सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
त्रिषष्टितमोऽध्यायः ।
अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः |
त्रिषष्ट्या रसाभेदानां तत्प्रयोजनमुच्यते ||३||
अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा |
रसभेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् ||४||
एकैकेनानुगमनं भागशो यदुदीरितम् |
दोषाणां, तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् ||५||
यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः |
पञ्चानुक्रमते योगानम्लश्चतुर एव तु ||६||
त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम् |
तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ||७||
तद्यथा- मधुराम्लः, मधुरलवणः, मधुरकटुकः, मधुरतिक्तः, मधुरकषायः, एतेपञ्चानुक्रान्ता मधुरेण; अम्ललवणः, अम्लकटुकः, अम्लतिक्तः, अम्लकषायः, एते चत्वारोऽनुक्रान्ता अम्लेन; लवणकटुकः, लवणतिक्तः, लवणकषायः, एते त्रयोऽनुक्रान्ता लवणेन; कटुतिक्तः, कटुकषायः, द्वावेतावनुक्रान्तौ कटुकेन; तिक्तकषायः एक एवानुक्रान्तस्तिक्तेन; एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ||८||
त्रिकान् वक्ष्यामः-
आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति |
षडम्लो लवणस्तस्मादर्धमेकं तथा कटुः ||९||
तद्यथा- मधुराम्ललवणः, मधुराम्लकटुकः, मधुराम्लतिक्तः, मधुराम्लकषायः, मधुरलवणकटुकः, मधुरलवणतिक्ताः, मधुरलवणकषायः, मधुरकटुकतिक्तः, मधुरकटुकषायः, मधुरतिक्तकषायः, एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुकः, अम्ललवणतिक्तः, अम्ललवणकषायः, अम्लकटुतिक्तः, अम्लकटुकषायः, अम्लतिक्तकषायः, एवमेषां षण्णामादावम्लः प्रयुज्यते; लवणकटुतिक्तः, लवणकटुकषायः, लवणतिक्तकषायः, एवमेषां त्रयाणामादौ लवणः प्रयुज्यते; कटुतिक्तकषायः, एवमेकस्यादौ कटुकः प्रयुज्यते; एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः ||१०||
चतुष्कान् वक्ष्यामः |
चतुष्करससंयोगान्मधुरो दश गच्छति |
चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु ||११||
मधुराम्ललवणकटुकः, मधुराम्ललवणतिक्तः, मधुराम्ललवणकषायः, मधुराम्लकटुकतिक्तः, मधुराम्लकटुकषायः, मधुराम्लतिक्तकषायः, मधुरलवणकटुकतिक्तः, मधुरलवणकटुकषायः, मधुरलवणतिक्तकषायः, मधुरकटुतिक्तकषायः, एवमेषां दशानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तः, अम्ललवणकटुकषायः, अम्ललवणतिक्तकषायः, अम्लकटुतिक्तकषायः, एवमेषां चतुर्णामादावम्लः; लवणकटुतिक्तकषायः, एवमेकस्यादौ लवणः; एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः ||१२||
पञ्चकान् वक्ष्यामः |
पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति ||१३||
मधुराम्ललवणकटुतिक्तः, मधुराम्ललवणकटुकषायः, मधुराम्ललवणतिक्तकषायः, मधुराम्लकटुतिक्तकषायः, मधुरलवणकटुतिक्तकषायः, एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते; अम्ललवणकटुतिक्तकषायः, एवमेकस्यादावम्लः; एवमेते षट् पञ्चकसंयोगा व्याख्याताः ||१४||
षट्कमेकं वक्ष्यामः; एकस्तु षट्कसंयोगः- मधुराम्ललवणकटुतिक्तकषायः; एष एक एव षट्संयोगः ||१५||
एकैकश्च षड्रसा भवन्ति- मधुरः, अम्लः, लवणः, कटुकः, तिक्तः, कषायः, इति ||१६||
भवन्ति चात्र-
एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः |
दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः ||१७||
इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो
नाम (प्रथमः, आदितः) त्रिषष्टितमोऽध्यायः ||६३||
Last updated on July 9th, 2021 at 05:36 am