सुश्रुतसंहिता ।
सूत्रस्थानम् ।
एकचत्वारिंशत्तमोऽध्याय: ।
अथातो द्रव्यविशेषविज्ञानीयमध्यायं [१] व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्तिः, उत्कर्षस्त्वभिव्यञ्जको भवति- इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ||३||
तत्र स्थूलसान्द्रमन्दस्थिरगुरुकठिनं गन्धबहुलमीषत्कषायं प्रायशो मधुरमिति पार्थिवं; तत् स्थैर्यबलगौरवसङ्घातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति (१) |४|
शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिच्छिलं रसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं; तत् स्नेहनह्लादनक्लेदनबन्धनविष्यन्दनकरमिति; (२) |४|
उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमिति तैजसं; तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति; (३) |४|
सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तं विशेषतः कषायमिति वायवीयं; तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति; (४) |४|
श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयं; तन्मार्दवशौषिर्यलाघवकरमिति (५) ||४||
अनेन निदर्शनेन नानौषधीभूतं जगति किञ्चिद्द्रव्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्रव्याणि कार्मुकाणि भवन्ति | तानि यदा कुर्वन्ति स कालः, यत् कुर्वन्ति तत् कर्म, येन कुर्वन्ति तद्वीर्यं, यत्र कुर्वन्ति तदधिकरणं, यथा कुर्वन्ति स उपायः, यन्निष्पादयन्ति तत् फलमिति ||५||
तत्र, विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि, पृथिव्यापो गुर्व्यः, तानि गुरुत्वादधो गच्छन्ति, तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात्; वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि, अग्निवायु हि लघू, लघुत्वाच्च तान्यूर्ध्वमुत्तिष्ठन्ति, तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम्; उभयगुणभूयिष्ठमुभयतोभागम्; आकाशगुणभूयिष्ठं संशमनं; साङ्ग्राहिकमनिलगुणभूयिष्ठम्, अनिलस्य शोषणात्मकत्वात्; दीपनमग्निगुणभूयिष्ठं, तत्समानत्वात्; लेखनमनिलानलगुणभूयिष्ठं; बृंहणं पृथिव्यम्बुगुणभूयिष्ठम्; एवमौषधकर्माण्यनुमानात् साधयेत् ||६||
भवन्ति चात्र-
भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः |
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ||७||
खतेजोऽनिलजैः श्लेष्मा शममेति शरीरिणाम् |
वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः ||८||
आग्नेयमेव यद्द्रव्यं तेन पित्तमुदीर्यते |
वसुधाजलजाताभ्यां बलासः परिवर्धते ||९||
एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम् |
द्विशो वा बहुशो वाऽपि ज्ञात्वा दोषेषु चाचरेत् ||१०||
तत्र य इमे गुणा वीर्यसञ्ज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ, शीतपिच्छिलावम्बुगुणभूयिष्ठौ, पृथिव्यम्बुगुणभूयिष्ठः स्नेहः, तोयाकाशगुणभूयिष्ठं मृदुत्वं, वायुगुणभूयिष्ठं रौक्ष्यं, क्षितिसमीरणगुणभूयिष्ठं वैशद्यं; विपाकावुक्तगुणौ | तत्र, उष्णस्निग्धौ वातघ्नौ, शीतमृदुपिच्छिलाः पित्तघ्नाः, तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः, लघुपाकः श्लेष्मघ्नः | तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः, पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां, स्निग्धरूक्षौ चक्षुषा, तीक्ष्णो मुखे दुःखोत्पादनात् | गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च, लघुर्बद्धविण्मूत्रतया मारुतकोपेन च | तत्र तुल्यगुणेषु भूतेषु रसवैशेष्यमुपलक्षयेत् |
तद्यथा- मधुरो गुरुश्च पार्थिवः, मधुरः स्निग्धश्चाप्य इति ||११||
भवति चात्र-
गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा |
स्थानवृद्धिक्षयास्तस्माद्देहिनां द्रव्यहेतुकाः ||१२||
इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यविशेषविज्ञानीयो नामैकचत्वारिंशत्तमोऽध्यायः ||४१||
Last updated on May 24th, 2021 at 07:41 am