अष्टाङ्गहृदये (उत्तरस्थानम्)
ग्रथ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं एकोनत्रिंशोऽध्यायः।
अथातो ग्रथ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
कफप्रधानाः कुर्वन्ति मेदोमांसास्रगा मलाः।
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात्स्मृतः॥१॥
दोषास्रमांसमेदोस्थिसिराव्रणभवा नव।
ते तत्र वातादायामतोदमेदान्वितोऽसितः॥२॥
स्थानात्स्थानान्तरगतिरकस्माद्धानिवृद्धिमान्।
मृदुर्बस्तिरिवानद्धो विभिन्नोऽच्छं स्रवत्यसृक्॥३॥
पित्तात्सदाहः पीताभो रक्तो वा, पच्यते द्रुतम्।
भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः॥४॥
शीतः सवर्णः कण्डूमान्, पक्वः पूयं स्रवेद्घनम्।
दौषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु॥५॥
सिरामांसं च संश्रित्य सस्वापः पित्तलक्षणः।
मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत्॥६॥
स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्।
प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि॥७॥
वायुना कुरुते ग्रन्थिं भृशं स्निग्धं मृदुं चलम्।
श्लेष्मतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम्॥८॥
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्।
अस्थिभङ्गाभिघाताभ्यामुन्नतावनतं तु यत्॥९॥
सोऽस्थिग्रन्थिः पदातेस्तु सहसाऽम्भोवगाहनात्।
व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम्॥१०॥
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च।
निःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः॥११॥
अरूढे रूढमात्रे वा व्रणे सर्वरसाशिनः।
सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा॥१२॥
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्।
कुर्यात्सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः॥१३॥
साध्या दोषास्रमेदोजाः, न तु स्थूलखराश्चलाः।
मर्मकण्ठोदरस्थाश्च महत्तु ग्रन्थितोऽर्बुदम्॥१४॥
तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्।
प्रायो मेदः कफाढ्यत्वात्स्थिरत्वाच्च न पच्यते॥१५॥
सिरास्थं शोणितं दोषः सङ्कोच्यान्तः प्रपीड्य च।
पाचयेत तदानद्धं सास्रावं मांसपिण्डितम्॥१६॥
मांसाङ्कुरैश्चितं याति वृद्धिं चाशु स्रवेत्ततः।
अजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम्॥१७॥
तेष्वसृङ्मांसजे वर्ज्ये, चत्वार्यन्यानि साधयेत्।
प्रस्थिता वङ्क्षणोर्वादिमधः कायं कफोल्बणाः॥१८॥
दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते।
शनैः शनैर्घनं शोफं श्लीपदं तत्प्रचक्षते॥१९॥
परिपोटयुतं कृष्णमनिमित्तरुजं खरम्।
रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितम्॥२०॥
कफाद्गुरु स्निग्धमरुक् चितं मांसाङ्कुरैर्बृहत्।
तत्त्यजेद्वत्सरातीतं सुमहत् सुपरिस्रुति॥२१॥
पाणिनासौष्ठकर्णेषु वदन्त्येके तु पादवत्।
श्लीपदं जायते तच्च देशेऽनूपे भृशं भृशम्॥२२॥
मेदस्थाः कण्ठमन्याक्षकक्षावङ्क्षणगा मलाः।
सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्॥२३॥
अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते।
पच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः॥२४॥
नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः।
गण्डमालाऽपची चेयं दूर्वेव क्षयवृद्धिभाक्॥२५॥
तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्।
अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः॥२६॥
अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावति।
गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः॥२७॥
नाड्येकाऽनृजुरन्येषां सैवानेकगतिर्गतिः।
सा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी॥२८॥
वातात् सरुक्सूक्ष्ममुखी विवर्णा फेनिलोद्वमा।
स्रवत्यभ्यधिकं रात्रौ पित्तात्तृड्ज्वरदाहकृत्॥२९॥
पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चति।
घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्॥३०॥
निशि चाभ्यधिकक्लेदा सर्वैः सर्वाकृतिं त्यजेत्।
अन्तःस्थितं शल्यमनाहृतं तु
करोति नाडीं वहते च साऽस्य।
फेनानुविद्धं तनुमल्पमुष्णं
सास्रं च पूयं सरुजं च नित्यम्॥३१॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने ग्रथ्यर्बुदश्लीपदापचीनाडीविज्ञानीयो नाम एकोनत्रिंशोऽध्यायः॥२९॥
Last updated on September 13th, 2021 at 06:58 am