्वा । तत्र तावदियमातुरपरिज्ञानहेतो: । तद्यथा- अयं कस्मिन् भूमिदेशे जात: संवृद्धो व्याधितो वा, तस्मिंश्च भूमिदेशे मनुष्याणामिदमाहारजातम्, इदं विहारजातम्, इदमाचारजातम्, एतावच्च बलम्, एवंविधं सत्त्वम्, एवंविधं सात्म्यम्, एवंविधो दोष:, भक्तिरियम्, इमे व्याधय:, हितमिदम्, अहितमिदमिति प्रायोग्रहणेन । औषधपरिज्ञानहेतोस्तु कल्पेषु भूमिपरीक्षा वक्ष्यते ॥९३॥
आतुरस्तु खलु कार्यदेश: । तस्य परीक्षा आयुष: प्रमाणज्ञानहेतोर्वा स्याद्, बलदोषप्रमाणज्ञानहेतोर्वा । तत्र तावदियं बलदोषप्रमाणज्ञानहेतो:; दोषप्रमाणानुरूपो हि भेषजप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति । सहसा ह्यतिबलमौषधमपरीक्षक- प्रयुक्तमल्पबलमातुरमतिपातयेत्; न ह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणि वा शक्यन्तेऽल्पबलै: सोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानि सद्य:प्राणहराणि स्यु: । एतच्चैव कारणमपेक्षमाणा हीनबलमातुरमविषादकरैर्मृदुसुकुमार- प्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधै:; विशेषतश्च नारी:, ता ह्यनवस्थितमृदुविवृतविक्लवहृदया: प्राय: सुकुमार्योऽबला: पर संस्तभ्याश्च । तथा बलवति बलवद्व्याधिपरिगते स्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेव भवति । तस्मादातुरं परीक्षेत प्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतो: ॥९४॥
तत्र प्रकृत्यादीन् भावाननुव्याख्यास्याम: । तद्यथा–शुक्रशोणितप्रकृतिं, कालगर्भाशयप्रकृतिं, आतुराहारविहारप्रकृतिं, महाभूतविकारप्रकृतिं च गर्भशरीरमपेक्षते । एतानि हि येन येन दोषेणाधिकेनैकेनानेकेन वा समनुबध्यन्ते, तेन तेन दोषेण गर्भोऽनुबध्यते; तत: सा सा दोषप्रकृतिरुच्यते मनुष्याणां गर्भादिप्रवृत्ता । तस्माच्छ्लेष्मला: प्रकृत्या केचित्, पित्तला: केचित्, वातला: केचित्, संसृष्टा: केचित्, समधातव: केचिद्भवन्ति । तेषां हि लक्षणानि व्याख्यास्याम: ॥९५॥
श्लेष्मा हि स्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छ: । तस्य स्नेहाच्छ्लेष्मला: स्निग्धाङ्गा:, श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गा:, मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्रा:, माधुर्यात् प्रभूतशुक्रव्यवायापत्या:, सारत्वात् सारसंहतस्थिरशरीरा:, सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गा:, मन्दत्वान्मन्दचेष्टाहारव्याहारा:, स्तैमित्यादशीघ्रारम्भक्षोभविकारा:, गुरुत्वात् साराधिष्ठितावस्थितगतय:, शैत्यादल्पक्षुत्तृष्णासंतापस्वेददोषा:, विज्जलत्वात् सुश्लिष्टसारसन्धिबन्धना:, तथाऽच्छत्वात् प्रसन्नदर्शनानना: प्रसन्नस्निग्धवर्णस्वराश्च भवन्ति । त एवंगुणयोगाच्छ्लेष्मला बलवन्तो वसुमन्तो विद्यावन्त ओजस्विन: शान्ता आयुष्मन्तश्च भवन्ति ॥९६॥
पित्तमुष्णं तीक्ष्णं द्रवं विस्रमम्लं कटुकं च । तस्यौष्ण्यात् पित्तला भवन्त्युष्णासहा, उष्णमुखा:, सुकुमारावदातगात्रा:, प्रभूतविप्लुव्यङ्गतिलपिडका:, क्षुत्पिपासावन्त:, क्षिप्रवलीपलितखालित्यदोषा:, प्रायो मृद्वल्पकपिलश्मश्रुलोमकेशाश्च; तैक्ष्ण्यात्तीक्ष्ण पराक्रमा:, तीक्ष्णाग्नय:, प्रभूताशनपाना:, क्लेशासहिष्णवो, दन्दशूका:; द्रवत्वाच्छिथिलमृदुसन्धिमांसा:, प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च, विस्रत्वात् प्रभूतपूतिकक्षास्यशिर:शरीरगन्धा:, कट्वम्लत्वादल्पशुक्रव्यवायापत्या:; त एवंगुणयोगात् पित्तला मध्यबला मध्यायुषो मध्यज्ञानविज्ञानवित्तोपकरणवन्तश्च भवन्ति ॥९७॥
वातस्तु रूक्षलघुचलबहुशीघ्रशीतपरुषविशद: । तस्य रौक्ष्याद्वातला रूक्षापचिताल्पशरीरा: प्रततरूक्षक्षामसन्नसक्तजर्जरस्वरा जागरूकाश्च भवन्ति, लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहारा:, चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाशिर:स्कन्धपाणिपादा:, बहुत्वाहुप्रलापकण्डरासिराप्रताना:, शीघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकारा: शीघ्रत्रासरागविरागा: श्रुतग्रहिणोऽल्पस्मृतयश्च, शैत्याच्छीतासहिष्णव: प्रततशीतकोद्वेपकस्तम्भा:, पारुष्यात् परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादा:, वैशद्यात् स्फुटिताङ्गावयवा: सततसन्धिशब्दगामिना भवन्ति, त एवं गुणयोगाद्वातला: प्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्च भवन्ति ॥९८॥
संसर्गात् संसृष्टलक्षणा: ॥९९॥
सर्वगुणसमुदितास्तु समधातव: । इत्येवं प्रकृतित: परीक्षेत ॥१००॥
विकृतितश्चेति विकृतिरुच्यते विकार: । तत्र विकार हेतु-दोष-दूष्य-प्रकृति-देश-काल-बलविशेषैर्लिङ्गतश्च परीक्षेत, न ह्यन्तरेण हेत्वादीनां बलविशेषं व्याधिबलविशेषोपलब्धि: । यस्य हि व्याधेर्दोष-दूष्यप्रकृति-देश-काल-बलसाम्यं भवति, महच्च हेतुलिङ्गबलं, स व्याधिर्बलवान् भवति, तद्विपर्ययाच्चाल्पबल:; मध्यबलस्तु दोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्य बलत्वाच्चोपलभ्यते ॥१०१॥
सारतश्चेति साराण्यष्टौ पुरुषाणां बलमानविशेषज्ञानार्थमुपदिश्यन्ते; तद्यथा–त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति ॥१०२॥
तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रभेव च त्वक् त्वक्साराणाम् । सा सारता सुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वं चाचष्टे ॥१०३॥
कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनं स्निग्धरक्तवर्णं श्रीमद्भ्राजिष्णु रक्तसाराणाम् । सा सारता सुखमुद्धतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वंचाचष्टे ॥१०४॥
शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्ष:पाणिपादसन्धय: स्थिरगुरुशुभमांसोपचिता मांससाराणाम् । सा सारता क्षमां धृतिमलौल्यं वित्तं विद्यां सुखमार्जवमारोग्यं बलमायुश्च दीर्घमाचष्टे ॥१०५॥
वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषु विशेषत: स्नेहो मेद:साराणाम् । सा सारता वित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवं सुकुमारोपचारतां चाचष्टे ॥१०६॥
पार्ष्णिगुल्फजान्वरत्निजत्रुचिबुकशिर:पर्वस्थूला: स्थूलास्थिनखदन्ताश्चास्थिसारा: । ते महोत्साहा: क्रियावन्त: क्लेशसहा: सारस्थिरशरीरा भवन्त्यायुष्मन्तश्च ॥१०७॥
मृद्वङ्गा बलवन्त: स्निग्धवर्णस्वरा: स्थूलदीर्घवृत्तसन्धयश्च मज्जसारा: । ते दीर्घायुषो बलवन्त: श्रुतवित्तविज्ञानापत्य संमानभाजश्च भवन्ति ॥१०८॥
सौम्या: सौम्यप्रेक्षिण: क्षीरपूर्णलोचना इव प्रहर्षबहुला: स्निग्धवृत्तसारमसंहतशिखरदशना: प्रसन्नस्निग्धवर्णस्वरा भ्राजिष्णवो महास्फिचश्च शुक्रसारा: । ते स्त्रीप्रियोपभोगा बलवन्त: सुखैश्वर्यारोग्यवित्तसंमानापत्यभाजश्च भवन्ति ॥१०९॥
स्मृतिमन्तो भक्तिमन्त: कृतज्ञा: प्राज्ञा: शुचयो महोत्साहा दक्षा धीरा: समरविक्रान्तयोधिनस्त्यक्तविषादा: सुव्यवस्थित- गतिगम्भीरबुद्धिचेष्टा: कल्याणाभिनिवेशिनश्च सत्त्वसारा: । तेषां स्वलक्षणैरेव गुणा व्याख्याता: ॥११०॥
तत्र सर्वै: सारैरुपेता: पुरुषा भवन्त्यतिबला: परमसुखयुक्ता: क्लेशसहा: सर्वारम्भेष्वात्मनि जातप्रत्यया: कल्याणाभिनिवेशिन: स्थिरसमाहितशरीरा: सुसमाहितगतय: सानुनादस्निग्धगम्भीरमहास्वरा: सुखैश्वर्यवित्तोपभोगसंमानभाजो मन्दजरसो मन्दविकारा: प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च ॥१११॥
अतो विपरीतास्त्वसारा: ॥११२॥
मध्यानां मध्यै: सारविशेषैर्गुणविशेषा व्याख्याता भवन्ति ॥११३॥
इति साराण्यष्टौ पुरुषाणां बलप्रमाणविशेषज्ञानार्थमुपदिष्टानि भवन्ति ॥११४
कथं नु शरीरमात्रदर्शनादेव भिषङ्मुह्येदयमुपचितत्वाद्बलवान्, अयमल्पबल: कृशत्वात्, महाबलोऽयं महाशरीरत्वात्, अयमल्पशरीरत्वादल्पबल इति; दृश्यन्ते ह्यल्पशरीरा: कृशाश्चैके बलवन्त:, तत्र पिपीलिकाभारहरणवत् सिद्धि: । अतश्च सारत: परीक्षेतेत्युक्तम् ॥११५॥
संहननतश्चेति संहननं, संहति:, संयोजनमित्येकोऽर्थ: । तत्र समसुविभक्तास्थि, सुबद्धसन्धि, सुनिविष्टमांसशोणितं, सुसंहतं शरीरमित्युच्यते । तत्र सुसंहतशरीरा: पुरुषा बलवन्त:, विपर्ययेणाल्पबला:, मध्यत्वात् संहननस्य मध्यबला भवन्ति ॥११६॥
प्रमाणतश्चेति शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलिप्रमाणेनोपदेक्ष्यते उत्सेधविस्तारायामैर्यथाक्रमम् । तत्र पादौ चत्वारि षट् चतुर्दशाङ्गुलानि, जङ्घेत्वष्टादशाङ्गुले षोडशाङ्गुलपरिक्षेपे च, जानुनी चतुरङ्गुले षोडशाङ्गुलपरिक्षेपे, त्रिंशदङ्गुल- परिक्षेपावष्टादशाङ्गुलावूरु, षडङ्गुलदीर्घौ वृषणावष्टाङ्गुलपरिणाहौ, शेफ: षडङ्गुलदीर्घं पञ्चाङ्गुलपरिणाहं, द्वादशाङ्गुलिपरिणाहो भग:, षोडशाङ्गुलविस्तारा कटी, दशाङ्गुलं बस्तिशिर:, दशाङ्गुलविस्तारं द्वादशाङ्गुलमुदरं, दशाङ्गुलविस्तीर्णे द्वादशाङ्गुलायामे पार्श्वे, द्वादशाङ्गुलं स्तनान्तरं, व्द्यङ्गुलं स्तनपर्यन्तं, चतुर्विंशत्यङ्गुलविशालं द्वादशाङ्गुलोत्सेधमुर:, व्द्यङ्गुलं हृदयम्, अष्टाङ्गुलौ स्कन्धौ, षडङ्गुलावंसौ, षोडशाङ्गुलौ प्रबाहू, पञ्चदशाङ्गुलौ प्रपाणी, हस्तौ द्वादशाङ्गुलौ, कक्षावष्टाङ्गुलौ, त्रिकं द्वादशाङ्गुलोत्सेधम् अष्टादशाङ्गुलोत्सेधं पृष्ठं, चतुरङ्गुलोत्सेधा द्वाविंशत्यङ्गुल परिणाहा शिरोधरा, द्वादशाङ्गुलोत्सेधं चतुर्विंशत्यङ्गुलपरिणाहमाननं, पञ्चाङ्गुलमास्यं, चिबुकौष्ठकर्णाक्षि मध्यनासिकाललाटं चतुरङ्गुलं, षोडशाङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिर:, इति पृथक्त्वेनाङ्गावयवानां मानमुक्तम् । केवलं पुन: शरीरमङ्गुलि पर्वाणि चतुरशीति: । तदायामविस्तारसमं समुच्यते । तत्रायुर्बलमोज: सुखमैश्वर्यं वित्तमिष्टाश्चापरे भावा भवन्त्यायत्ता: प्रमाणवति शरीरे, विपर्ययस्त्वतो हीनेऽधिके वा ॥११७॥
सात्म्यतश्चेति सात्म्यं नाम तद्यत् सातत्येनोपसेव्यमानमुपशेते । तत्र ये घृतक्षीरतैलमांसरससात्म्या: सर्वरससात्म्याश्च ते बलवन्त: क्लेशसहाश्चिरजीविनश्च भवन्ति, रूक्षसात्म्या: पुनरेकरससात्म्याश्च ये ते प्रायेणाल्पबला अल्पक्लेशसहा अल्पायुषोऽल्पसाधनाश्च भवन्ति, व्यामिश्रसात्म्यास्तु ये ते मध्यबला: सात्म्यनिमित्ततो भवन्ति ॥११८॥
सत्त्वतश्चेति सत्त्वमुच्यते मन: । तच्छरीरस्य तन्त्रकमात्मसंयोगात् । तत् त्रिविधं बलभेदेन-प्रवरं,मध्यम्, अवरं चेति, अतश्च प्रवरमध्यावरसत्त्वा: परुषा भवन्ति । तत्र प्रवरसत्त्वा: सत्त्वसारास्ते सारेषूपदिष्टा:, स्वल्पशरीरा ह्यपि ते निजागन्तुनिमित्तासु महतीष्वपि पीडास्वव्यथा दृश्यन्ते सत्त्वगुणवैशेष्यात्, मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय संस्तम्भयन्त्यात्मनाऽऽत्मानं परैर्वाऽपि संस्तभ्यन्ते, हीनसत्त्वास्तु नात्मना नापि परै: सत्त्वबलं प्रति शक्यन्ते उपस्तम्भयितुं, महाशरीर ह्यपि ते स्वल्पानामपि वेदनानामसहा दृश्यन्ते, सन्निहितभयशोकलोभमोहमाना रौद्रभैरवद्विष्टबीभत्सविकृतसंकथास्वपि च पशुपुरुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवा मरणमिति ॥११९॥
आहारशक्तितश्चेति आहारशक्तिरभ्यवहरणशक्त्या जरणशक्त्या च परीक्ष्या, बलायुषी ह्याहारायत्ते ॥१२०॥
व्यायामशक्तितश्चेति व्यायामशक्तिरपि कर्मशक्त्या परीक्ष्या । कर्मशक्त्या ह्यनुमीयते बलत्रैविध्यम् ॥१२१॥
वयस्तश्चेति कालप्रमाणविशेषापेक्षिणी हि शरीरावस्था वयोऽभिधीयते । तद्वयो यथास्थूलभेदेन त्रिविधं–बालं, मध्यं, जीर्णमिति । तत्र बालमपरिपक्वधातुमजातव्यञ्जनं सुकुमारमक्लेशसहमसंपूर्णबलं श्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणं पुन: प्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यं पुन: समत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणं बलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्, अत: परं हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रम- ग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमानधातुगुणं वायुधातुप्रायं क्रमेण जीर्णमुच्यते आवर्षशतम् । वर्षशतं खल्वायुष: प्रमाणमस्मिन् काले, सन्ति च पुनरधिकोनवर्षशतजीविनोऽपि मनुष्या:; तेषां विकृतिवर्ज्यै: प्रकृत्यादिबलविशेषैरायुषो लक्षणतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत् ॥१२२॥
एवं प्रकृत्यादीनां विकृतिवर्ज्यानां भावानां प्रवरमध्यावरविभागेन बलविशेषं विभजेत् । विकृतिबलत्रैविध्येन तु दोषबलं त्रिविधमनुमीयते । ततो भैषज्यस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यं विभज्य यथादोषं भैषज्यमवचारयेदिति ॥१२३॥
आयुष: प्रमाणज्ञानहेतो: पुनरिन्द्रियेषु जातिसूत्रीये च लक्षणान्युपदेक्ष्यन्ते ॥१२४॥
काल: पुन: संवत्सरश्चातुरावस्था च । तत्र संवत्सरो द्विधा त्रिधा षोढा द्वादशधा भूयश्चाप्यत: प्रविभज्यते तत्तत्कार्यमभिसमीक्ष्य । अत्र खलु तावत् षोढा प्रविभज्य कार्यमुपदेक्ष्यते-हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रय ऋतवो भवन्ति, तेषामन्तरेष्वितरे साधारणलक्षणास्त्रय ऋतव:-प्रावृट्शरद्वसन्ता इति । प्रावृडिति प्रथम: प्रवृष्ट: काल:, तस्यानुबन्धो हि वर्षा: । एवमेते संशोधनमधिकृत्य षट् विभज्यन्ते ऋतव: ॥१२५॥
तत्र साधारणलक्षणेष्वृतुषु वमनादीनां प्रवृत्तिर्विधीयते, निवृत्तिरितरेषु । साधारणलक्षणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्त्यविकल्पकाश्च शरीरौषधानाम्, इतरे पुनरत्यर्थशीतोष्णवर्षत्वा दु:खतमाश्च भवन्ति विकल्पकाश्च शरीरौषधानाम् ॥१२६॥
तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषं च, भेषजं पुन: संशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते, तस्मात्तयो: संयोगे संशोधनमयोगायोपपद्यते शरीरमपि च वातोपद्रवाय । ग्रीष्मे पुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नं भवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं, भेषजं पुन: संशोधनार्थमुष्ण- स्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते, तस्मात्तयो: संयोगे संशोधनमतियोगायोपपद्यते शरीरमपि पिपासोपद्रवाय । वर्षासु तु मेघजलावतते गूढार्कचन्द्रतारे धाराकुले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषु भूतेषु विहतस्वभावेषु च केवलेष्वौषधग्रामेषु तोयतोयदानुगतमारुतसंसर्गाद् गुरुप्रवृत्तीनि वमनादीनि भवन्ति, गुरुसमुत्थानानि च शरीराणि । तस्माद्वमनादीनां निवृत्तिर्विधीयते वर्षान्तेष्वृतुषु, न चेदात्ययिकं कर्म । आत्ययिके पुन: कर्मणि काममृतुं विकल्प्य कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन भेषजं संयोगसंस्कारप्रमाणविकल्पेनोपपाद्य प्रमाणवीर्यसमं कृत्वा तत: प्रयोजयेदुत्तमेन यत्नेनावहित: ॥१२७॥
आतुरावस्थास्वपि तु कार्याकार्यं प्रति कालाकालसंज्ञा; तद्यथा–अस्यामवस्थायामस्य भेषजस्याकाल:, काल: पुनरन्यस्येति, एतदपि हि भवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपि हि कालाकालसंज्ञा । तस्य परीक्षा–मुहुर्मुहुरातुरस्य सर्वावस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थम् । न ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्यमानं यौगिकं भवति, कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति ॥१२८॥
प्रवृत्तिस्तु प्रतिकर्मसमारम्भ: । तस्य लक्षणं भिषगौषधातुरपरिचारकाणां क्रियासमायोग: ॥१२९॥
उपाय: पुनर्भिषगादीनां सौष्ठवमभिविधानं च सम्यक् । तस्य लक्षणं–भिषगादीनां यथोक्तगुणसंपत् देशकालप्रमाणसात्म्य- क्रियादिभिश्चसिद्धिकारणै: सम्यगुपपादितस्यौषधस्यावचारणमिति ॥१३०॥
एवमेते दश परीक्ष्यविशेषा: पृथक् पृथक् परीक्षितव्या भवन्ति ॥१३१॥
परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम् । प्रतिपत्तिर्नाम यो विकारो यथा प्रतिपत्तव्यस्तस्य तथाऽनुष्ठानज्ञानम् ॥१३२॥
यत्र तु खलु वमनादीनां प्रवृत्ति:, यत्र च निवृत्ति:, तद्व्यासत: सिद्धिषूत्तरमुपदेक्ष्याम: ॥१३३॥
प्रवृत्तिनिवृत्तिलक्षणसंयोगे तु गुरुलाघवं संप्रधार्य सम्यगध्यवस्येदन्यतरनिष्ठायाम् । सन्ति हि व्याधय: शास्त्रेषूत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टा: । तस्माद्गुरुलाघवं संप्रधार्य सम्यगध्यवस्येदित्युक्तम् ॥१३४॥
यानि तु खलु वमनादिषु भेषजद्रव्याण्युपयोगं गच्छन्ति तान्यनुव्याख्यास्याम: । तद्यथा– फलजीमूतकेक्ष्वाकुधामार्गव-
पत्रपुष्पाणि आरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूचीचित्रकसोमवल्क- शतावरीद्वीपीशिग्रुमूलकषायै:,
मधुकमधूककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणु-प्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च, इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च, सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालक- धन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च,पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभं यथेष्टं वाऽप्युपसंस्कृत्य वर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्याश्चं भक्ष्यप्रकारान् विविधाननुविधाय यथार्हं वमनार्हाय दद्याद्विधिवद्वमनम् । इति कल्पसंग्रहो वमनद्रव्याणाम् । कल्पमेषां विस्तारेणोत्तरकालमुपदेक्ष्याम: ॥१३५॥
विरेचनद्रव्याणि तु श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनां क्षीरमूलत्वक्पत्रपुष्पफलानि यथायोगं तैस्तै: क्षीरमूलत्वक्पत्रपुष्फलैर्विक्लिप्ताविक्लिप्तै:, अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च, प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च, पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकबदरदाडिमामलकहरीतकी- बिभीतकवृश्चीरपुनर्नवाविदारिगन्धादिकषायैश्च, सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूर- कर्कन्धुभिश्च, दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनां च क्षीरमूत्रैर्यथालाभं यथेष्टं वाऽप्युपसंस्कृत्य वर्तिक्रियाचूर्णासवलेह स्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान् मोदकानन्याश्चं भक्ष्यप्र(वि)कारान् विविधाश्चं योगाननुविधाय यथार्हं विरेचनार्हाय दद्याद्विरेचनम् । इति कल्पसंग्रहो विरेचनद्रव्याणाम् । कल्पमेषां विस्तरेण यथावदुत्तरकालमुपदेक्ष्याम: ॥१३६॥
आस्थापनेषु तु भूयिष्ठकल्पानि द्रव्याणि यानि योगमुपयान्ति तेषु तेष्ववस्थान्तरेष्वातुराणां, तानि द्रव्याणि नामतो विस्तरेणोपदिश्यमानान्यपरिसंख्येयानि स्युरतिबहुत्वात्; इष्टश्चानतिसंक्षेपविस्तरोपदेशस्तन्त्रे, इष्टं च केवलं ज्ञानं, तस्माद्रसत एव तान्यत्र व्याख्यास्याम: । रससंसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येय:, समवेतानां रसानामंशांशबलविकल्पातिबहुत्वात् । तस्माद् द्रव्याणां चैकदेशमुदाहरणार्थं रसेष्वनुविभज्य रसैकैकश्येन च नामलक्षणार्थं षडास्थापनस्कन्धा रसतोऽनुविभज्यव्याख्यास्यन्ते ॥१३७॥
यत्तु षडि्वधमास्थापनमेकरसमित्याचक्षते भिषज:, तद्दुर्लभतमं संसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम् । तस्मान्मधुराणि मधुरप्रायाणि मधुरविपाकानि मधुरप्रभावाणि च मधुरस्कन्धे मधुराण्येव कृत्वोपदेक्ष्यन्ते, तथेतराणि द्रव्याण्यपि ॥१३८॥
तद्यथा–जीवकर्षभकौ जीवन्ती वीरा तामलकी काकोली क्षीरकाकोली मुद्गपर्णी माषपर्णी शालपर्णी पृश्निपर्ण्यसनपर्णी मधुपर्णी मेदा महामेदा कर्कटशृङ्गी शृङ्गाटिका छिन्नरुहा च्छत्राऽतिच्छत्रा श्रावणी महाश्रावणी सहदेवा विश्वदेवा शुक्ला क्षीरशुक्ला बलाऽतिबला विदारी क्षीरविदारी क्षुद्रसहा
महासहा ऋष्यगन्धाऽश्वगन्धा वृश्चीर: पुनर्नवा बृहती कण्टकारिकोरुबूको मोरट: श्वदंष्ट्रा संहर्षा शतावरी शतपुष्पा मधूकपुष्पी यष्टीमधु मधूलिका मृद्वीका खर्जूरं परूषकमात्मगुप्ता पुष्करबीजं कशेरुकं राजकशेरुकं राजादनं कतकं काश्मर्यं शीतपाक्योदनपाकी तालखर्जूरमस्तकमिक्षुरिक्षुवालिका दर्भ: कुश: काश: शालिर्गुन्द्रेत्कटक: शरमूलं राजक्षवक: ऋष्यप्रोक्ता द्वारदा भारद्वाजीवनत्रपुष्यभीरुपत्री हंसपादी काकनासिका कुलिङ्गाक्षी क्षीरवल्ली कपोलवल्ली सोमवल्ली गोपवल्ली मधुवल्ली चेति; एषामेवंविधानामन्येषां च मधुरवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य पयसाऽर्धोदकेनाभ्यासिच्य साधयेद्दर्व्या सततमवघट्टयन्; तदुपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु पयसि चानुपदग्धे स्थालीमुपहृत्य सुपरिपूतं पय: सुखोष्णं घृततैलवसामज्जलवणफाणितोपहितं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्; शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे विधिवद्दद्यात् । इति मधुरस्कन्ध: ॥१३९॥
आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गगण्डीरामलकनन्दीतकशीतकतिन्तिण्डीकदन्तशठैरावतककोशाम्र-धन्वनानां फलानि, पत्राणि चाम्रातकाश्मन्तकचाङ्गेरीणां चतुर्विधानां चाम्लिकानां द्वयोश्च कोलयोश्चामशुष्कयोर्द्वयोश्चैव शुष्काम्लिकयोर्ग्राम्यारण्ययो:, आसवद्रव्याणि च सुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिदधिमण्डोदश्विद्धान्याम्लादीनि च, एषामेवंविधानामन्येषां चाम्लवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा द्रवै: स्थाल्यामभ्यासिच्य साधयित्वोपसंस्कृत्य यथावत्तैलवसामज्जलवणफाणितोपहितं
सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात् । इत्यम्लस्कन्ध: ॥१४०॥ सैन्धवसौवर्चलकालविडपाक्यानूपकूप्यवालुकैलमौलकसामुद्ररोमकौद्भिदौषरपाटेयकपांशुजान्येवंप्रकाराणि चान्यानि लवणवर्गपरिसंख्यातानि, एतान्यम्लोपहितान्युष्णोदकोपहितानि वा स्नेहवन्ति सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात् । इति लवणस्कन्ध: ॥१४१॥
पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्गकुस्तुम्बुरुपीलुतेजोवत्येलाकुष्ठभल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षपलशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्पभूस्तृणसुमुखसुरसकुठेरकार्जकगण्डीरकालमालकपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति; एषामेवंविधानां चान्येषां कटुकवर्गपरिसंख्यातानामौषमधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा गोमूत्रेण सह साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात् । इति कटुकस्कन्ध: ॥१४२॥ चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीर-करवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविक्रुतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति, एषामेवंविधानां चान्येषां तिक्तवर्ग-परिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे विधिज्ञो विधिवद्दद्यात् । इति तिक्तस्कन्ध: ॥१४३॥
प्रियङ्ग्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशरजम्ब्वाम्रप्लक्षवटकपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंशपासोमवल्कतिन्दुकप्रियालबदरखदिरसप्तपर्णाश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंशपद्मकाशोकशालधवसर्जभूर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजकर्णस्फूर्जकबिभीतककुम्भीपुष्करबीजबिसमृणालतालखर्जूरतरुणानीति, एषामेवंविधानां चान्येषां कषायवर्गपरिसंख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे दद्यात् । इति कषायस्कन्ध: ॥१४४॥
तत्र श्लोका:–
षड्वर्गा: परिसंख्याता स एते रसभेदत: ।
आस्थापनमभिप्रेत्य तान्विद्यात्सार्वयौगिकान् ॥१४५॥
सर्वशो हि प्रणिहिता: सर्वरोगेषु जानता।
सर्वान् रोगान्नियच्छन्ति येभ्य आस्थापनं हितम् ॥१४६॥
येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिता: ।
द्रव्यवर्गा विकाराणां तेषां ते परिकोपका: ॥१४७॥
इत्येते षडास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्याता: ॥१४८॥
तेभ्यो भिषग्बुद्धिमान् परिसंख्यातमपि यद्यद्द्रव्यमयौगिकं मन्येत, तत्तदपकर्षयेत्, यद्यच्चानुक्तमपि यौगिकं मन्येत, तत्तद्विदध्यात्; वर्गमपि वर्गेणोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्य । प्रचरणमिव भिक्षुकस्य बीजमिव कर्षकस्य सूत्रं बुद्धिमतामल्पमप्यनल्पज्ञानाय भवति; तस्माद् बुद्धिमतामूहापोहवितर्का:, मन्दबुद्धेस्तु यथोक्तानुगमनमेव श्रेय: । यथोक्तं हि मार्गमनुगच्छन् भिषक् संसाधयति कार्यमनतिमहत्त्वाद्वा विनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति ॥१४९॥
अत: परमनुवासनद्रव्याण्यनुख्यास्याम: । अनुवासनं तु स्नेह एव । स्नेहस्तु द्विविध:–स्थावरात्मक:, जङ्गमात्मकश्च । तत्र स्थावरात्मक: स्नेहस्तैलमतैलं च । तद् द्वयंतैलमेव कृत्वोपदेक्ष्याम:, सर्वतस्तैलप्राधान्यात् । जङ्गमात्मकस्तु वसा, मज्जा, सर्पिरिति । तेषां तैलवसामज्जसर्पिषां यथापूर्वं श्रेष्ठं वात श्लेष्मविकारेष्वनुवासनीयेषु, यथोत्तरं तु पित्तविकारेषु, सर्व एव वा सर्वविकारेष्वपि योगमुपयान्ति संस्कारविधिविशेषादिति ॥१५०॥
शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रुशिरीषतुम्बुरुपिल्वजाज्यजमोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च, सुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकहरिद्राशृङ्गवेरमूलकलशुनतर्कारीसर्षपपत्राणि च, अर्कालर्ककुष्ठनागदन्तीवचापामार्गश्वेताज्योतिष्मतीगवाक्षीगण्डीरपुष्यवाक्पुष्पीवृश्चिकालीवयस्थातिविषामूलानि च, हरिद्राशृङ्गवेर- मूलकलशुनकन्दाश्च, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणि च, देवदार्वगुरुसरलशल्लकीजिङ्गिन्यसनहिङ्गुनिर्यासाश्च, तेजोवतीवराङ्गेङ्गुदीशोभाञ्जनकबृहतीकण्टकारिकात्वचश्चेति । शिरोविरेचनं सप्तविधं, फल-पत्र-मूल- कन्द-पुष्प- निर्यास- त्वगाश्रयभेदात्। लवणकटुतिक्तकषायाणि चेन्द्रियोपशयानि तथाऽपराण्यनुक्तान्यपि द्रव्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिश्यन्त इति ॥१५१॥
तत्र श्लोका:–
लक्षणाचार्यशिष्याणां परीक्षा कारणं च यत् ।
अध्येयाध्यापनविधी संभाषाविधिरेव च ॥१५२॥
षड्भिरूनानि पञ्चाशद्वादमार्गपदानि च ।
पदानि दश चान्यानि कारणादीनि तत्त्वत: ॥१५३॥
संप्रश्नश्च परीक्षादेर्नवको वमनादिषु ।
भिषग्जितीये रोगाणां विमाने संप्रकाशित: ॥१५४॥
बहुविधमिदमुक्तमर्थजातं बहुविधवाक्यविचित्रमर्थकान्तम्।
बहुविधशुभशब्दसन्धियुक्तं बहुविधवादनिसूदनं परेषाम् ॥१५५॥
इमां मतिं बहुविधहेतुसंश्रयां विजज्ञिवान् परमतवादसूदनीम् ।
न सज्जते परवचनावमर्दनैर्न शक्यते परवचनैश्च मर्दितुम् ॥१५६॥
दोषादीनां तु भावानां सर्वेषामेव हेतुमत् ।
मानात् सम्यग्विमानानि निरुक्तानि विभागश: ॥१५७॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
रोगभिषग्जितीयविमानं नामाष्टमोऽध्याय: ॥
(अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अनेनावधिना स्थानं विमानानां समर्थितम् ।)
इत्यग्निश्वेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगभिषग्जितीयविमानं नामाष्टमोऽध्याय: ॥८॥
Last updated on June 8th, 2021 at 11:21 am