सुश्रुतसंहिता ।
सूत्रस्थानम् ।
एकोनत्रिंशत्तमोऽध्याय: ।
अथातो विपरीताविपरीतस्वप्ननिदर्शनीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
दूतदर्शनसम्भाषा वेषाश्चेष्टितमेव च ||
ऋक्षं वेला तिथिश्चैव निमित्तं शकुनोऽनिलः ||३||
देशो वैद्यस्य वाग्देहमनसां च विचेष्टितम् ||
कथयन्त्यातुरगतं शुभं वा यदि वाऽशुभम् ||४||
पाख(ष)ण्डाश्रमवर्णानां सपक्षाः कर्मसिद्धये ||
त एव विपरीताः स्युर्दूताः कर्मविपत्तये ||५||
नपुंसकं स्त्री बहवो नैककार्या असूयकाः |
गर्दभोष्ट्ररथप्राप्ताः प्राप्ता वा स्युः परम्पराः ||६||
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ||
पाशदण्डायुधधराः पाण्डुरेतरवाससः ||७||
आर्द्रजीर्णापसव्यैकमलिनोद्ध्वस्तवाससः ||
न्यूनाधिकाङ्गा उद्विग्ना विकृता रौद्ररूपिणः ||८||
रूक्षनिष्ठुरवक्तारस्त्वमङ्गल्याभिधायिनः ||
छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् ||९||
वस्त्रान्तानामिकाकेशनखरोमदशास्पृशः ||
स्रोतोवरोधहृद्गण्डमूर्धोरःकुक्षिपाणयः ||१०||
कपालोपलभस्मास्थितुषाङ्गारकराश्च ये ||
विलिखन्तो महीं किञ्चिन्मुञ्चन्तो लोष्टभेदिनः ||११||
तैलकर्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः ||
फलं पक्वमसारं वा गृहीत्वाऽन्यच्च तद्विधम् ||१२||
नखैर्नखान्तरं वाऽपि करेण चरणं तथा ||
उपानच्चर्महस्ता वा विकृतव्याधिपीडिताः ||१३||
वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः ||
याम्यां दिशि प्राञ्जलयो विषमैकपदे स्थिताः ||१४||
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः
दक्षिणाभिमुखं देशे त्वशुचौ वा हुताशनम् |
ज्वलयन्तं पचन्तं वा क्रूरकर्मणि चोद्यतम् ||१५||
नग्नं भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम् ॥
प्रकीर्णकेशमभ्यक्तं स्विन्नं विक्लवमेव वा ||१६||
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥
वैद्यस्य पैत्र्ये दैवे वा कार्ये चोत्पातदर्शने ||१७||
मध्याह्ने चार्धरात्रे वा सन्ध्ययोः कृत्तिकासु च |
आर्द्राश्लेषामघामूलपूर्वासु भरणीषु च ||१८||
चतुर्थ्यां वा नवम्यां वा षष्ठ्यां सन्धिदिनेषु च |
वैद्यं य उपसर्पन्ति दूतास्ते चापि गर्हिताः ||१९|
स्विन्नाभितप्ता मध्याह्ने ज्वलनस्य समीपतः |
गर्हिताः पित्तरोगेषु दूता वैद्यमुपागताः ||२०||
त एव कफरोगेषु कर्मसिद्धिकराः स्मृताः |
एतेन शेषं व्याख्यातं बुद्ध्वा संविभजेत्तु तत् ||२१||
रक्तपित्तातिसारेषु प्रमेहेषु तथैव च |
प्रशस्तो जलरोधेषु दूतवैद्यसमागमः ||२२||
विज्ञायैवं विभागं तु शेषं बुध्येत पण्डितः ॥
शुक्लवासाः शुचिर्गौरः श्यामो वा प्रियदर्शनः ||२३||
स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः |
गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः ||२४||
स्मृतिमान् विधिकालज्ञः स्वतन्त्रः प्रतिपत्तिमान् |
अलङ्कृतो मङ्गलवान् दूतः कार्यकरः स्मृतः ||२५||
स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ शुचिम् |
उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः ||२६||
मांसोदकुम्भातपत्रविप्रवारणगोवृषाः |
शुक्लवर्णाश्च पूज्यन्ते प्रस्थाने दर्शनं गताः ||२७||
स्त्री पुत्रिणी सवत्सा गौर्वर्धमानमलङ्कृता |
कन्या मत्स्याः फलं चामं स्वस्तिकं मोदका दधि ||२८||
हिरण्याक्षतपात्रं वा रत्नानि सुमनो नृपः |
अप्रशान्तोऽनलो वाजी हंसश्चापः शिखी तथा ||२९||
ब्रह्मदुन्दुभिजीमूतशङ्खवेणुरथस्वनाः |
सिंहगोवृषनादाश्च ह्रे(हे)षितं गजबृंहितम् ||३०||
शस्तं हंसरुतं नॄणां कौशिकं चैव वामतः
प्रस्थाने यायिनः श्रेष्ठा वाचश्च हृदयङ्गमाः ||३१||
पत्रपुष्पफलोपेतान् सक्षीरान्नीरुजो द्रुमान् |
आश्रिता वा नभोवेश्मध्वजतोरणवेदिकाः ||३२||
दिक्षु शान्तासु वक्तारो मधुरं पृष्ठतोऽनुगाः |
वामा वा दक्षिणा वाऽपि शकुनाः कर्मसिद्धये ||३३||
शुष्केऽशनिहतेऽपत्रे वल्लीनद्धे सकण्टके |
वृक्षेऽथवाऽश्मभस्मास्थिविट्तुषाङ्गारपांशुषु ||३४||
चैत्यवल्मीकविषमस्थिता दीप्तखरस्वराः |
पुरतो दिक्षु दीप्तासु वक्तारो नार्थसाधकाः ||३५||
पुन्नामानः खगा वामाः स्त्रीसञ्ज्ञा दक्षिणाः शुभाः |
दक्षिणाद्वामगमनं प्रशस्तं श्वशृगालयोः |
वामं नकुलचाषाणां नोभयं शशसर्पयोः ||३६||
भासकौशिकयोश्चैव न प्रशस्तं किलोभयम् |
दर्शनं वा रुतं वाऽपि न गोधाकृकलासयोः ||३७||
दूतैरनिष्टैस्तुल्यानामशस्तं दर्शनं नृणाम् |
कुलत्थतिलकार्पासतुषपाषाणभस्मनाम् ||३८||
पात्रं नेष्टं तथाऽङ्गारतैलकर्दमपूरितम् |
प्रसन्नेतरमद्यानां पूर्णं वा रक्तसर्षपैः ||३९||
शवकाष्ठपलाशानां शुष्काणां पथि सङ्गमाः |
नेष्यन्ते पतितान्तस्थदीनान्धरिपवस्तथा ||४०||
मृदुः शीतोऽनुकूलश्च सुगन्धिश्चानिलः शुभः |
खरोष्णोऽनिष्टगन्धश्च प्रतिलोमश्च गर्हितः ||४१||
ग्रन्थ्यर्बुदादिषु सदा छेदशब्दस्तु पूजितः |
विद्रध्युदरगुल्मेषु भेदशब्दस्तथैव च ||४२||
रक्तपित्तातिसारेषु रुद्धशब्दः प्रशस्यते |
एवं व्याधिविशेषेण निमित्तमुपधारयेत् ||४३||
तथैवाक्रुष्टहाकष्टमाक्रन्दरुदितस्वनाः |
छर्द्यां वातपुरीषाणां शब्दो वै गर्दभोष्ट्रयोः ||४४||
प्रतिषिद्धं तथा भग्नं क्षुतं स्खलितमाहतम् |
दौर्मनस्यं च वैद्यस्य यात्रायां न प्रशस्यते ||४५||
प्रवेशेऽप्येतदुद्देशादवेक्ष्यं च तथाऽऽतुरे |
प्रतिद्वारं गृहे चास्य पुनरेतन्न गण्यते ||४६|
केशभस्मास्थिकाष्ठाश्मतुषकार्पासकण्टकाः |
खट्वोर्ध्वपादा मद्यापो वसा तैलं तिलास्तृणम् ||४७||
नपुंसकव्यङ्गभग्ननग्नमुण्डासिताम्बराः |
प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः ||४८||
भाण्डानां सङ्करस्थानां स्थानात् सञ्चारणं तथा |
निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथा ||४९||
वैद्यासनावसादो वा रोगी वा स्यादधोमुखः |
वैद्यं सम्भाषमाणोऽङ्गं कुड्यमास्तरणानि वा ||५०||
प्रमृज्याद्वा धुनीयाद्वा करौ पृष्ठं शिरस्तथा |
हस्तं चाकृष्य वैद्यस्य न्यसेच्छिरसि चोरसि ||५१||
यो वैद्यमुन्मुखः पश्यन्नुन्मार्ष्टि स्वाङ्गमातुरः |
न स सिध्यति वैद्यो वा गृहे यस्य न पूज्यते ||५२||
भवने पूज्यते वाऽपि यस्य वैद्यः स सिध्यति |
शुभं शुभेषु दूतादिष्वशुभं ह्यशुभेषु च ||५३||
आतुरस्य ध्रुवं तस्माद्दूतादीन् लक्षयेद्भिषक्
स्वप्नानतः प्रवक्ष्यामि मरणाय शुभाय च ||५४||
सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा |
स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ||५५||
वराहैर्महिषैर्वाऽपि यो यायाद्दक्षिणामुखः |
रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ||५६||
यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम् |
अन्तावसायिभिर्यो वाऽऽकृष्यते दक्षिणामुखः ||५७||
परिष्वजेरन् यं वाऽपि प्रेताः प्रव्रजिता(न)स्तथा |
मुहुराघ्रायते यस्तु श्वापदैर्विकृताननैः ||५८||
पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति |
पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ||५९||
निरम्बरश्च यो रक्तां धारयेच्छिरसा स्रजम् |
यस्य वंशो नलो वाऽपि तालो वोरसि जायते ||६०||
यं वा मत्स्यो ग्रसेद्यो वा जननीं प्रविशेन्नरः |
पर्वताग्रात् पतेद्यो वा श्वभ्रे वा तमसाऽऽवृते ||६१||
ह्रियेत स्रोतसा यो वा यो वा मौण्ड्यमवाप्नुयात् |
पराजीयेत बध्येत काकाद्यैर्वाऽभिभूयते ||६२||
पतनं तारकादीनां प्रणाशं दीपचक्षुषोः |
यः पश्येद्देवतानां वा प्रकम्पमवनेस्तथा ||६३||
यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा |
शाल्मलीं किंशुकं यूपं वल्मीकं पारिभद्रकम् ||६४||
पुष्पाढ्यं कोविदारं वा चितां वा योऽधिरोहति |
कार्पासतैलपिण्याकलोहानि लवणं तिलान् ||६५||
लभेताश्नीत वा पक्वमन्नं यश्च पिबेत् सुराम् |
स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ||६६||
यथास्वं प्रकृतिस्वप्नो विस्मृतो विहतस्तथा |
चिन्ताकृतो दिवा दृष्टो भवन्त्यफलदास्तु ते ||६७||
ज्वरितानां शुना सख्यं कपिसख्यं तु शोषिणाम् |
उन्मादे राक्षसैः प्रेतैरपस्मारे प्रवर्तनम् ||६८||
मेहातिसारिणां तोयपानं स्नेहस्य कुष्ठिनाम् |
गुल्मेषु स्थावरोत्पत्तिः कोष्ठे, मूर्ध्नि शिरोरुजि ||६९||
शष्कुलीभक्षणं छर्द्यामध्वा श्वासपिपासयोः |
हारिद्रं भोजनं वाऽपि यस्य स्यात् पाण्डुरोगिणः ||७०||
रक्तपित्ती पिबेद्यस्तु शोणितं स विनश्यति
स्वप्नानेवंविधान् दृष्ट्वा प्रातरुत्थाय यत्नवान् ||७१||
दद्यान्माषांस्तिलांल्लोहं विप्रेभ्यः काञ्चनं तथा |
जपेच्चापि शुभान् मन्त्रान् गायत्रीं त्रिपदां तथा ||७२||
दृष्ट्वा तु प्रथमे यामे स्वप्याद् ध्यात्वा पुनः शुभम् |
जपेद्वाऽन्यतमं वेदं ब्रह्मचारी समाहितः ||७३||
न चाचक्षीत कस्मैचिद्दृष्ट्वा स्वप्नमशोभनम् |
देवतायतने चैव वसेद्रात्रित्रयं तथा |
विप्रांश्च पूजयेन्नित्यं दुःस्वप्नात् प्रविमुच्यते ||७४||
अत ऊर्ध्वं प्रवक्ष्यामि प्रशस्तं स्वप्नदर्शनम् |
देवान् द्विजान्गोवृषभान् जीवतः सुहृदो नृपान् ||७५||
समिद्धमग्निं साधूंश्च निर्मलानि जलानि च |
पश्येत् कल्याणलाभाय व्याधेरपगमाय च ||७६||
मांसं मत्स्यान् स्रजः श्वेता वासांसि च फलानि च |
लभेत धनलाभाय व्याधेरपगमाय च ||७७||
महाप्रासादसफलवृक्षवारणपर्वतान् |
आरोहेद्द्रव्यलाभाय व्याधेरपगमाय च ||७८||
नदीनदसमुद्रांश्च क्षुभितान् कलुषोदकान् |
तरेत् कल्याणलाभाय व्याधेरपगमाय च ||७९||
उरगो वा जलौको वा भ्रमरो वाऽपि यं दशेत् |
आरोग्यं निर्दिशेत्तस्य धनलाभं च बुद्धिमान् ||८०||
एवं रूपाञ् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः |
स दीर्घायुरिति ज्ञेयस्तस्मै कर्म समाचरेत् ||८१||
इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतस्वप्ननिदर्शनीयो नामैकोनत्रिंशत्तमोऽध्यायः ||२९||
Last updated on May 24th, 2021 at 07:17 am