चरकसंहिता
विमानस्थानम् ।
षष्ठोऽध्याय: ।
अथातो रोगानीकं विमानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
द्वे रोगानीके भवत: प्रभावभेदेन-साध्यम्, असाध्यं च; द्वे रोगानीके बलभेदेन-मृदु, दारुणं च, द्वे रोगानीके अधिष्ठानभेदेन-मनोऽधिष्ठानं, शरीराधिष्ठानं च; द्वे रोगानीके निमित्तभेदेन-स्वधातुवैषम्यनिमित्तम्, आगन्तुनिमित्तं च; द्वे रोगानीके आशयभेदेन–आमाशयसमुत्थं, पक्वाशयसमुत्थं चेति । एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदाद् द्वैधं सद्भेदप्रकृत्यन्तरेण भिद्यमानमथवाऽपि सन्धीयमानं स्यादेकत्वं बहुत्वं वा । एकत्वं तावदेकमेव रोगानीकं, दु:खसामान्यात्; बहुत्वं तु दश रोगानीकानि प्रभावभेदादिना भवन्ति; बहुत्वमपि संख्येयं स्यादसंख्येयं वा । तत्र संख्येयं तावद्यथोक्तमष्टोदरीये, अपरिसंख्येयं पुनर्यथा– महारोगाध्याये रुग्वर्णसमुत्थानादीनामसंख्येयत्वात् ॥३॥
न च संख्येयाग्रेषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र काचित् प्रतिज्ञा, न चाविगीतिरित्यत: स्याददोषवती । भेत्ता हि भेद्यमन्यथाभिनत्ति, अन्यथा पुरस्ताद्भिन्नं भेदप्रकृत्यन्तरेण भिन्दन् भेदसंख्याविशेषमापादयत्यनेकधा, न च पूर्वं भेदाग्रमुपहन्ति । समानायामपि खलु भेदप्रकृतौ प्रकृतानुप्रयोगान्तरमपेक्ष्यम् । सन्ति ह्यर्थान्तराणि समानशब्दाभिहितानि, सन्ति चानर्थान्तराणि पर्यायशब्दाभिहितानि । समानो हि रोगशब्दो दोषेषु च व्याधिषु च; दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते, व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते । तत्र दोषेषु चैव व्याधिषु च रोगशब्द: समान:, शेषेषु तु विशेषवान् ॥४॥
तत्र व्याधयोऽपरिसंख्येया भवन्ति, अतिबहुत्वात्; दोषास्तु खलु परिसंख्येया भवन्ति, अनतिबहुत्वात् । तस्माद्यथाचित्रं विकारानुदाहरणार्थम् अनवशेषेण च दोषान् व्याख्यास्याम: । रजस्तमश्च मानसौ दोषौ । तयोर्विकारा: कामक्रोधलोभमोहेर्ष्या- मानमदशोकचित्तो(न्तो)द्वेगभयहर्षादय: । वातपित्तश्लेष्माणस्तु खलु शारीरा दोषा: । तेषामपि च विकारा ज्वरातीसारशोफ- शोषश्वासमेहकुष्ठादय: । इति दोषा: केवला व्याख्याता विकारैकदेशश्च ॥५॥
तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा–असात्म्येन्द्रियार्थसंयोग:, प्रज्ञापराध:, परिणामश्चेति ॥६॥
प्रकुपितास्तु खलु ते प्रकोपणविशेषाद्दूष्यविशेषाच्च विकारविशेषानभिनिर्वर्तयन्त्यपरिसंख्येयान् ॥७॥
ते च विकारा: परस्परमनुवर्तमाना: कदाचिदनुबध्नान्ति कामादयो ज्वरादयश्च ॥८॥
नियतस्त्वनुबन्धो रजस्तमसो: परस्परं, न ह्यरजस्कं तम: प्रवर्तते ॥९।
(प्राय:) शारीरदोषाणामेकाधिष्ठानीयानां सन्निपात: संसर्गो वा समानगुणत्वात्; दोषा हि दूषणै: समाना: ॥१०॥
तत्रानुबन्ध्यानुबन्धकृतो विशेष:–स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्य:, तद्विपरीतलक्षणस्त्वनुबन्ध: । अनुबन्ध्यलक्षणसमन्वितास्तत्र यदि दोषा भवन्ति तत् त्रिकं सन्निपातमाचक्षते, द्वयं वा संसर्गम् । अनुबन्ध्यानुबन्धविशेषकृतस्तु बहुविधो दोषभेद: । एवमेष संज्ञाप्रकृतो भिषजां दोषेषु व्याधिषु च नानाप्रकृतिविशेषव्यूह: ॥११॥
अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति । तद्यथा–तीक्ष्णो, मन्द:, समो, विषमश्चेति । तत्र तीक्ष्णोऽग्नि: सर्वापचारसह:, तद्विपरीतलक्षणस्तु मन्द:, समस्तु खल्वपचारतो विकृतिमापद्यतेऽनपचारतस्तु प्रकृताववतिष्ठते, समलक्षणविपरीतलक्षणस्तु विषम इति । एते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम् । तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नय:, वातलानां तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्त्यग्नय:, पित्तलानां तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नय:, श्लेष्मलानां तु श्लेष्माभिभूतेऽग्न्यधिष्ठाने मन्दा भवन्त्यग्नय: ॥१२॥
तत्र केचिदाहु: — न समवातपित्तश्लेष्माणो जन्तव: सन्ति, विषमाहारोपयोगित्वान्मनुष्याणां; तस्माच्च वातप्रकृतय: केचित्, केचित् पित्तप्रकृतय:, केचित् पुन: श्लेष्मप्रकृतयो भवन्तीति । तच्चानुपपन्नं, कस्मात् कारणात् ? समवातपित्तश्लेष्माणं ह्यरोगमिच्छन्ति भिषज:, यत: प्रकृतिश्चारोग्यम्, आरोग्यार्था च भेषजप्रवृत्ति:, सा चेष्टरूपा, तस्मात् सन्ति समवातपित्तश्लेष्माण:, न खलु सन्ति वातप्रकृतय: पित्तप्रकृतय: श्लेष्मप्रकृतयो वा । तस्य तस्य किल दोषस्याधिक्यात् सा सा दोषप्रकृतिरुच्यते मनुष्याणां, न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते, तस्मान्नैता: प्रकृतय: सन्ति; सन्ति तु खलु वातला: पित्तला: श्लेष्मलाश्च, अप्रकृतिस्थास्तु ते ज्ञेया: ॥१३॥
तेषां तु खलु चतुर्विधानां पुरुषाणां चत्वार्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति । तत्र समसर्वधातूनां सर्वाकारसमम्, अधिकदोषाणां तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य दोषप्रतिकूलयोगीनि त्रीण्यनु(न्न)प्रणिधानानि श्रेयस्कराणि भवन्ति यावदग्ने: समीभावात्, समे तु सममेव कार्यम्; एवं चेष्टा भेषजप्रयोगाश्चापरे । तान् विस्तरेणानुव्याख्यास्याम: ॥१४॥
त्रयस्तु पुरुषा भवन्त्यातुरा:, ते त्वनातुरास्तन्त्रान्तरीयाणां भिषजाम् । तद्यथा-वातल:, पित्तल:, श्लेष्मलश्चेति । तेषामिदं विशेषविज्ञानं- वातलस्य वातनिमित्ता:, पित्तलस्य पित्तनिमित्ता:, श्लेष्मलस्य श्लेष्मनिमित्ता व्याधय: प्रायेण बलवन्तश्च भवन्ति ॥१५॥
तत्र वातलस्य वातप्रकोपणान्यासेवमानस्य क्षिप्रं वात: प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारै: शरीरमुपतपति बलवर्णसुखायुषामुपघाताय । तस्यावजयनं-स्नेहस्वेदौ विधियुक्तौ, मृदूनि च संशोधनानि स्नेहोष्ण- मधुराम्ललवणयुक्तानि, तद्वदभ्यवहार्याणि, अभ्यङ्गोपनाहनोद्वेष्टनोन्मर्दनपरिषेकावगाहनसंवाहनावपीडनवित्रासनविस्मापन- विस्मारणानि, सुरासवविधानं, स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयोपहितास्तथा शतपाका: सहस्रपाका: सर्वशश्च प्रयोगार्था:, बस्तय:, बस्तिनियम: सुखशीलता चेति ॥१६॥
पित्तलस्यापि पित्तप्रकोपणान्यासेवमानस्य क्षिप्रं पित्तं प्रकोपमापद्यते, न तथेतरौ दोषौ; तदस्य प्रकोपमापन्नं यथोक्तैर्विकारै: शरीरमुपतपति बलवर्णसुखायुषामुपघाताय । तस्यावजयनं-सर्पिष्पानं, सर्पिषा च स्नेहनम्, अधश्च दोषहरणं, मधुरतिक्तकषायशीतानां चौषधाभ्यवहार्याणामुपयोग:, मृदुमधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा, मुक्तामणिहारावलीनां च परमशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे क्षणेऽग्र्यचन्दनप्रियङ्गुकालीयमृणालशीतवातवारिभिरुत्पलकुमुदकोकनदसौगन्धिकपद्मानुगतैश्च वारिभिरभि- प्रोक्षणं, श्रुतिसुखमृदुमधुरमनोऽनुगानां च गीतवादित्राणां श्रवणं, श्रवणं चाभ्युदयानां, सुहृद्भि: संयोग:, संयोगश्चेष्टाभि: स्त्रीभि: शीतोपहितांशुकस्रग्धारिणीभि:, निशाकरांशुशीतलप्रवातहर्म्यवास:, शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवनं, रम्याणां चोपवनानां सुखशिशिरसुरभिमारुतोपहितानामुपसेवनं, सेवनं च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां, सौम्यानां च सर्वभावानामिति ॥१७॥
श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ, स तस्य प्रकोपमापन्नो यथोक्तैर्विकारै: शरीरमुपतपति बलवर्णसुखायुषामुपघाताय । तस्यावजयनं-विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणिचाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि, तथैव धावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि, विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां च मद्यानामुपयोग:, सधूमपान: सर्वशश्चोपवास:, तथोष्णं वास:, सुखप्रतिषेधश्च सुखार्थमेवेति ॥१८
भवति चात्र–
सर्वरोगविशेषज्ञ: सर्वकार्यविशेषवित् ।
सर्वभेषजतत्त्वज्ञो राज्ञ: प्राणपतिर्भवेदिति ॥१९॥
तत्र श्लोका:–
प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम् ।
परस्पराविरोधश्च सामान्यं रोगदोषयो: ॥२०॥
दोषसंख्या विकाराणामेकदेश: प्रकोपणम् ।
जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि च ॥२१॥
नराणां वातलादीनां प्रकृतिस्थापनानि च ।
रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा ॥२२॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगानीकविमानं नाम षष्ठोऽध्याय: ॥६॥
Last updated on June 7th, 2021 at 11:47 am