सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
पञ्चपञ्चाशत्तमोऽध्यायः ।
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः |
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ||३||
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः |
व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ||४||
क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात् |
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ||५||
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः |
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ||६||
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम् |
कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ||७||
कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा |
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ||८||
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य |
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ||९||
मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि मूर्ध्नि |
आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः ||१०||
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः |
श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ||११||
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि |
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ||१२||
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः |
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः ||१३||
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः |
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् ||१४||
मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च |
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ||१५||
तन्द्राङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः |
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघातद्धृदये व्यथा च ||१६||
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः |
जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्राभिघातादथवाऽपि तन्द्रा ||१७||
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् |
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् ||१८||
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः |
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये ||१९||
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे |
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते ||२०||
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत् |
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ||२१||
एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरं |
धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम् ||२२||
रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत् |
मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् ||२३||
भद्रदारु घनं मूर्वा हरिद्रा मधुकं तथा |
कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा ||२४||
दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च |
एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् ||२५||
पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा |
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः ||२६||
मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः |
भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये ||२७||
स्नैहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत् |
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः ||२८||
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः |
वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् ||२९||
(तीक्ष्णौषधप्रधमनैरथवाऽऽदित्यरश्मिभिः||) |
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ||३०||
सुरां सौवर्चलवतीं बीजपूररसान्विताम् |
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ||३१||
सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत् |
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ||३२||
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः |
रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ||३३||
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् |
तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ||३४||
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः |
निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ||३५||
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि |
यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ||३६||
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः |
भोजनैः कुपितः सद्य उदावर्तं करोति हि ||३७||
वातमूत्रपुरीषासृक्कफमेदोवहानि वै |
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ||३८||
ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः |
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ||३९||
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् |
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ||४०||
लभते च बहूनन्यान् विकारान् वातकोपजान् |
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ||४१||
दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत् |
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ||४२||
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः |
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ||४३||
हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम् |
योगावेतावुदावर्तं शूलं चानिलजं हतः ||४४||
देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम् |
पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ||४५||
पादावशिष्टं तत् पीतमुदावर्तमपोहति |
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम् ||४६||
आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत् |
तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः ||४७||
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम् |
कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ||४८||
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम् |
कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ||४९||
मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत् |
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ||५०||
पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम् |
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ||५१||
सञ्चूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् |
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ||५२||
कृतवेधनमागध्योर्लवणानां च साधयेत् |
गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः |
सद्यः शर्मकरावेतौ योगावमृतसम्मतौ ||५३||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातेन्त्रे उदावर्तप्रतिषेधो नाम
(सप्तदशोऽध्यायः, आदितः) पञ्चपञ्चाशत्तमोऽध्यायः ||५५||
Last updated on July 9th, 2021 at 05:30 am