Skip to content

37. Mis`hraka – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थाने

सप्तत्रिंशत्तमोऽध्याय: ।

अथातो मिश्रकमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

 मातुलुङ्ग्यग्निमन्थौ च भद्रदारु महौषधम् |

अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ||३||

दूर्वा च नलमूलं च मधुकं चन्दनं तथा |

शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ||४||

आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः |

विधिर्विषघ्नो विषजे पित्तघ्नोऽपि हितस्तथा ||५||

अजगन्धाऽश्वगन्धा च काला सरलया सह |

एकैषिकाजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ||६||

एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च |

अनन्ता चेति लेपोऽयं सान्निपातिकशोफहृत् ||७||

स्निग्धाम्ललवणो वाते कोष्णः, शीतः पयोयुतः |

पित्ते, चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ||८||

 शणमूलकशिग्रूणां फलानि तिलसर्षपाः |

सक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् ||९||

चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः |

कपोतकङ्कगृध्राणां पुरीषाणि च दारणम् |

क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ||१०||

द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् |

यवगोधूममाषाणां चूर्णानि च समासतः ||११||

शाङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः |

शोधनानि कषायाणि वर्गश्चारग्वधादिकः ||१२||

अजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वया |

पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ||१३||

कटुत्रिकं यवक्षारो लवणानि मनःशिला |

कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा ||१४||

संशोधनीनां वर्तीनां द्रव्याण्येतानि निर्दिशेत् |

 एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् ||१५||

अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानि च |

जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् ||१६||

पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम् |

मयूरको राजवृक्षो निम्बः कोशातकी तिलाः ||१७||

बृहती कण्टकारी च हरितालं मनःशिला |

शोधनानि च योज्यानि तैले द्रव्याणि शोधने ||१८||

कासीसे सैन्धवे किण्वे वचायां रजनीद्वये |

शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् ||१९||

सालसारादिसारेषु पटोलत्रिफलासु च |

रसक्रिया विधातव्या शोधनी शोधनेषु च ||२०||

श्रीवेष्टके सर्जरसे सरले देवदारुणि |

सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् ||२१||

कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितः |

शृतः शीतकषायो वा रोपणार्थं प्रशस्यते ||२२||

सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा |

क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः ||२३||

समङ्गा सोमसरला सोमवल्कः सचन्दनः |

काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे ||२४||

पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता |

काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते ||२५||

कालानुसार्यागुरुणी हरिद्रे देवदारु च |

प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे ||२६||

कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया |

धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते ||२७||

प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च |

त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते ||२८||

त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च |

रसक्रियां रोपणार्थे विदधीत यथाक्रमम् ||२९||

अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला |

उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ||३०||

कासीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला |

कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ||३१||

फले शैरीषकारञ्जे धातुचूर्णानि यानि च |

व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ||३२||

समस्तं वर्गमर्धं वा यथालाभमथापि वा |

प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ||३३||

इति सुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः ||३७||

Last updated on May 24th, 2021 at 07:26 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English