चरकसंहिता
विमानस्थानम् ।
पञ्चमोऽध्याय: ।
अथात: स्रोतसां विमानं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
यावन्त: पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषा: । सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्याभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति । स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन ॥३॥
अपि चैके स्रोतसामेव समुदयं पुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम् । न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च वहन्ति, यच्चावहन्ति, यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्य: । अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये ॥४॥
तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्याम:; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम् । तद्यथा–प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति; वातपित्तश्लेष्मणां पुन: सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुन: सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च। तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम् ॥७॥
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा– अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं या सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्। उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा–जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् । अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा–अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् । रसवहानां स्रोतसां हृदयं मूलं दश च धमन्य: । शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च । मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च । मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च । अस्थिवहानां स्रोतसां मेदो मूलं जघनं च । मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च । शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च । प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम् । मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा–अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् । पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा–कृच्छ्रेणाल्पाल्पं स शब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् । स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा– अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात् ॥८॥
स्रोतांसि, सिरा:, धमन्य:, रसायन्य:, रसवाहिन्य:, नाड्य:, पन्थान:, मार्गा:, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशया:, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति । तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातव: प्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च । स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति तेषां सर्वेषामेव वातपित्तश्लेष्माण: प्रदुष्टा: दूषयितारो भवन्ति, दोषस्वभावादिति ॥९॥
भवन्ति चात्र–
क्षयात् संधारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च ।
प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणै: ॥१०॥
औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात् ।
अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात् ॥११॥
अतिमात्रस्य चाकाले चाहितस्य च भोजनात् ।
अन्नवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च ॥१२॥
गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम् ।
रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात् ॥१३॥
विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च ।
रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ ॥१४॥
अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च ।
मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा ॥१५॥
अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात् ।
मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात् ॥१६॥
व्यायामादतिसंक्षोभादस्थनमतिविघट्टनात् ।
अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात् ॥१७॥
उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात् ।
मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात् ॥१८॥
अकालयोनिगमनान्निग्रहादतिमैथुनात् ।
शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा ॥१९॥
मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात् ।
मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च ॥२०॥
संधारणादत्यशनादजीर्णाध्यशनात्तथा।
वर्चोवाहीनि दुष्यन्ति दुर्बलाग्ने: कृशस्य च ॥२१॥
व्यायामादतिसंतापाच्छीतोष्णाक्रमसेवनात् ।
स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा ॥२२॥
आहारश्च विहाराश्च य: स्याद्दोषगुणै: सम: ।
धातुभिर्विगुणश्चापि स्रोतसां स प्रदूषक: ॥२३।
अतिप्रवृत्ति: सङ्गो वा सिराणां ग्रन्थयोऽपि वा ।
विमार्गगमनं चापि स्रोतसां दुष्टिलक्षणम् ॥२४॥
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च ।
स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च ॥२५॥
प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया ।
कार्या तृष्णोपशमनी तथैवामप्रदोषिकी ॥२६॥
विविधाशितपीतीये रसादीनां यदौषधम् ।
रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम् ॥२७॥
मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी ।
तथाऽतिसारिकी कार्या तथा ज्वरचिकित्सिकी ॥२८॥
तत्र श्लोका:–
त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम् ।
सामान्यं नामपर्याया: कोपनानि परस्परम् ॥२९॥
दोषहेतु: पृथक्त्वेन भेषजोद्देश एव च ।
स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चय: ॥३०॥
केवलं विदितं यस्य शरीरं सर्वभावत: ।
शारीरा: सर्वरोगाश्च स कर्मसु न मुह्यति ॥३१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्याय: ॥५॥
Last updated on June 7th, 2021 at 11:26 am