सुश्रुतसंहिता ।
सूत्रस्थाने
त्रयस्त्रिंशत्तमोऽध्याय:
अथातोऽवारणीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम् |
रसायनाद्विना वत्स! तान् शृण्वेकमना मम ||३||
वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम् |
अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ||४||
अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः |
प्राणमांसक्षयः शोषस्तृष्णा च्छर्दिर्ज्वरस्तथा ||५||
अतीसारश्च मूर्च्छा च हिक्का श्वासस्तथैव च |
एतैरुपद्रवैर्जुष्टान् सर्वानेव विवर्जयेत् ||६||
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् |
नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ||७||
यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा |
पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ||८||
प्रभिन्नप्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् |
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ||९||
तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम् |
शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् ||१०||
वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च |
भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ||११||
प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् |
अश्मरी क्षपयत्याशु सिकता शर्करान्विता ||१२||
गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः |
हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ||१३||
पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् |
विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् ||१४||
यस्ताम्यति विसञ्ज्ञश्च शेते निपतितोऽपि वा |
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ||१५||
यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् |
नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् ||१६||
हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम् |
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ||१७||
आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च |
क्षीणशोणितमांसं च नरं नाशयति ज्वरः ||१८||
श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् |
विशेषेण नरं वृद्धमतीसारो विनाशयेत् ||१९|
शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् |
कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ||२०||
श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः |
भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः ||२१||
आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम् |
रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ||२२||
पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः |
पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति ||२३||
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः |
रक्तानां च दिशां द्रष्टा रक्तपित्ती विनश्यति ||२४||
अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः |
जागरिष्णुरसन्देहमुन्मादेन विनश्यति ||२५||
बहुशोऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम् |
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ||२६||
इति सुश्रुतसंहितायां सूत्रस्थानेऽवारणीयो नाम त्रयस्त्रिंशत्तमोऽध्यायः ||३३||
Last updated on May 24th, 2021 at 07:22 am