चरकसंहिता
चिकित्सास्थानम् ।
त्रिंशोऽध्याय: ।
अथातो योनिव्यापच्चिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
दिव्यतीर्थौषधिमतश्चित्रधातुशिलावत: ।
पुण्ये हिमवत: पार्श्वे सुरसिद्धर्षिसेविते ॥३॥
विहरन्तं तपोयोगात्तत्त्वज्ञानार्थदर्शिनम् ।
पुनर्वसुं जितात्मानमग्निवेशोऽनु पृष्टवान् ॥४॥
भगवन् !यदपत्यानां मूलं नार्य: परं नृणाम् ।
तद्विघातो गदैश्चासां क्रियते योनिमाश्रितै: ॥५॥
तस्मात्तेषां समुत्पत्तिमुत्पन्नानां च लक्षणम् ।
सौषधं श्रोतुमिच्छामि प्रजानुग्रहकाम्यया ॥६॥
इति शिष्येण पृष्टस्तु प्रोवाचर्षिवरोऽत्रिज: ।
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे ॥७॥
मिथ्याचारेण ता: स्त्रीणां प्रदुष्टेनार्तवेन च ।
जायन्ते बीजदोषाच्च दैवाच्च श्रुणु ता: पृथक् ॥८॥
वातलाहारचेष्टाया वातलाया: समीरण: ।
विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम् ॥९॥
स्तम्भं पिपीलिकासृप्तिमिव कर्कशतां तथा ।
करोति सुप्तिमायासं वातजांश्चापरान् गदान् ॥१०॥
सा स्यात् सशब्दरुक्फेनतनुरूक्षार्तवाऽनिलात् ।
व्यापत्कट्वम्ललवणक्षाराद्यै: पित्तजा भवेत् ॥११॥
दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा ।
भृशोष्णकुणपस्रावा योनि: स्यात्पित्तदूषिता ॥१२॥
कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रिया: ।
स कुर्यात् पिच्छिलां शीतां कण्डुग्रस्ताल्पवेदनाम् ॥१३॥
पाण्डुवर्णां तथा पाण्डुपिच्छिलार्तववाहिनीम् ।
समश्नन्त्या रसान् सर्वान्दूषयित्वा त्रयो मला: ॥१४॥
योनिगर्भाशयस्था: स्वैर्योनिं युञ्जन्ति लक्षणै: ।
सा भवेद्दाहशूलार्ता श्वेतपिच्छिलवाहिनी ॥१५॥
रक्तपित्तकरैर्नार्या रक्तं पित्तेन दूषितम् ।
अतिप्रवर्तते योन्यां लब्धे गर्भेऽपि सासृजा ॥१६॥
योनिगर्भाशयस्थं चेत् पित्तं संदूषयेदसृक् ।
साऽरजस्का मता कार्श्यवैवर्ण्यजननी भृशम् ॥१७॥
योन्यामधावनात् कण्डूं जाता: कुर्वन्ति जन्तव: ।
सा स्यादचरणा कण्ड्वा तयाऽतिनरकाङि्क्षणी ॥१८॥
पवनोऽतिव्यवायेन शोफसुप्तिरुज: स्त्रिया: ।
करोति कुपितो योनौ सा चातिचरणा मता ॥१९॥
मैथुनादतिबालाया: पृष्ठकट्यूरुवंक्षणम् ।
रुजन् दूषयते योनिं वायु: प्राक्चरणा हि सा ॥२०॥
गर्भिण्या: श्लेष्मलाभ्यासाच्छर्दिनि:श्वासनिग्रहात् ।
वायु: क्रुद्ध: कफं योनिमुपनीय प्रदूषयेत् ॥२१॥
पाण्डुं सतोदमास्रावं श्वेतं स्रवति वा कफम् ।
कफवातामयव्याप्ता सा स्याद्योनिरुपप्लुता ॥२२॥
पित्तलाया नृसंवासे क्षवथूद्गारधारणात् ।
पित्तसंमूर्च्छितो वायुर्योनिं दूषयति स्त्रिया: ॥२३॥
शूना स्पर्शाक्षमा सार्तिर्नीलपीतमसृक् स्रवेत् ।
श्रोणिवंक्षणपृष्ठार्तिज्वरार्ताया: परिप्लुता ॥२४॥
वेगोदावर्तनाद्योनिमुदावर्तयतेऽनिल: ।
सा रुगार्ता रज: कृच्छ्रेणोदावृत्तं विमुञ्चति ॥२५॥
आर्तवे सा विमुक्ते तु तत्क्षणं लभते सुखम् ।
रसजो गमनादूर्ध्वं ज्ञेयोदावर्तिनी बुधै: ॥२६॥
अकाले वाहमानाया गर्भेण पिहितोऽनिल: ।
कर्णिकां जनयेद्योनौ श्लेष्मरक्तेन मूर्च्छित: ॥२७॥
रक्तमार्गावरोधिन्या सा तया कर्णिनी मता ।
रोक्ष्याद्वायुर्यदा गर्भं जातं जातं विनाशयेत् ॥२८॥
दुष्टशोणितजं नार्या: पुत्रघ्नी नाम सा मता ।
व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीडित: ॥२९॥
वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थित: ।
वक्रयत्याननं योन्या: साऽस्थिमांसानिलार्तिभि: ॥३०॥
भृशार्तिर्मैथुनाशक्ता योनिरन्तर्मुखी मता ।
गर्भस्थाया: स्त्रिया रौक्ष्याद्वायुर्योनिं प्रदूषयन् ॥३१॥
मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा ।
व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिल: ॥३२॥
कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च ।
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम् ॥३३॥
सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी ।
बीजदोषात्तु गर्भस्थमारुतोपहताशया ॥३४॥
नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा ।
विषमं दु:खशय्यायां मैथुनात् कुपितोऽनिल: ॥३५॥
गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रिया: ।
असंवृतमुखी सार्ती रूक्षफेनास्रवाहिनी ॥३६॥
मांसोत्सन्ना महायोनि: पर्ववंक्षणशूलिनी ।
इत्येतैर्लक्षणै: प्रोक्ता विंशतिर्योनिजा गदा: ॥३७॥
न शुक्रं धारयत्येभिर्दोषैर्योनिरुपद्रुता ।
तस्माद्गर्भं न गृह्णाति स्त्री गच्छत्यामयान् बहून् ॥३८॥
गुल्मार्श:प्रदरादींश्च वाताद्यैश्चातिपीडनम् ।
आसां षोडश यास्त्वन्त्या आद्ये द्वे पित्तदोषजे ॥३९॥
परिप्लुता वामिनी च वातपित्तात्मिके मते ।
कर्णिन्युपप्लुते वातकफाच्छेषास्तु वातजा: ॥४०॥
देहं वातादयस्तासां स्वैर्लिङ्गै: पीडयन्ति हि ।
स्नेहनस्वेदबस्त्यादि वातजास्वनिलापहम् ॥४१॥
कारयेद्रक्तपितघ्नं शीतं पित्तकृतासु च ।
श्लेष्मजासु च रूक्षोष्णं कर्म कुर्याद्विचक्षण: ॥४२॥
सन्निपाते विमिश्रं तु संसृष्टासु च कारयेत् ।
स्निग्धस्विन्नां तथा योनिं दु:स्थितां स्थापयेत्पुन: ॥४३॥
पाणिना नामयेज्जिह्मां संवृतां वर्धयेत् पुन: ।
प्रवेशयेन्नि:सृतां च विवृतां परिवर्तयेत् ॥४४॥
योनि: स्थानापवृत्ता हि शल्यभूता मता स्त्रिया: ।
सर्वां व्यापन्नयोनिं तु कर्मभिर्वमनादिभि: ॥४५॥
मृदुभि: पञ्चभिर्नारीं स्निग्धस्विन्नामुपाचरेत् ।
सर्वत: सुविशुद्धाया: शेषं कर्म विधीयते ॥४६॥
वातव्याधिहरं कर्म वातार्तानां सदा हितम् ।
औदकानूपजैर्मांसै: क्षीरै: सतिलतण्डुलै: ॥४७॥
सवातघ्नौषधैर्नाडीकुम्भीस्वेदैरुपाचरेत् ।
अक्तां लवणतैलेन साश्मप्रस्तरसङ्करै: ॥४८॥
स्विन्नां कोष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद्रसै: ।
बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत् ॥४९॥
स्थिरापयस्याजीवन्तीवीरर्षभकजीवकै: ।
श्रावणीपिप्पलीमुद्गपीलुमाषाख्यपर्णिभि: ॥५०॥
शर्कराक्षीरकाकोलीकाकनासाभिरेव च ।
पिष्टैश्चतुर्गुणक्षीरे सिद्धं पेयं यथाबलम् ॥५१॥
वातपित्तकृतान् रोगान् हत्वा गर्भं दधाति तत् ।
काश्मर्यत्रिफलाद्राक्षाकासमर्दपरूषकै: ॥५२॥
पुनर्नवाद्विरजनीकाकनासासहाचरै: ।
शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात् ॥५३॥
साधितं योनिवातघ्नं गर्भदं परमं पिबेत् ।
पिप्पलीकुञ्चिकाजाजीवृषकं सैन्धवं वचाम् ॥५४॥
यवक्षाराजमोदे च शर्करां चित्रकं तथा ।
पिष्ट्वा सर्पिषि भृष्टानि पाययेत प्रसन्नया ॥५५॥
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये ।
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम् ॥५६॥
पिबेत् सलवणैर्मद्यै: पिप्पलीकुञ्चिके तथा ।
रास्नाश्वदंष्ट्रावृषकै: पिबेच्छूले शृतं पय: ॥५७॥
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचयेत् ।
सैन्धवं तगरं कुष्ठं बृहती देवदारु च ॥५८॥
समांशै: साधितं कल्कैस्तैलं धार्यं रुजापहम् ।
गुडूचीमालतीरास्नाबलामधुकचित्रकै: ॥५९॥
निदिग्धिकादेवदारुयूथिकाभिश्च कार्षिकै: ।
तैलप्रस्थं गवां मूत्रे क्षीरे च द्विगुणे पचेत् ॥६०॥
वातार्ताया: पिचुं दद्याद्योनौ च प्रणयेत्तत: ।
वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रिया: ॥६१॥
(उष्णा: स्निग्धा: प्रकर्तव्यास्तैलानि स्नेहनानि च ।)
हिंस्राकल्कं तु वातार्ता कोष्णमभ्यज्य धारयेत् ।
पञ्चवल्कस्य पित्तार्ता श्यामादीनां कफातुरा ॥६२॥
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रिया: ।
शीता: पित्तहरा: कार्या: स्नेहनार्थं घृतानि च ॥६३॥
(पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा ।)
शतावरीमूलतुलाश्चतस्र: संप्रपीडयेत् ॥६४॥
रसेन क्षीरतुल्येन पचेत्तेन घृताढकम् ।
जीवनीयै: शतावर्या मृद्वीकाभि: परूषकै: ॥६५॥
पिष्टै: प्रियालैश्चाक्षांशैर्द्वियष्टिमधुकैर्भिषक् ।
सिद्धे शीते च मधुन: पिप्पल्याश्च पलाष्टकम् ॥६६॥
सितादशपलोन्मिश्राल्लिह्यात् पाणितलं तत: ।
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत् ॥६७॥
क्षतं क्षयं रक्तपित्तं कासं श्वासं हलीमकम् ।
कामलां वातरक्तं च वीसर्पं हृच्छिरोग्रहम् ॥६८॥
उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत् ।
इति बृहच्छतावरीघृतम् ।
एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम् ॥६९॥
गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम् ।
योन्यां श्लेष्मप्रदुष्टायां वर्ति: संशोधनी हिता ॥७०॥
वाराहे बहुश: पित्ते भावितैर्लक्तकै: कृता ।
भावितं पयसाऽर्कस्य यवचूर्णं ससैन्धवम् ॥७१॥
वर्ति: कृता मुहुर्धार्या तत: सेच्या सुखाम्बुना ।
पिप्पल्या मरिचैर्माषै: शताह्वाकुष्ठसैन्धवै: ॥७२॥
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधनी ।
उदुम्बरशलाटूनां द्रोणमब्द्रोणसंयुतम् ॥७३॥
सपञ्चवल्ककुलकमालतीनिम्बपल्लवम् ।
निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत् ॥७४॥
लाक्षाधवपलाशत्वङ्निर्यासै: शाल्मलेन च ।
पिष्टै: सिद्धस्य तैलस्य पिचुं योनौ निधापयेत् ॥७५॥
सशर्करै: कषायैश्च शीतै: कुर्वीत सेचनम् ।
पिच्छिला विवृता कालदुष्टा योनिश्च दारुणा ॥७६॥
सप्ताहाच्छुध्यति क्षिप्रमपत्यं चापि विन्दति ।
उदुम्बरस्य दुग्धेन षट्कृत्वो भावितात्तिलात् ॥७७।
तैलं क्वाथेन तस्यैव सिद्धं धार्यं च पूर्ववत् ।
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलै: ॥७८॥
जम्ब्वाम्रमध्यकासीसलोध्रकट्फलतिन्दुकै: ।
सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभि: ॥७९॥
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत् ।
तैलप्रस्थं पिचुं दद्याद्योनौ च प्रणयेत्तत: ॥८०॥
कटीपृष्ठत्रिकाभ्यङ्गं स्नेहबस्तिं च दापयेत् ।
पिच्छिला स्राविणी योनिर्विप्लुतोपप्लुता तथा ॥८१॥
उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी ।
करीरधवनिम्बार्कवेणुकोशाम्रजाम्बवै: ॥८२॥
जिङ्गिनीवृषमूलानां क्वाथैर्मार्द्वीकसीधुभि: ।
सशुक्तैर्धावनं मिश्रैर्योन्यास्रावविनाशनम् ॥८३॥
कुर्यात् सतक्रगोमूत्रशुक्तैर्वा त्रिफलारसै: ।
पिप्पल्ययोरज:पथ्याप्रयोगा मधुना हिता: ॥८४॥
श्लेष्मलायां कटुप्राया: समूत्रा बस्तयो हिता: ।
पित्ते समधुरक्षीरा वाते तैलाम्लसंयुता: ॥८५॥
सन्निपातसमुत्थाया: कर्म साधारणं हितम् ।
रक्तयोन्यामसृग्वर्णैरनुबन्धं समीक्ष्य च ॥८६॥
तत: कुर्याद्यथादोषं रक्तस्थापनमौषधम् ।
तिलचूर्णं दधि घृतं फाणितं शौकरी वसा ॥८७॥
क्षौद्रेण संयुतं पेयं वातासृग्दरनाशनम् ।
वराहस्य रसो मेद्य: सकौलत्थोऽनिलाधिके ॥८८॥
शर्कराक्षौद्रयष्ट्याह्वनागरैर्वा युतं दधि ।
पयस्योत्पलशालूकबिसकालीयकाम्बुदम् ॥८९॥
सपय: शर्कराक्षौद्रं पैत्तिकेऽसृग्दरे पिबेत् ।
पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भेदं रसाञ्जनम् ॥९०॥
अम्बष्ठा शाल्मलीश्लेषं समङ्गां वत्सकत्वचम् ।
बाह्लीकातिविषे बिल्वं मुस्तं लोध्रं सगैरिकम् ॥९१॥
कट्वङ्गं मरिचं शुण्ठीं मृद्वीकां रक्तचन्दनम् ।
कट्फलं वत्सकानन्ताधातकीमधुकार्जुनम् ॥९२॥
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत् ।
तानि क्षौद्रेण संयोज्य पिबेत्तण्डुलवारिणा ॥९३॥
अर्श:सु चातिसारेषु रक्तं यच्चोपवेश्यते ।
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ॥९४॥
योनिदोषं रजोदोषं श्वेतं नीलं सपीतकम् ।
स्त्रीणां श्यावारुणं यच्च प्रसह्य विनिवर्तयेत् ॥९५॥
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ।
इति पुष्यानुगचूर्णम् ।
तण्डुलीयकमूलं तु सक्षौद्रं तण्डुलाम्बुना ॥९६॥
रसाञ्जनं च लाक्षां च छागेन पयसा पिबेत् ।
पत्रकल्कौ घृते भृष्टौ राजादनकपित्थयो: ॥९७॥
पित्तानिलहरौ, पैत्ते सर्वथैवास्रपित्तजित् ।
मधुकं त्रिफलां लोध्रं मुस्तं सौराष्ट्रिकां मधु ॥९८॥
मद्यैर्निम्बगुडूच्यौ वा कफजेऽसृग्दरे पिबेत् ।
विरेचनं महातिक्तं पैत्तिकेऽसृग्दरे पिबेत् ॥९९॥
हितं गर्भपरिस्रावे यच्चोक्तं तच्च कारयेत् ।
काश्मर्यकुटजक्वाथसिद्धमुत्तरबस्तिना ॥१००॥
रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम् ।
मृगाजाविवराहासृग्दध्यम्लफलसर्पिषा ॥१०१॥
अरजस्का पिबेत् सिद्धं जीवनीयै: पयोऽपि वा ।
कर्णिन्यचरणाशुष्कयोनिप्राक्चरणासु च ॥१०२॥
कफवाते च दातव्यं तैलमुत्तरबस्तिना ।
गोपित्ते मत्स्यपित्ते वा क्षौमं त्रि:सप्तभावितम् ॥१०३॥
मधुना किण्वचूर्णं वा दद्यादचरणापहम् ।
स्रोतसां शोधनं कण्डूक्लेदशोफहरं च तत् ॥१०४॥
वातघ्नै: शतपाकैश्च तैलै: प्रागतिचारिणी ।
आस्थाप्या चानुवास्या च स्वेद्या चानिलसूदनै: ॥१०५॥
स्नेहद्रव्यैस्तथाऽऽहारैरुपनाहैश्च युक्तित: ।
शताह्वायवगोधूमकिण्वकुष्ठप्रियङ्गुभि: ॥१०६॥
बलाखुपर्णिकाश्र्याह्वै: संयावो धारण: स्मृत: ।
वामिन्युपप्लुतानां च स्नेहस्वेदादिक: क्रम: ॥१०७॥
कार्यस्तत: स्नेहपिचुस्तत: संतर्पणं भवेत् ।
शल्लकीजिङ्गिनीजम्बूधवत्वक्पञ्चवल्कलै: ॥१०८॥
कषायै: साधित: स्नेहपिचु: स्याद्विप्लुतापह: ।
कर्णिन्यां वर्तिका कुष्ठपिप्पल्यर्काग्रसैन्धवै: ॥१०९॥
बस्तमूत्रकृता धार्या सर्वं च श्लेष्मनुद्धितम् ।
त्रैवृतं स्नेहनं स्वेदो ग्राम्यानूपौदका रसा: ॥११०॥
दशमूलपयोबस्तिश्चोदावर्तानिलार्तिषु ।
त्रैवृतेनानुवास्या च बस्तिश्चोत्तरसंज्ञित: ॥१११॥
एतदेव महायोन्यां स्रस्तायां च विधीयते ।
वसा ऋक्षवराहाणां घृतं च मधुरै: शृतम् ॥११२॥
पूरयित्वा महायोनिं बध्नीयात् क्षौमलक्तकै: ।
प्रस्रस्तां सर्पिषाऽभ्यज्य क्षीरस्विन्नां प्रवेश्य च ॥११३॥
बध्नीयाद्वेशवारस्य पिण्डेनामूत्रकालत: ।
यच्च वातविकाराणां कर्मोक्तं तच्च कारयेत् ॥११४॥
सर्वव्यापस्तु मतिमान्महायोन्यां विशेषत: ।
नहि वातादृते योनिर्नारीणां संप्रदुष्यति ॥११५॥
शमयित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम् ।
रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत् ॥११६॥
जलेनामलकीबीजं कल्कं वा ससितामधुम् ।
मधुनाऽऽमलकाच्चूर्णं रसं वा लेहयेच्च ताम् ॥११७॥
न्यग्रोधत्वक्कषायेण लोध्रकल्कं तथा पिबेत् ।
आस्रावे क्षौमपट्टं वा भावितं तेन धारयेत् ॥११८॥
प्लक्षत्वक्चूर्णपिण्डं वा धारयेन्मधुना कृतम् ।
योन्या स्नेहाक्तया लोध्रप्रियङ्गुमधुकस्य वा ॥११९॥
धार्या मधुयुता वर्ति: कषायाणां च सर्वश: ।
स्रावच्छेदार्थमभ्यक्तां धूपयेद्वा घृताप्लुतै: ॥१२०॥
सरलागुग्गुलुयवै: सतैलकटुमत्स्यकै: ।
कासीसं त्रिफला कांक्षी समङ्गाऽम्रास्थि धातकी ॥१२१॥
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारक: ।
पलाशसर्जजम्बूत्वक्समङ्गामोचधातकी: ॥१२२॥
सपिच्छिलापरिक्लिन्नास्तम्भन: कल्क इष्यते ।
स्तब्धानां कर्कशानां च कार्यं मार्दवकारकम् ॥१२३॥
धारयेद्वेशवारं वा पायसं कृशरां तथा ।
दुर्गन्धानां कषाय: स्यात्तौवर: कल्क एव वा ॥१२४॥
चूर्णं वा सर्वगन्धानां पूतिगन्धापकर्षणम् ।
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषित: ॥१२५॥
अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति ।
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम् ॥१२६॥
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत् ।
भवन्ति चात्र–
सलिङ्गा व्यापदो योने: सनिदानचिकित्सिता: ॥१२७॥
उक्ता विस्तरत: सम्यङ्मुनिना तत्त्वदर्शिना ।
पुनरेवाग्निवेशस्तु पप्रच्छ भिषजां वरम् ॥१२८॥
आत्रेयमुपसङ्गम्य शुक्रदोषास्त्वयाऽनघ !।
रोगाध्याये समुद्दिष्टा ह्यष्टौ पुंसामशेषत: ॥१२९॥
तेषां हेतुं भिषक्श्रेष्ठ ! दुष्टादुष्टस्य चाकृतिम् ।
चिकित्सितं च कार्त्स्न्येन क्लैब्यं यच्च चतुर्विधम् ॥१३०॥
उपद्रवेषु योनीनां प्रदरो यच्च कीर्तित: ।
तेषां निदानं लिङ्गं च चिकित्सां चैव तत्त्वत: ॥१३१॥
समासव्यासभेदेन प्रब्रूहि भिषजांवर !।
तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गव: ॥१३२॥
बीजं यस्माद्व्यवाये तु हर्षयोनिसमुत्थितम् ।
शुक्रं पौरुषमित्युक्तं तस्माद्वक्ष्यामि तच्छृणु ॥१३३॥
यथा बीजमकालाम्बुकृमिकीटाग्निदूषितम् ।
न विरोहति संदुष्टं तथा शुक्रं शरीरिणाम् ॥१३४॥
अतिव्यवायाद्व्यायामादसात्म्यानां च सेवनात् ।
अकाले वाऽप्ययोनौ वा मैथुनं न च गच्छत: ॥१३५॥
रूक्षतिक्तकषायातिलवणाम्लोष्णसेवनात् ।
नारीणामरसज्ञानां गमनाज्जरया तथा ॥१३६॥
चिन्ताशोकादविस्रम्भाच्छस्त्रक्षाराग्निविभ्रमात् ।
भयात्क्रोधादभीचाराद्व्याधिभि: कर्शितस्य च ॥१३७॥
वेगाघातात् क्षताच्चापि धातूनां संप्रदूषणात् ।
दोषा: पृथक् समस्ता वा प्राप्य रेतोवहा: सिरा: ॥१३८॥
शुक्रं संदूषयन्त्याशु तद्वक्ष्यामि विभागश: ।
फेनिलं तनु रूक्षं च विवर्णं पूति पिच्छिलम् ॥१३९॥
अन्यधातूपसंसृष्टमवसादि तथाऽष्टमम् ।
फेनिलं तनु रूक्षं च कृच्छ्रेणाल्पं च मारुतात् ॥१४०॥
भवत्युपहतं शुक्रं न तद्गर्भाय कल्पते ।
सनीलमथवा पीतमत्युष्णं पूतिगन्धि च ॥१४१॥
दहल्लिङ्गं विनिर्याति शुक्रं पित्तेन दूषितम् ।
श्लेष्मणा बद्धमार्गं तु भवत्यत्यर्थपिच्छिलम् ॥१४२॥
स्त्रीणामत्यर्थगमनादभिघातात् क्षतादपि ।
शुक्रं प्रवर्तते जन्तो: प्रायेण रुधिरान्वयम् ॥१४३॥
वेगसंधारणाच्छुक्रं वायुना विहतं पथि ।
कृच्छ्रेण याति ग्रथितमवसादि तथाऽऽष्टमम् ॥१४४॥
इति दोषा: समाख्याता: शुक्रस्याष्टौ सलक्षणा: ।
स्निग्धं घनं पिच्छिलं च मधुरं चाविदाहि च ॥१४५॥
रेत: शुद्धं विजानीयाच्छ्वेतं स्फटिकसन्निभम् ।
वाजीकरणयोगैस्तैरुपयोगसुखैर्हितै: ॥१४६॥
रक्तपित्तहरैर्योगैर्योनिव्यापदिकैस्तथा ।
दुष्टं यदा भवेच्छुक्रं तदा तत् समुपाचरेत् ॥१४७॥
घृतं च जीवनीयं यच्च्यवनप्राश एव च ।
गिरिजस्य प्रयोगश्च रेतोदोषानपोहति ॥१४८॥
वातान्विते हिता: शुक्रे निरूहा: सानुवासना: ।
अभयामलकीयं च पैत्ते शस्तं रसायनम् ॥१४९॥
मागध्यमृतलोहानां त्रिफलाया रसायनम् ।
कफोत्थितं शुक्रदोषं हन्याद्भल्लातकस्य च ॥१५०॥
यदन्यधातुसंसृष्टं शुक्रं तद्वीक्ष्य युक्तित: ।
यथादोषं प्रयुञ्जीत दोषाधातुभिषग्जितम् ॥१५१॥
सर्पि: पयो रसा: शालिर्यवगोधूमषष्टिका: ।
प्रशस्ता: शुक्रदोषेषु बस्तिकर्म विशेषत: ॥१५२॥
इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम् ।
रेतोदोषोद्भवं क्लैब्यं यस्माच्छुद्ध्यैव सिध्यति ॥१५३॥
ततो वक्ष्यामि ते सम्यगग्निवेश ! यथातथम् ।
बीजध्वजोपघाताभ्यां जरया शुक्रसंक्षयात् ॥१५४॥
क्लैब्यं संपद्यते तस्य शृणु सामान्यलक्षणम् ।
सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम् ॥१५५॥
न याति लिङ्गशैथिल्यात् कदाचिद्याति वा यदि ।
श्वासार्त: स्विन्नगात्रश्च मोघसङ्कल्पचेष्टित: ॥१५६॥
म्लानशिश्नश्च निर्बीज: स्यादेतत् क्लैब्यलक्षणम् ।
सामान्यलक्षणं ह्येतद्विस्तरेण प्रवक्ष्यते ॥१५७॥
शीतरूक्षाल्पसंक्लिष्टविरुद्धाजीर्णभोजनात् ।
शोकचिन्ताभयत्रासात् स्त्रीणां चात्यर्थसेवनात् ॥१५८॥
अभिचारादविस्रम्भाद्रसादीनां च संक्षयात् ।
वातादीनां च वैषम्यात्तथैवानशनाच्छ्रमात् ॥१५९॥
नारीणामरसज्ञत्वात् पञ्चकर्मापचारत: ।
बीजोपघाताद्भवति पाण्डुवर्ण: सुदुर्बल: ॥१६०॥
अल्पप्राणोऽल्पहर्षश्च प्रमुदासु भवेन्नर: ।
हृत्पाण्डुरोगतमककामलाश्रमपीडित: ॥१६१॥
छर्द्यतीसारशूलार्त: कासज्वरनिपीडित: ।
बीजोपघातजं क्लैब्यं ध्वजभङ्गकृतं शृणु ॥१६२॥
अत्यम्ललवणक्षारविरुद्धासात्म्यभोजनात् ।
अत्यम्बुपानाद्विषमात् पिष्टान्नगुरुभोजनात् ॥१६३॥
दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात् ।
कन्यानां चैव गमनादयोनिगमनादपि ॥१६४॥
दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम् ।
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् ॥१६५॥
ईदृशीं प्रमदां मोहाद्यो गच्छेत् कामहर्षित: ।
चतुष्पदाभिगमनाच्छेफसश्चाभिघातत: ॥१६६॥
अधावनाद्वा मेढ्रस्य शस्त्रदन्तनखक्षतात् ।
काष्ठप्रहारनिष्पेषाच्छूकानां चातिसेवनात् ॥१६७॥
रेतसश्च प्रतीघाताद्ध्वजभङ्ग: प्रवर्तते ।
(भवन्ति यानि रूपाणि तस्य वक्ष्याम्यत: परम् ।)
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते ॥१६८॥
स्फोटाश्च तीव्रा जायन्ते लिङ्गपाको भवत्यपि ।
मांसवृद्धिर्भवेच्चास्य व्रणा: क्षिप्रं भवन्त्यपि ॥१६९॥
पुलाकोदकसङ्काश: स्राव: श्यावारुणप्रभ: ।
वलयीकुरुते चापि कठिनश्च परिग्रह: ॥१७०॥
ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते ।
रक्तं कृष्णं स्रवेच्चापि नीलमाविललोहितम् ॥१७१॥
अग्निनेव च दग्धस्य तीव्रो दाह: सवेदन: ।
बस्तौ वृषणयोर्वाऽपि सीवन्यां वङ्क्षणेषु च ॥१७२॥
कदाचित्पिच्छिलो वाऽपि पाण्डु: स्रावश्च जायते ।
श्वयथुर्जायते मन्द: स्तिमितोऽल्पपरिस्रव: ॥१७३॥
चिराच्च पाकं व्रजति शीघ्रं वाऽथ प्रमुच्यते ।
जायन्ते क्रिमयश्चापि क्लिद्यते पूतिगन्धि च ॥१७४॥
विशीर्यते मणिश्चास्य मेढ्रं मुष्कावथापि च ।
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम् ॥१७५॥
एतं पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते ।
क्लैब्यं जरासंभवं हि प्रवक्ष्याम्यथ तच्छृणु ॥१७६॥
जघन्यमध्यप्रवरं वयस्त्रिविधमुच्यते ।
अतिप्रवयसां शुक्रं प्रायश: क्षीयते नृणाम् ॥१७७॥
रसादीनां संक्षयाच्च तथैवावृष्यसेवनात् ।
बलवीर्येन्द्रियाणां च क्रमेणैव परिक्षयात् ॥१७८॥
परिक्षयादायुषश्चाप्यनाहाराच्छ्रमात् क्लमात् ।
जरासंभवजं क्लैब्यमित्येतैर्हेतुभिर्नृणाम् ॥१७९॥
जायते तेन सोऽत्यर्थं क्षीणधातु: सुदुर्बल: ।
विवर्णो दुर्बलो दीन: क्षिप्रं व्याधिमथाश्नुते ॥१८०॥
एतज्जरासंभवं हि चतुर्थं क्षयजं शृणु ।
अतीव चिन्तानाच्चैव शोकात्क्रोधाद्भयात्तथा ॥१८१॥
ईर्ष्योत्कण्ठामदोद्वेगान् सदा विशति यो नर: ।
कृशो वा सेवते रूक्षमन्नपानं तथौषधम् ॥१८२॥
दुर्बलप्रकृतिश्चैव निराहारो भवेद्यदि ।
असात्म्यभोजनाच्चापि हृदये यो व्यवस्थित: ॥१८३॥
रस: प्रधानधातुर्हि क्षीयेताशु ततो नृणाम् ।
रक्तादयश्च क्षीयन्ते धातवस्तस्य देहिन: ॥१८४॥
शुक्रावसानास्तेभ्योऽपि शुक्रं धाम परं मतम् ।
चेतसो वाऽतिहर्षेण व्यवायं सेवतेऽति य: ॥१८५॥
तस्याशु क्षीयते शुक्रं तत: प्राप्नोति संक्षयम् ।
घोरं व्याधिमवाप्नोति मरणं वा स गच्छति ॥१८६॥
शुक्रं तस्माद्विशेषेण रक्ष्यमारोग्यमिच्छता ।
एवं निदानलिङ्गाभ्यामुक्तं क्लैब्यं चतुर्विधम् ॥१८७॥
केचित् क्लैब्ये त्वसाध्ये द्वे ध्वजभङ्गक्षयोद्भवे ।
वदन्ति शेफसश्छेदाद्वृषणोत्पाटनेन च ॥१८८॥
मातापित्रोर्बीजदोषादशुभैश्चाकृतात्मन: ।
गर्भस्थस्य यदा दोषा: प्राप्य रेतोवहा: सिरा: ॥१८९॥
शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपहन्यते ।
तत्र संपूर्णसर्वाङ्ग: स भवत्यपुमान् पुमान् ॥१९०॥
एते त्वसाध्या व्याख्याता: सन्निपातसमुच्छ्रयात् ।
चिकित्सितमतस्तूर्ध्वं समासव्यासत: शृणु ॥१९१॥
शुक्रदोषेषु निर्दिष्टं भेषजं यन्मयाऽनघ !।
क्लैब्योपशान्तये कुर्यात् क्षीणक्षतहितं च यत् ॥१९२॥
बस्तय: क्षीरसर्पींषि वृष्ययोगाश्च ये मता: ।
रसायनप्रयोगाश्च सर्वानेतान् प्रयोजयेत् ॥१९३॥
समीक्ष्य देहदोषाग्निबलं भेषजकालवित् ।
व्यवायहेतुजे क्लैब्ये तथा धातुविपर्ययात् ॥१९४॥
दैवव्यपाश्रयं चैव भेषजं चाभिचारजे ।
समासेनैतदुद्दिष्टं भेषजं क्लैब्यशान्तये ॥१९५॥
विस्तरेण प्रवक्ष्यामि क्लैब्यानां भेषजं पुन: ।
सुस्विन्नस्निग्धगात्रस्य स्नेहयुक्तं विरेचनम् ॥१९६॥
अन्नाशनं तत: कुर्यादथवाऽऽस्थापनं पुन: ।
प्रदद्यान्मतिमान् वैद्यस्ततस्तमनुवासयेत् ॥१९७॥
पलाशैरण्डमुस्ताद्यै: पश्चादास्थापयेत्तत: ।
वाजीकरणयोगाश्च पूर्वं ये समुदाहृता: ॥१९८॥
भिषजा ते प्रयोज्या: स्यु: क्लैब्ये बीजोपघातजे ।
ध्वजभङ्गकृतं क्लैब्यं ज्ञात्वा तस्याचरेत् क्रियाम् ॥१९९॥
प्रदेहान् परिषेकांश्च कुर्याद्वा रक्तमोक्षणम् ।
स्नेहपानं च कुर्वीत सस्नेहं च विरेचनम् ॥२००॥
अनुवासं तत: कुर्यादथवाऽऽस्थापनं पुन: ।
व्रणवच्च क्रिया: सर्वास्तत्र कुर्याद्विचक्षण: ॥२०१॥
जरासंभवजे क्लैब्ये क्षयजे चैव कारयेत् ।
स्नेहस्वेदोपपन्नस्य सस्नेहं शोधनं हितम् ॥२०२॥
क्षीरसर्पिर्वृष्ययोगा बस्तयश्चैव यापना: ।
रसायनप्रयोगाश्च तयोर्भेषजमुच्यते ॥२०३॥
विस्तरेणैतदुद्दिष्टं क्लैब्यानां भेषजं मया ।
य: पूर्वमुक्त: प्रदर: शृणु हेत्वादिभिस्तु तम् ॥२०४॥
याऽत्यर्थं सेवते नारी लवणाम्लगुरूणि च ।
कटून्यथ विदाहीनि स्निग्धानि पिशितानि च ॥२०५॥
ग्राम्यौदकानि मेद्यानि कृशरां पायसं दधि ।
शुक्तमस्तुसुरादीनि भजन्त्या: कुपितोऽनिल: ॥२०६॥
रक्तं प्रमाणमुत्क्रम्य गर्भाशयगता: सिरा: ।
रजोवहा: समाश्रित्य रक्तमादाय तद्रज: ॥२०७॥
यस्माद्विवर्धयत्याशु रसभावाद्विमानता ।
तस्मादसृग्दरं प्राहुरेतत्तन्त्रविशारदा: ॥२०८॥
रज: प्रदीर्यते यस्मात् प्रदरस्तेन स स्मृत: ।
सामान्यत: समुद्दिष्टं कारणं लिङ्गमेव च ॥२०९॥
चतुर्विधं व्यासतस्तु वाताद्यै: सन्निपातत: ।
अत: परं प्रवक्ष्यामि हेत्वाकृतिभिषग्जितम् ॥२१०॥
रूक्षादिभिर्मारुतस्तु रक्तमादाय पूर्ववत् ।
कुपित: प्रदरं कुर्याल्लक्षणं तस्य मे शृणु ॥२११॥
फेनिलं तनु रूक्षं च श्यावं चारुणमेव च ।
किंशुकोदकसङ्काशं सरुजं वाऽथ नीरुजम् ॥२१२॥
कटिवङ्क्षणहृत्पार्श्वपृष्ठश्रोणिषु मारुत: ।
कुरुते वेदनां तीव्रामेतद्वातात्मकं विदु: ॥२१३॥
अम्लोष्णलवणक्षारै: पित्तं प्रकुपितं यदा ।
पूर्ववत् प्रदरं कुर्यात् पैत्तिकं लिङ्गत: शृणु ॥२१४॥
सनीलमथवा पीतमत्युष्णमसितं तथा ।
नितान्तरक्तं स्रवति मुहुर्मुहुरथार्तिमत् ॥२१५॥
दाहरागतृषामोहज्वरभ्रमसमायुतम् ।
असृग्दरं पैत्तिकं स्याच्छ्लैष्मिकं तु प्रवक्ष्यते ॥२१६॥
गुर्वादिभिर्हेतुभिश्च पूर्ववत् कुपित: कफ: ।
प्रदरं कुरुते तस्य लक्षणं तत्त्वत: शृणु ॥२१७॥
पिच्छिलं पाण्डुवर्णं च गुरु स्निग्धं च शीतलम् ।
स्रवत्यसृक् श्लेष्मलं च घनं मन्दरुजाकरम् ॥२१८॥
छर्द्यरोचकहृल्लासश्वासकाससमन्वितम् ।
(वक्ष्यते क्षीरदोषाणां सामान्यमिह कारणम् ॥२१९॥
यत्तदेव त्रिदोषस्य कारणं प्रदरस्य तु ।)
त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम् ॥२२०॥
नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता ।
सर्वहेतुसमाचारादतिवृद्धस्तदाऽनिल: ॥२२१॥
रक्तमार्गेण सृजति प्रत्यनीकबलं कफम् ।
दुर्गन्धं पिच्छिलं पीतं विदग्धं पित्ततेजसा ॥२२२॥
वसां मेदश्च यावद्धि समुपादाय वेगवान् ।
सृजत्यपत्यमार्गेण सर्पिर्मज्जवसोपमम् ॥२२३॥
शश्वत् स्रवत्यथास्रावं तृष्णादाहज्वरान्विताम् ।
क्षीणरक्तां दुर्बलां स तामसाध्यां विवर्जयेत् ॥२२४॥
मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च ।
नैवातिबहु नात्यल्पमार्तवं शुद्धमादिशेत् ॥२२५॥
गुञ्जाफलसवर्णं च पद्मालक्तकसन्निभम् ।
इन्द्रगोपकसङ्काशमार्तवं शुद्धमादिशेत् ॥२२६॥
योनीनां वातलाद्यानां यदुक्तमिह भेषजम् ।
चतुर्णां प्रदराणां च तत् सर्वं कारयेद्भिषक् ॥२२७॥
रक्तातिसारिणां यच्च तथा शोणितपित्तिनाम् ।
रक्तार्शसां च यत् प्रोक्तं भेषजं तच्च कारयेत् ॥२२८॥
धात्रीस्तनस्तन्यसंपदुक्ता विस्तरत: पुरा ।
स्तन्यसंजननं चैव स्तन्यस्य च विशोधनम् ॥२२९॥
वातादिदुष्टे लिङ्गं च क्षीणस्य च चिकित्सितम् ।
तत्सर्वमुक्तं ये त्वष्टौ क्षीरदोषा: प्रकीर्तिता: ॥२३०॥
वातादिष्वेव तान् विद्याच्छास्त्रचक्षुर्भिषक्तम: ।
त्रिविधास्तु यत: शिष्यास्ततो वक्ष्यामि विस्तरम् ॥२३१॥
अजीर्णासात्म्यविषमविरुद्धात्यर्थभोजनात् ।
लवणाम्लकटुक्षारप्रक्लिन्नानां च सेवनात् ॥२३२॥
मन:शरीरसंतापादस्वप्नान्निशि चिन्तनात् ।
प्राप्तवेगप्रतीघातादप्राप्तोदीरणेन च ॥२३३॥
परमान्नं गुडकृतं कृशरां दधि मन्दकम् ।
अभिष्यन्दीनि मांसानि ग्राम्यानूपौदकानि च ॥२३४॥
भुक्त्वा भुक्त्वा दिवास्वप्नान्मद्यस्यातिनिषेवणात् ।
अनायासादभीघातात् क्रोधाच्चातङ्ककर्शनै: ॥२३५॥
दोषा: क्षीरवहा: प्राप्य सिरा: स्तन्यं प्रदूष्य च ।
कुर्युरष्टविधं भूयो दोषतस्तन्निबोध मे ॥२३६॥
वैरस्यं फेनसङ्घातो रौक्ष्यं चेत्यनिलात्मके ।
पित्ताद्वैवर्ण्यदौर्गन्ध्ये स्नेहपैच्छिल्यगौरवम् ॥२३७॥
कफाद्भवति रूक्षाद्यैरनिल: स्वै: प्रकोपणै: ।
क्रुद्ध: क्षीराशयं प्राप्य रसं स्तन्यस्य दूषयेत् ॥२३८॥
विरसं वातसंसृष्टं कृशीभवति तत् पिबन् ।
न चास्य स्वदते क्षीरं कृच्छ्रेण च विवर्धते ॥२३९॥
तथैव वायु: कुपित: स्तन्यमन्तर्विलोडयन् ।
करोति फेनसङ्घातं तत्तु कृच्छ्रात् प्रवर्तते ॥२४०॥
तेन क्षामस्वरो बालो बद्धविण्मूत्रमारुत: ।
वातिकं शीर्षरोगं वा पीनसं वाऽधिगच्छति ॥२४१॥
पूर्ववत् कुपित: स्तन्ये स्नेहं शोषयतेऽनिल: ।
रूक्षं तत् पिबतो रौक्ष्याद्बलह्रास: प्रजायते ॥२४२॥
पित्तमुष्णादिभि: क्रुद्धं स्तन्याशयमभिप्लुतम् ।
करोति स्तन्यवैवर्ण्यं नीलपीतासितादिकम् ॥२४३॥
विवर्णगात्र: स्विन्न: स्यात्तृष्णालुर्भिन्नविट् शिशु: ।
नित्यमुष्णशरीरश्च नाभिनन्दति तं स्तनम् ॥२४४॥
पूर्ववत् कुपिते पित्ते दौर्गन्ध्यं क्षीरमृच्छति ।
पाण्ड्वामयस्तत्पिबत: कामला च भवेच्छिशो: ॥२४५॥
क्रुद्धो गुर्वादिभि: श्लेष्मा क्षीराशयगत: स्त्रिया: ।
स्नेहान्वितत्वात्तत्क्षीरमतिस्निग्धं करोति तु ॥२४६॥
छर्दन: कुन्थनस्तेन लालालुर्जायते शिशु: ।
नित्योपदिग्धै: स्रोतोभिर्निद्राक्लमसमन्वित: ॥२४७॥
श्वासकासपरीतस्तु प्रसेकतमकान्वित: ।
अभिभूय कफ: स्तन्यं पिच्छिलं कुरुते यदा ॥२४८॥
लालालु: शूनवक्त्राक्षिर्जड: स्यात्तत् पिबञ्छिशु: ।
कफ: क्षीराशयगतो गुरुत्वात् क्षीरगौरवम् ॥२४९॥
करोति गुरु तत् पीत्वा बालो हृद्रोगमृच्छति ।
अन्यांश्च विविधान्रोगान्कुर्यात्क्षीरसमाश्रितान् ॥२५०॥
क्षीरे वातादिभिर्दुष्टे संभवन्ति तदात्मका: ।
तत्रादौ स्तन्यशुद्ध्यर्थं धात्रीं स्नेहोपपादिताम् ॥२५१॥
संस्वेद्य विधिवद्वैद्यो वमनेनोपपादयेत् ।
वचाप्रियङ्गुयष्ट्याह्वफलवत्सकसर्षपै: ॥२५२॥
कल्कैर्निम्बपटोलानां क्वाथै: सलवणैर्वमेत् ।
सम्यग्वान्तां यथान्यायं कृतसंसर्जनां तत: ॥२५३॥
दोषकालबलापेक्षी स्नेहयित्वा विरेचयेत् ।
त्रिवृतामभयां वाऽपि त्रिफलारससंयुताम् ॥२५४॥
पाययेन्मधुसंयुक्तामभयां वाऽपि केवलाम् ।
(पाययेन्मूत्रसंयुक्तां विरेकार्थं च शास्रवित् ॥२५५॥)
सम्यग्विरिक्तां मतिमान् कृतसंसर्जनां पुन: ।
ततो दोषावशेषघ्नैरन्नपानैरुपाचरेत् ॥२५६॥
शालय: षष्टिका वा स्यु: श्यामाका भोजने हिता: ।
प्रियङ्गव: कोरदूषा यवा वेणुयवास्तथा ॥२५७॥
वंशवेत्रकलायाश्च शाकार्थे स्नेहसंस्कृता: ।
मुद्गान् मसूरान् यूषार्थे कुलत्थांश्च प्रकल्पयेत् ॥२५८॥
निम्बवेत्राग्रकुलकवार्ताकामलकै: शृतान् ।
सव्योषसैन्धवान् यूषान्दापयेत्स्तन्यशोधनान् ॥२५९॥
शशान् कपिञ्जलानेणान् संस्कृतांश्च प्रदापयेत् ।
शार्ङ्गेष्टासप्तपर्णत्वगश्वगन्धाशृतं जलम् ॥२६०॥
पाययेताथवा स्तन्यशुद्धये रोहिणीशृतम् ।
अमृतासप्तपर्णत्वक्क्वाथं चैव सनागरम् ॥२६१॥
किराततिक्तकक्वाथं श्लोकपादेरितान् पिबेत् ।
त्रीनेतान्स्तन्यशुद्ध्यर्थमिति सामान्यभेषजम् ॥२६२॥
कीर्तितं स्तन्यदोषाणां पृथगन्यं निबोधत ।
पाययेद्विरसक्षीरां द्राक्षामधुकसारिवा: ॥२६३॥
श्लक्ष्णपिष्टां पयस्यां च समालोड्य सुखाम्बुना ।
पञ्चकोलकुलत्थैश्च पिष्टैरालेपयेत् स्तनौ ॥२६४॥
शुष्कौ प्रक्षाल्य निर्दुह्यात्तथा स्तन्यं विशुध्यति ।
फेनसङ्घातवत्क्षीरं यस्यास्तां पाययेत् स्त्रियम् ॥२६५॥
पाठानागरशार्ङ्गेष्टामूर्वा: पिष्ट्वा सुखाम्बुना ।
अञ्जनं नागरं दारु बिल्वमूलं प्रियङ्गव: ॥२६६॥
स्तनयो: पूर्ववत् कार्यं लेपनं क्षीरशोधनम् ।
किराततिक्तकं शुण्ठीं सामृतां क्वाथयेद्भिषक् ॥२६७॥
तं क्वाथं पाययेद्धात्रीं स्तन्यदोषनिबर्हणम् ।
स्तनौ चालेपयेत् पिष्टैर्यवगोधूमसर्षपै: ॥१६८॥
षड्विरेकाश्रितीयोक्तैरौषधै: स्तन्यशोधनै: ।
रूक्षक्षीरा पिबेत् क्षीरं तैर्वा सिद्धं घृतं पिबेत् ॥२६९॥
पूर्ववज्जीवकाद्यं च पञ्चमूलं प्रलेपनम् ।
स्तनयो: संविधातव्यं सुखोष्णं स्तन्यशोधनम् ॥२७०॥
यष्टीमधुकमृद्वीकापयस्यासिन्धुवारिका: ।
शीताम्बुना पिबेत्कल्कं क्षीरवैवर्ण्यनाशनम् ॥२७१॥
द्राक्षामधुककल्केन स्तनौ चास्या: प्रलेपयेत् ।
प्रक्षाल्य वारिणा चैव निर्दुह्यात्तौ पुन: पुन: ॥२७२॥
विषाणिकाजशृङ्ग्यौ च त्रिफलां रजनीं वचाम् ।
पिबेच्छीताम्बुना पिष्ट्वा क्षीरदौर्गन्ध्यनाशिनीम् ॥२७३॥
लिह्याद्वाऽप्यभयाचूर्णं सव्योषं माक्षिकप्लुतम् ।
क्षीरदौर्गन्ध्यनाशार्थं धात्री पथ्याशिनी तथा ॥२७४॥
सारिवोशीरमञ्जिष्ठाश्लेष्मातककुचन्दनै: ।
पत्राम्बुचन्दनोशीरै: स्तनौ चास्या: प्रलेपयेत् ॥२७५॥
स्निग्धक्षीरा दारुमुस्तपाठा: पिष्ट्वा सुखाम्बुना ।
पीत्वा ससैन्धवा: क्षिप्रं क्षीरशुद्धिमवाप्नुयात् ॥२७६॥
पाययेत् पिच्छिलक्षीरां शार्ङ्गेष्टामभयां वचाम् ।
मुस्तनागरपाठाश्च पीता: स्तन्यविशोधना: ॥२७७॥
तक्रारिष्टं पिबेच्चापि यदुक्तं गुदजापहम् ।
विदारीबिल्वमधुकै: स्तनौ चास्या: प्रलेपयेत् ॥२७८॥
त्रायमाणामृतानिम्बपटोलत्रिफलाशृतम् ।
गुरुक्षीरा पिबेदाशु स्तन्यदोषविशुद्धये ॥२७९॥
पिबेद्वा पिप्पलीमूलचव्यचित्रकनागरम् ।
बलानागरशार्ङ्गेष्टामूर्वाभिर्लेपयेत् स्तनौ ॥२८०॥
पृश्निपर्णीपयस्याभ्यां स्तनौ चास्या: प्रलेपयेत् ।
अष्टावेते क्षीरदोषा हेतुलक्षणभेषजै: ॥२८१॥
निर्दिष्टा: क्षीरदोषोत्थास्तथोक्ता: केचिदामया: ।
दोषदूष्यमूलाश्चैव महतां व्याधयश्च ये ॥२८२॥
त एव सर्वे बालानां मात्रा त्वल्पतरा मता ।
निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम् ॥२८३॥
वाक्चेष्टयोरसामर्थ्यं वीक्ष्य बालेषु शास्त्रवित् ।
भेषजं स्वल्पमात्रं तु यथाव्याधि प्रयोजयेत् ॥२८४॥
मधुराणि कषायाणि क्षीरवन्ति मृदूनि च ।
प्रयोजयेद्भिषग्बाले मतिमानप्रमादत: ॥२८५॥
अत्यर्थस्निग्धरूक्षोष्णमम्लं कटुविपाकि च ।
गुरु चौषधपानान्नमेतद्बालेषु गर्हितम् ॥२८६॥
समासात् सर्वरोगाणामेतद्बालेषु भेषजम् ।
निर्दिष्टं शास्त्रविद्वैद्य: प्रविविच्य प्रयोजयेत् ॥२८७॥
भवन्ति चात्र–
इति सर्वविकाराणामुक्तमेतच्चिकित्सितम् ।
स्थानमेतद्धि तन्त्रस्य रहस्यं परमुत्तमम् ॥२८८॥
अस्मिन् सप्तदशाध्याया: कल्पा: सिद्धय एव च ।
नासाद्यन्तेऽग्निवेशस्य तन्त्रे चरकसंस्कृते ॥२८९॥
तानेतान् कापिलबलि: शेषान् दृढबलोऽकरोत् ।
तन्त्रस्यास्य महार्थस्य पूरणार्थं यथातथम् ॥२९०॥
रोगा येऽप्यत्र नोद्दिष्टा बहुत्वान्नामरूपत: ।
तेषामप्येतदेव स्याद्दोषादीन् वीक्ष्य भेषजम् ॥२९१॥
दोषदूष्यनिदानानां विपरीतं हितं ध्रुवम् ।
उक्तानुक्तान् गदान् सर्वान् सम्यग्युक्तं नियच्छति ॥२९२॥
देशकालप्रमाणानां सात्म्यासात्म्यस्य चैव हि ।
सम्यग्योगोऽन्यथा ह्येषां पथ्यमप्यन्यथा भवेत् ॥२९३॥
आस्यादामाशयस्थान् हि रोगान् नस्त:शिरोगतान् ।
गुदात् पक्वाशयस्थांश्च हन्त्याशु दत्तमौषधम् ॥२९४॥
शरीरावयवोत्थेषु विसर्पपिडकादिषु ।
यथादेशं प्रदेहादि शमनं स्याद्विशेषत: ॥२९५॥
दिनातुरौषधव्याधिजीर्णलिङ्गर्त्ववेक्षणम् ।
कालं विद्याद्दिनावेक्ष: पूर्वाह्णे वमनं यथा ॥२९६॥
रोग्यवेक्षो यथा प्रातर्निरन्नो बलवान् पिबेत् ।
भेषजं लघुपथ्यान्नैर्युक्तमद्यात्तु दुर्बल: ॥२९७॥
भैषज्यकालो भुक्तादौ मध्ये पश्चान्मुहुर्मुहु: ।
सामुद्गं भक्तसंयुक्तं ग्रासग्रासान्तरे दश ॥२९८॥
अपाने विगुणे पूर्वं, समाने मध्यभोजनम् ।
व्याने तु प्रातरशितमुदाने भोजनोत्तरम् ॥२९९॥
वायौ प्राणे प्रदुष्टे तु ग्रासग्रासान्तरिष्यते ।
श्वासकासपिपासासु त्ववचार्यं मुहुर्मुहु: ॥३००॥
सामुद्गं हिक्किने देयं लघुनाऽन्नेन संयुतम् ।
संभोज्यं त्वौषधं भोज्यैर्विचित्रैररुचौ हितम् ॥३०१॥
ज्वरे पेया: कषायाश्च क्षीरं सर्पिर्विरेचनम् ।
षडहे षडहे देयं कालं वीक्ष्यामयस्य च ॥३०२॥
क्षुद्वेगमोक्षौ लघुता विशुद्धिर्जीर्णलक्षणम् ।
तदा भेषजमादेयं स्याद्धि दोषवदन्यथा ॥३०३॥
चयादयश्च दोषाणां वर्ज्यं सेव्यं च यत्र यत् ।
ऋताववेक्ष्यं यत् कर्म पूर्वं सर्वमुदाहृतम् ॥३०४॥
(उपक्रमाणां करणं प्रतिषेधे च कारणम् ।
व्याख्यातमबलानां सविकल्पानामवेक्षणे ॥३०५॥
मुहुर्मुहुश्च रोगाणामवस्थामातुरस्य च ।
अवेक्षमाणस्तु भिषक् चिकित्सायां न मुह्यति ॥३०६॥)
इत्येवं षड्विधं कालमनवेक्ष्य भिषग्जितम् ।
प्रयुक्तमहिताय स्यात् सस्यस्याकालवर्षवत् ॥३०७॥
व्याधीनामृत्वहोरात्रवयसां भोजनस्य च ।
विशेषो भिद्यते यस्तु कालावेक्ष: स उच्यते ॥३०८॥
वसन्ते श्लेष्मजा रोगा: शरत्काले तु पित्तजा: ।
वर्षासु वातिकाश्चैव प्राय: प्रादुर्भवन्ति हि ॥३०९॥
निशान्ते दिवसान्ते च वर्षान्ते वातजा गदा: ।
प्रात: क्षपादौ कफजास्तयोर्मध्ये तु पित्तजा: ॥३१०॥
वयोन्तमध्यप्रथमे वातपित्तकफामया: ।
बलवन्तो भवन्त्येव स्वभावाद्वयसो नृणाम् ॥३११॥
जीर्णान्ते वातजा रोगा जीर्यमाणे तु पित्तजा: ।
श्लेष्मजा भुक्तमात्रे तु लभन्ते प्रायशो बलम् ॥३१२॥
नाल्पं हन्त्यौषधं व्याधिं यथाऽऽपोऽल्पा महानलम् ।
दोषवच्चातिमात्रं स्यात्सस्यस्यात्युदकं यथा ॥३१३॥
संप्रधार्य बलं तस्मादामयस्यौषधस्य च ।
नैवातिबहु नात्यल्पं भैषज्यमवचारयेत् ॥३१४॥
औचित्याद्यस्य यत् सात्म्यं देशस्य पुरुषस्य च ।
अपथ्यमपि नैकान्तात्तत्त्यजंल्लभते सुखम् ॥३१५॥
बाह्लीका: पह्लवाश्चीना: शूलीका यवना: शका: ।
मांसगोधूममाध्वीकशस्त्रवैश्वानरोचिता: ॥३१६॥
मत्स्यसात्म्यास्तथा प्राच्या: क्षीरसात्म्याश्च सैन्धवा: ।
अश्मकावन्तिकानां तु तैलाम्लं सात्म्यमुच्यते ॥३१७॥
कन्दमूलफलं सात्म्यं विद्यान्मलयवासिनाम् ।
सात्म्यं दक्षिणत: पेया मन्थश्चोत्तरपश्चिमे ॥२१८॥
मध्यदेशे भवेत् सात्म्यं यवगोधूमगोरसा: ।
तेषां तत्सात्म्ययुक्तानि भैषजान्यवचारयेत् ॥३१९॥
सात्म्यं ह्याशु बलं धत्ते नातिदोषं च बह्वपि ।
योगैरेव चिकित्सन् हि देशाद्यज्ञोऽपराध्यति ॥३२०॥
वयोबलशरीरादिभेदा हि बहवो मता: ।
तथाऽन्त:सन्धिमार्गाणां दोषाणां गूढचारिणाम् ॥३२१॥
भवेत् कदाचित् कार्याऽपि विरुद्धाभिमता क्रिया ।
पित्तमन्तर्गतं गूढं स्वेदसेकोपनाहनै: ॥३२२॥
नीयते बहिरुष्णैर्हि तथोष्णं शमयन्ति ते ।
बाह्यैश्च शीतै: सेकाद्यैरूष्माऽन्तर्याति पीडित: ॥३२३॥
सोऽन्तर्गूढं कफं हन्ति शीतं शीतैस्तथा जयेत् ।
श्लक्ष्णपिष्टो घनो लेपश्चन्दनस्यापि दाहकृत् ॥३२४॥
त्वग्गतस्योष्मणो रोधाच्छीतकृच्चान्यथाऽगुरो: ।
छर्दिघ्नी मक्षिकाविष्ठा मक्षिकैव तु वामयेत् ॥३२५॥
द्रव्येषु स्विन्नजग्धेषु चैव तेष्वेव विक्रिया ।
तस्माद्दोषौषधादीनि परीक्ष्य दश तत्त्वत: ॥३२६॥
कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलम् ।
निवृत्तोऽपि पुनर्व्याधि: स्वल्पेनायाति हेतुना ॥३२७॥
क्षीणे मार्गीकृते देहे शेष: सूक्ष्म इवानल: ।
तस्मात्तमनुबध्नीयात् प्रयोगेणानपायिना ॥३२८॥
सिद्ध्यर्थं प्राक्प्रयुक्तस्य सिद्धस्याप्यौषधस्य तु ।
काठिन्यादूनभावाद्वा दोषोऽन्त: कुपितो महान् ॥३२९॥
पथ्यैर्मृद्वल्पतां नीतो मृदुदोषकरो भवेत् ।
पथ्यमप्यश्नतस्तस्माद्यो व्याधिरुपजायते ॥३३०॥
ज्ञात्वैवं वृद्धिमभ्यासमथवा तस्य कारयेत् ।
सातत्यात्स्वाद्वभावाद्वा पथ्यं द्वेष्यत्वमागतम् ॥३३१॥
कल्पनाविधिभिस्तैस्तै: प्रियत्वं गमयेत् पुन: ।
मनसोऽर्थानुकूल्याद्धि तुष्टिरूर्जा रुचिर्बलम् ॥३३२॥
सुखोपभोगता च स्याद्व्याधेश्चातो बलक्षय: ।
लौल्याद्दोषक्षयाद्व्याधेर्वैधर्म्याच्चापि या रुचि: ॥३३३॥
तासु पथ्योपचार: स्याद्योगेनाद्यं विकल्पयेत् ।
तत्र श्लोका:–
विंशतिर्व्यापदो योनेर्निदानं लिङ्गमेव च ॥३२४॥
चिकित्सा चापि निर्दिष्टा शिष्याणां हितकाम्यया ।
शुक्रदोषास्तथा चाष्टौ निदानाकृतिभेषजै: ॥३३५॥
क्लैब्यान्युक्तानि चत्वारि चत्वार: प्रदरास्तथा ।
तेषां निदानं लिङ्गं च भैषज्यं चैव कीर्तितम् ॥३३६॥
क्षीरदोषास्तथा चाष्टौ हेतुलिङ्गभिषग्जितै: ।
रेतसो रजसश्चैव कीर्तितं शुद्धिलक्षणम् ॥३३७॥
उक्तानुक्तचिकित्सा च सम्यग्योगस्तथैव च ।
देशादिगुणशंसा च काल: षड्विध एव च ॥३३८॥
देशे देशे च यत् सात्म्यं यथा वैद्योऽपराध्यति ।
चिकित्सा चापि निर्दिष्टा दोषाणां गूढचारिणाम् ।
यो हि सम्यङ्न जानाति शास्त्रं शास्त्रार्थमेव च ।
न कुर्यात् स क्रियां चित्रमचक्षुरिव चित्रकृत् ॥३४०॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने योनिव्यापच्चिकित्सितं नाम
त्रिंशोऽध्याय: ॥३०॥
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते ।
चिकित्सितमिदं स्थानं षष्ठं परिसमापितम् ॥३४
Last updated on July 2nd, 2021 at 05:37 am