सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
अष्टापञ्चाशत्तमोऽध्याय: ।
अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च |
मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ||३||
मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च |
मूत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ||४||
रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः |
मूत्रं चरति सङ्गृह्य विगुणः कुण्डलीकृतः ||५||
सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः |
वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ||६||
शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः |
अष्ठीलावद्धनं ग्रन्थिं करोत्यचलमुन्नतम् ||७||
विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते |
वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ||८||
वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः |
निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ||९||
मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः |
वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ||१०||
वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति |
तस्य नाभ्येति यदि वा कथञ्चित्सम्प्रवर्तते ||११||
प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः |
मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् ||१२||
मूत्रस्य विहते वेगे तदुदावर्तहेतुना |
अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ||१३||
नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम् |
तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् ||१४||
बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः |
मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ||१५||
स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् |
विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसञ्ज्ञितः ||१६||
रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ |
सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसङ्क्षयम् ||१७||
अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च |
वेदनावानति सदा मूत्रमार्गनिरोधनः ||१८||
जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः |
स मूत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः ||१९||
प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति |
तस्य मूत्रयुतं रेतः सहसा सम्प्रवर्तते ||२०||
पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन |
भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ||२१||
व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम् |
बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः ||२२||
मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा |
कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् ||२३||
विशदं पीतकं मूत्रं सदाहं बहलं तथा |
शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् ||२४||
मूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः |
पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् ||२५||
शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् |
मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् ||२६||
कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च |
क्षारमद्या(ध्वा)सवस्वेदान् बस्तींश्चोत्तरसञ्ज्ञितान् ||२७||
विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् |
मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् ||२८||
कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम् |
धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते ||२९||
सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः |
मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ||३०||
पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम् |
रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ||३१||
दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः |
पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ||३२||
पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च |
अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ||३३||
क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिबेत् |
नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ||३४||
निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः |
रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ||३५||
मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च |
पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ||३६||
अभयामलकाक्षाणां कल्कं बदरसम्मितम् |
अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् ||३७||
उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् |
पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ||३८||
निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् |
मूत्रदोषहरं कल्य मथवा क्षौद्रसंयुतम् ||३९||
प्रपीड्यामलकानां तु रसं कुडवसम्मितम् |
पीत्वाऽगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ||४०||
धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः |
पिष्ट्वाऽथवा सुशीतेन शालितण्डुलवारिणा ||४१||
तालस्य तरुणं मूलं त्रपुसस्य रसं तथा |
श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ||४२||
शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः |
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ||४३||
बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान् |
शतपर्वकमूलं च देवदारु सचित्रकम् ||४४||
अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः |
मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ||४५||
पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम् |
पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ||४६||
नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान् |
क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ||४७||
पाटल्या यावशूकाच्च पारिभद्रात्तिलादापि |
क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ||४८||
पिबेद्गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक् |
अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ||४९||
स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम् |
ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ||५०||
स्त्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते |
मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ||५१||
ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु |
विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ||५२||
क्षौद्रार्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः |
शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम् ||५३||
स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च |
पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ||५४||
तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् |
ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ||५५||
एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा |
मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ||५६||
जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च |
नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ||५७||
बला कोलास्थि मधुकं श्वदंष्ट्राऽथ शतावरी |
मृणालं च कशेरुश्च बीजानीक्षुरकस्य च ||५८||
सहस्रवीर्यांऽशुमती पयस्या सह कालया |
शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ||५९||
एतानि समभागानि मतिमान् सह साधयेत् |
चतुर्गुणेन पयसा गुडस्य तुलया सह ||६०||
द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् |
तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् ||६१||
सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते |
तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ||६२||
क्षौद्रेण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत् |
तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ||६३||
शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः |
व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ||६४||
ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति |
चित्रकः सारिवा चैव बला कालानुसारिवा ||६५||
द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् |
तथैव मधुकं पथ्यां दद्यादामलकानि च ||६६||
घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः |
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ||६७||
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् |
तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ||६८||
ततो मितं पिबेत्काले यथादोषं यथाबलम् |
वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ||६९||
रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् |
जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ||७०||
प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् |
सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ||७१||
असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान् |
मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ||७२||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम (विंशोऽध्यायः, आदितः) अष्टपञ्चाशत्तमोऽध्यायः ||५८||
Last updated on July 9th, 2021 at 05:32 am