सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
चत्वारिंशत्तमोऽध्याय: ।
अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः |
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ||३||
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात् |
शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् ||४||
जलातिरमणैर्वेगविघातैः कृमिदोषतः |
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ||५||
संशम्यापान्धातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः |
वृद्धोऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः ||६||
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः |
केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत् ||७||
दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति |
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः ||८||
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि |
शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः ||९||
वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन |
दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् ||१०||
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः |
तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः ||११||
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा |
तन्द्रायुक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः ||१२||
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः |
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पावेगः पक्तिमाविध्य(श्य)जन्तोः ||१३||
कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् |
वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात् ||१४||
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः |
आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम् ||१५||
नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति ||१६||
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति |
पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसञ्ज्ञकम् ||१७||
एतान्येव तु लिङ्गानि विपरीतानि यस्य तु |
लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत् ||१८||
सर्पिर्मेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्ररूपं स्रवेद्यत् |
मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम् ||१९||
राजीमद्वा चन्द्रकैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम् |
हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः ||२०||
असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम् |
गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत् ||२१||
शरीरिणामतीसारः सम्भूतो येन केनचित् |
दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते ||२२||
स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः |
विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः |
विषार्शःकृमिसम्भूतो यथास्वं दोषलक्षणः ||२३||
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः |
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः ||२४||
तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम् |
ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः ||२५||
अथवा वामयित्वाऽऽमे शूलाध्माननिपीडितम् |
पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत् ||२६||
कार्यं वमनस्यान्ते प्रद्रवं लघुभोजनम् |
खडयूषयवागूषु पिप्पल्याद्यं च योजयेत् ||२७||
अनेन विधिना चामं यस्य वै नोपशाम्यति |
हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः ||२८||
आमातीसारिणां कार्यं नादौ सङ्ग्रहणं नृणाम् |
तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान् ||२९||
प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान् |
शोफगुल्मग्रहण्यर्शःशूलालसकहृद्ग्रहान् ||३०||
सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते |
दोषान् सन्निचितान् तस्य पथ्याभिः सम्प्रवर्तयेत् ||३१||
योऽतिद्रवं प्रभूतं च पूरीषमतिसार्यते |
तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम् ||३२||
स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते |
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ||३३||
आमे च लङ्घनं शस्तमादौ पाचनमेव वा |
योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः ||३४||
कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः |
देवदारुवचामुस्तानागरातिविषाभयाः ||३५||
अभया धान्यकं मुस्तं पिप्पली नागरं वचा |
नागरं धान्यकं मुस्तं वालकं बिल्वमेव च ||३६||
मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाऽभया |
अभयाऽतिविषा हिङ्गु वचा सौवर्चलं तथा ||३७||
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी |
पाठा वत्सकबीजानि हरीतक्यो महौषधम् ||३८||
मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली |
सिद्धार्थका भद्रदारु शताह्वा कटुरोहिणी ||३९||
एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः |
मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च ||४०||
वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा |
अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी ||४१||
पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम् |
पटोलं(ली) दीप्यको बिल्वं हरिद्रे देवदारु च ||४२||
विडङ्गमभया पाठा शृङ्गवेरं घनं वचा |
वचा वत्सकबीजानि सैन्धवं कटुरोहिणी ||४३||
हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च |
नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् ||४४||
महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः |
प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे ||४५||
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा |
निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान् ||४६||
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि |
क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च ||४७||
निखिलेनोपदिष्टोऽयं विधिरामोपशान्तये |
हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् ||४८||
पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः |
पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् ||४९||
मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना |
शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा ||५०||
लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी |
चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च ||५१||
हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः |
हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ ||५२||
वचा गुडूचीकाण्डानि योगोऽयं परमो मतः |
एते सुखाम्बुना योगा देयाः पञ्च सतां मताः ||५३||
निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः |
स्तोकं स्तोकं रुजामच्च सशूलं योऽतिसार्यते ||५४||
सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम् |
क्षीरनागरचाङ्गेरीकोलदध्यम्लसाधितम् ||५५||
सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये |
दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः ||५६||
सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः |
निखिलो विधिरुक्तोऽयं वातश्लेष्मोपशान्तये ||५७||
तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक् |
यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते ||५८||
बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च |
शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः ||५९||
मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः |
मृदुभिर्दीपनैस्तिक्तैर्द्रव्यैः स्यादामपाचनम् ||६०||
हरिद्रातिविषापाठावत्सबीजरसाञ्जनम् |
रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च ||६१||
पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी |
एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः ||६२||
मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम् |
दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् ||६३||
चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम् |
मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम् ||६४||
पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम् |
फलत्वचं वत्सकस्य शृङ्गवेरं घनं वचा ||६५||
षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः |
बिल्वशक्रयवाम्भोदबालकातिविषाकृतः |
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ||६६||
मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः |
कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः ||६७||
यदा पक्वोऽप्यतीसारः सरत्येव मुहुर्मुहुः |
ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम् ||६८||
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम् |
शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ ||६९||
आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः |
मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च ||७०||
चत्वार एते योगाः स्युः पक्वातीसारनाशनाः |
उक्ता य उपयोज्यास्ते सक्षौद्रास्तण्डुलाम्बुना ||७१||
मौस्तं कषायमेकं वा पेयं मधुसमायुतम् |
लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् ||७२||
पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च |
पिबेत्तण्डुलतोयेन सक्षौद्रमगदङ्करम् ||७३||
कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम् |
पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम् ||७४||
पक्वातिसारं योगोऽयं जयेत्पीतः सशोणितम् |
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ||७५||
नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम् |
बलाबृहत्यंशुमतीकच्छुरामूलसाधितम् ||७६||
मधूक्षितं समधुकं पिबेच्छूलैरभिद्रुतः |
दार्वीबिल्वकणाद्राक्षाकटुकेन्द्रयवैर्घृतम् ||७७||
साधितं हन्त्यतीसारं वातपित्तकफात्मकम् |
दध्ना चाम्लेन सम्पक्वं सव्योषाजाजिचित्रकम् ||७८||
सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः |
पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः ||७९||
सिताजमोदकट्वङ्गमधुकैरवचूर्णितम् |
अवेदनं सुसम्पक्वं दीप्ताग्नेः सुचिरोत्थितम् ||८०||
नानावर्णमतीसारं पुटपाकैरुपाचरेत् |
त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम् ||८१||
काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण सन्दृढम् |
मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ||८२||
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः |
शीतं मधुयुतं कृत्वा पाययेतोदरामये ||८३||
जीवन्तीमेषशृङ्ग्यादिष्वेवं द्रव्येषु साधयेत् |
तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत् ||८४||
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत् |
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ||८५||
शर्करोपहितं शीतं पाययेतोदरामये |
लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान् ||८६||
तण्डुलोदकसम्पिष्टान् दीर्घवृन्तत्वगन्वितान् |
पूर्ववत् कूलितात्तस्माद्रसमादाय शीतलम् ||८७||
मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये |
एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ||८८||
पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान् |
बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् ||८९||
कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा |
अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ||९०||
पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः |
सनागरैः पिबेत् पेयां साधितामुदरामयी ||९१||
अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान् |
आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्रवाम् ||९२||
एषा सर्वानतीसारान् हन्ति पक्वानसंशयम् |
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ||९३||
धातकी नागरं चैव पाययेत्तण्डुलाम्बुना |
सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ||९४||
मधुकं बिल्वपेशी च शर्करामधुसंयुता |
अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः ||९५||
तद्वल्लीढं मधुयुतं बदरीमूलमेव तु |
बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः ||९६||
शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम् |
एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ||९७||
पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान् |
कृतं शाल्मलिवृन्तेषु कषायं हिमसञ्ज्ञितम् ||९८||
निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम् |
विबद्धवातविट् शूलपरीतः सप्रवाहिकः ||९९||
सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः |
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् ||१००||
चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम् |
दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् ||१०१||
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये |
पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते ||१०२||
शकृता यस्तु संसृष्टमतिसार्येत शोणितम् |
प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः ||१०३||
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम् |
दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम् ||१०४||
संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम् |
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् ||१०५||
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः |
ज्वरे दाहे सविड्बन्धे मारुताद्रक्तपित्तवत् ||१०६||
सम्पक्वे बहुदोषे च विबन्धे मूत्रशोधनैः |
कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् ||१०७||
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे |
मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् ||१०८||
गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः |
तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः ||१०९||
दधिमण्डसुराबिल्वसिद्धं तैलं समारुते |
भोजने च हितं क्षीरं कच्छुरामूलसाधितम् ||११०||
अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते |
यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः ||१११||
प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम् |
भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् ||११२||
कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः |
यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः ||११३||
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका |
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् ||११४||
एष आहारसंयोगे हितः सर्वातिसारिणाम् |
तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा ||११५||
पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते |
पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ||११६||
ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम् |
यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ||११७||
स पल्लवैर्वटादीनां ससर्पिः साधितं पयः |
पिबेत् सशर्कराक्षौद्रमथवाऽप्यभिमथ्य तत् ||११८||
नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः |
प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्वचः ||११९||
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः |
मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम् ||१२०||
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् |
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् ||१२१||
पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये |
शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः ||१२२||
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च |
तिला मोचरसो लोध्रं तथैव मधुकोत्पलम् ||१२३||
कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च |
आजेन पयसा पेयाः सरक्ते मधुसंयुताः ||१२४||
द्रवे सरक्ते स्रवति बालबिल्वं सफाणितम् |
सक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत् ||१२५||
कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु |
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् ||१२६||
बिल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम् |
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् ||१२७||
योगान् साङ्ग्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान् |
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् ||१२८||
गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः |
रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् ||१२९||
सक्तविड् दोषबहुलं दीप्ताग्निर्योऽतिसार्यते |
विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत् ||१३०||
अथवैरण्डसिद्धेन पयसा केवलेन वा |
यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः ||१३१||
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् |
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् ||१३२||
स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च |
स्विन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः ||१३३||
दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम् |
शशमांसं सरुधिरं समङ्गां सघृतं दधि ||१३४||
खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षये |
संस्कृतो यमके माषयवकोलरसः शुभः ||१३५||
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः |
विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् ||१३६||
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः |
सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते |
स पिबेद्दीपनैर्युक्तं सर्पिः सङ्ग्राहकैः सह ||१३७||
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य |
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ||१३८||
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च |
`सशोणिता शोणितसम्भवा तु ताः स्नेहरूक्षप्रभवा मतास्तु ||१३९||
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च |
न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा ||१४०||
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च |
आर्द्रैः कुशैः सम्परिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् ||१४१||
पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत |
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि ||१४२||
बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे |
द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण ||१४३||
क्षीरेण चास्थापनमग्र्यमुक्तंतैलेन युञ्ज्यादनुवासनं च |
वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने ||१४४||
लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम् |
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चा(स्सा)रकपीडितस्तु ||१४५||
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन |
शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः ||१४६||
वातघ्नसाङ्ग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च |
खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् ||१४७||
एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत् |
मेध्य(द्य)स्य सिद्धं त्वथ वाऽपि रक्तं बस्तस्य दध्ना घृततैलयुक्तम् ||१४८||
खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः |
माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान् ||१४९||
महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत् |
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् ||१५०||
स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् |
मधुरौषधसिद्धं च हितं तस्यानुवासनम् ||१५१||
रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः |
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा ||१५२||
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका |
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् ||१५३||
पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः |
सुखाम्बुपीताः शमयन्ति रोगंमेध्याण्डसिद्धं सघृतं पयो वा ||१५४||
शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वाऽऽमयमाशु हन्यात् |
गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि ||१५५||
बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम् |
लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु ||१५६||
हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः ||१५७||
तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी |
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता ||१५८||
रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे |
भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी ||१५९||
विषार्शःकृमिसम्भूते हिता चोभयशर्मदा |
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः ||१६०||
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत् |
ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् ||१६१||
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति |
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः ||१६२||
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे |
कर्मदोषोद्भवाश्चान्येकर्मजास्तेष्वहेतुकाः ||१६३||
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसङ्क्षये |
शाम्यन्ति दोषसम्भूता दोषसङ्क्षयहेतुभिः ||१६४||
तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च |
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते ||१६५||
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते |
दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः ||१६६||
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः |
भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ||१६७||
तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत् |
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||१६८||
षष्ठी पित्तधरा नाम या कला परिकीर्तिता |
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता ||१६९||
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः |
तस्मात् सन्दूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ||१७०||
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः |
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ||१७१||
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् |
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ||१७२||
तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतृट्क्लमाः |
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् ||१७३||
अथ जाते भवेज्जन्तुः शूनपादकरः कृशः |
पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवान् ||१७४||
उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् |
प्रसेकमुखवैरस्यतमकारुचिपीडितः ||१७५||
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः |
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः ||१७६||
दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः |
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः ||१७७||
यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम् |
पेयादिं वितरेत् सम्यग्दीपनीयोपसम्भृतम् ||१७८||
ततः पाचनसङ्ग्राहिदीपनीयगणत्रयम् |
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः ||१७९||
तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते |
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् ||१८०||
चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम् |
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च ||१८१||
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत् |
सर्वथा दीपनं सर्वं ग्रहणीरोगिणां हितम् ||१८२||
ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः ||१८३||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम (द्वितीयोऽध्यायः, आदितः) चत्वारिंशोऽध्यायः ||४०||
Last updated on July 8th, 2021 at 12:02 pm