चरकसंहिता
चिकित्सास्थानम्।
षड्विंशोऽध्याय: ।
अथातस्त्रिमर्मीयचिकित्सितमध्यायंव्याख्यास्याम: ॥१॥
इतिहस्माहभगवानात्रेय: ॥२॥
सप्तोत्तरं मर्मशतं यदुक्तं
शरीरसंख्यामधिकृत्य तेभ्य: ।
मर्माणि बस्तिं हृदयं शिरश्च
प्रधानभूतानि वदन्ति तज्ज्ञा: ॥३॥
प्राणाश्रयात्, तानि हि पीडयन्तो
वातादयोऽसूनपि पीडयन्ति।
तत्संश्रितानामनुपालनार्थं
महागदानां शृणु सौम्य रक्षाम्॥४॥
कषायतिक्तोषणरूक्षभोज्यै:
संधारणाभोजनमैथुनैश्च।
पक्वाशये कुप्यति चेदपान:
स्रोतांस्यधोगानि बली स रुद्ध्वा॥५॥
करोति विण्मारुतमूत्रसङ्गं
क्रमादुदावर्तमत: सुघोरम्।
रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णं
सपृष्ठपार्श्वेष्वतिदारुणा स्यात्॥६॥
आध्मानहृल्लासविकर्तिकाश्च
तोदोऽविपाकश्च सबस्तिशोथ: ।
वर्चोऽप्रवृत्तिर्जठरे च गण्डान्यूर्ध्वश्च वायुर्विहतो गुदे स्यात्॥७॥
कृच्छ्रेण शुष्कस्य चिरात् प्रवृत्ति:
स्याद्वा तनु: स्यात् खररूक्षशीता।
ततश्च रोगा ज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषा: ॥८॥
वम्यान्ध्यबाधिर्यशिरोऽभितापवातोदराष्ठीलमनोविकारा: ।
तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगा: ॥९॥
अन्ये च रोगा बहवोऽनिलोत्था
भगवन्त्युदावर्तकृता: सुघोरा: ।
चिकित्सितं चास्य यथावदूर्ध्वं
प्रवक्ष्यते तच्छृणु चाग्निवेश !॥१०॥
तं तैलशीतज्वरनाशनाक्तं
स्वेदैर्यथोक्तै: प्रविलीनदोषम्।
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नै: ॥११॥
श्यामात्रिवृन्मागधिकां सदन्तीं
गोमूत्रपिष्टां दशभागमाषाम्।
सनीलिकां द्विर्लवणां गुडेन
वर्तिं कराङ्गुष्ठनिभां विदध्यात्॥१२॥
पिण्याकसौवर्चलहिङ्गुभिर्वा
ससर्षपत्र्यूषणयावशूकै: ।
क्रिमिघ्नकम्पिल्लकशङ्खिनीभि:
सुधार्कजक्षीरगुडैर्युताभि: ॥१३॥
स्यात् पिप्पलीसर्षपराढवेश्मधूमै: सगोमूत्रगुडैश्च वर्ति: ।
श्यामाफलालाबुकपिप्पलीनां
नाड्याऽथवातत्प्रधमेत्तु चूर्णम्॥१४॥
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णं सजीमूतकसैन्धवं वा।
स्निग्धे गुदे तान्यनुलोमयन्ति
नरस्य वर्चोऽनिलमूत्रसङ्गम्॥१५॥
तेषां विघाते तु भिषग्विदध्यात्
स्वभ्यक्तसुस्विन्नतनोर्निरूहम्।
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतं सुतीक्ष्णम्॥१६॥
वातेऽधिकेऽम्लं लवणं सतैलं,
क्षीरेण पित्ते तु, कफे समूत्रम्।
स मूत्रवर्चोऽनिलसङ्गमाशु
गुदं सिराश्च प्रगुणीकरोति॥१७॥
त्रिवृत्सुधापत्रतिलादिशाकग्राम्यौदकानूपरसैर्यवान्नम्।
अन्यैाश्च सृष्टानिलमूत्रविड्भिरद्यात् प्रसन्नागुडसीधुपायी॥१८॥
भूयोऽनुबन्धे तु भवेद्विरेच्यो
मूत्रप्रसन्नादधिमण्डशुक्तै: ।
स्वस्थं तु पश्चादनुवासयेत्तं
रौक्ष्याद्धि सङ्गोऽनिलवर्चसोश्चेत्॥१९॥
द्विरुत्तरं हिङ्गु वचाग्निकुष्ठं
सुवर्चिका चैव विडङ्गचूर्णम्।
सुखाम्बुनाऽऽनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्॥२०॥
वचाभयाचित्रकयावशूकान्
सपिप्पलीकातिविषान् सकुष्ठान्।
उष्णाम्बुनाऽऽनाहविमूढवातान्
पीत्वा जयेदाशु रसौदनाशी॥२१॥
हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्।
यथोत्तरं भागविवृद्धमेतत्
प्लीहोदराजीर्णविसूचिकासु॥२२॥
स्थिरादिवर्गस्य पुनर्नवाया:
शम्पाकपूतीककरञ्जयोश्च।
सिद्ध: कषाये द्विपलांशिकानां
प्रस्थो घृतात् स्यात् प्रतिरुद्धवाते॥२३॥
फलं च मूलं च विरेचनोक्तं
हिङ्ग्वर्कमूलं दशमूलमग्र्यम्।
स्नुक् चित्रकश्चैव पुनर्नवा च
तुल्यानि सर्वैर्लवणानि पञ्च॥२४॥
स्नेहै: समूत्रै: सहजर्जराणि
शरावसन्धौ विपचेत् सुलिप्ते।
पक्वं सुपिष्टं लवणं तदन्नै:
पानैस्तथाऽऽनाहरुजाघ्नमद्यात्॥२५॥
हृत्स्तम्भमूर्धामयगौरवाभ्यामुद्गारसङ्गेन सपीनसेन।
आनाहमामप्रभवं जयेत्तु
प्रच्छर्दनैर्लङ्घनपाचनैश्च॥२६॥
(गुल्मोदरब्रध्नार्श: प्लीहोदावर्तयोनिशुक्रगदे।
मेद:कफसंसृष्टेमारुतरक्तेऽवगाढे च॥२७॥
गृध्रसिपक्षवधादिषु विरेचनार्हेषु वातरोगेषु।
वाते विबद्धमार्गे मेद: कफपित्तरक्तेन॥२८॥
पयसा मांसरसैर्वा त्रिफलारसयूषमूत्रमदिराभि: ।
दोषानुबन्धयोगात् प्रशस्तमेरण्डजं तैलम्॥२९॥
तद्वातनुत्स्वभावात् संयोगवशाद्विरेचनाच्च जयेत्।
मेदोसृक्पित्तकफोन्मिश्रानिलरोगजित्तस्मात्॥३०॥
बलकोष्ठव्याधिवशादापञ्चपला भवेन्मात्रा।
मृदुकोष्ठाल्पबलानां सह भोज्यं तत्प्रयोज्यं स्यात्॥३१॥)
इत्युदावर्तचिकित्सा।
व्यायामतीक्ष्णैषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात्।
आनूपमत्स्याध्यशनादजीर्णात्
स्युर्मूत्रकृच्छ्राणि नृणामिहाष्टौ॥३२॥
पृथङ्मला: स्वै: कुपिता निदानै:
सर्वेऽथवा कोपमुपेत्य बस्तौ।
मूत्रस्य मार्गं परिपीडयन्ति
यदा तदा मूत्रयतीह कृच्छ्रात्॥३३॥
तीव्रा रुजो वङ्क्षणबस्तिमेढ्रे
स्वल्पं मुहुर्मूत्रयतीह वातात्।
पीतं सरक्तं सरुजं सदाहं
कृच्छ्रान्मुहुर्मूत्रयतीह पित्तात्॥३४॥
बस्ते: सलिङ्गस्य गुरत्वशोथौ
मूत्रं सपिच्छं कफमूत्रकृच्छ्रे।
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति
तत् कृच्छ्रतमं हि कृच्छ्रम्॥३५॥
विशोषयेद्बस्तिगतं सशुक्रं
मूत्रं सपित्तं पवन: कफं वा।
यदा तदाऽश्मर्युपजायते तु
क्रमेण पित्तेष्विव रोचना गो: ॥३६॥
कदम्बपुष्पाकृतिरश्मतुल्या
श्लक्ष्णा त्रिपुट्यप्यथवाऽपि मृद्वी।
मूत्रस्य चेन्मार्गमुपैति रुद्ध्वा
मूत्रं रुजं तस्य करोति बस्तौ॥३७॥
ससेवनीमेहनबस्तिशूलं
विशीर्णधारं च करोति मूत्रम्।
मृद्गाति मेढ्रं स तु वेदनार्तो
मुहु: शकृन्मुञ्चति मेहते च॥३८॥
क्षोभात् क्षते मूत्रयतीह सासृक्
तस्या: सुखं मेहति च व्यपायात्।
एषाऽश्मरी मारुतभिन्नमूर्ति:
स्याच्छर्करा मूत्रपथात् क्षरन्ती॥३९॥
(रेतोऽभिघाताभिहतस्य पुंस:
प्रवर्तते यस्य तु मूत्रकृच्छ्रम्।
स्योद्वेदना वङ्क्षणबस्तिमेढ्रे
तस्यातिशूलं वृषणातिवृत्ते॥४०॥
शुक्रेण संरुद्धगतिप्रवाहो
मूत्रं स कृच्छ्रेण विमुञ्चतीह।
तमण्डयो: स्तब्धमिति ब्रुवन्ति
रेतोऽभिघातात् प्रवदन्ति कृच्छ्रम्॥४१॥)
शुक्रं मलाश्चैव पृथक् पृथग्वा
मूत्राशयस्था: प्रतिवारयन्ति।
तप्तहतं मेहनबस्तिशूलं
मूत्रं सशुक्रं कुरुते विबद्धम्॥४२॥
स्तब्धश्च शूनो भृशवेदनश्च
तुद्येत बस्तिर्वृषणौ च तस्य।
क्षताभिघातात् क्षतजं क्षयाद्वा
प्रकोपितं बस्तिगतं विबद्धम्॥४३॥
तीव्रार्ति मूत्रेण सहाश्मरीत्वमायाति तस्मिन्नतिसंचिते च।
आध्माततां विन्दति गौरवं च
बस्तेर्लघुत्वं च विनि:सृतेऽस्मिन्॥४४।
इति मूत्रकृच्छ्रनिदानम्।
अभ्यञ्जनस्नेहनिरूहबस्तिस्नेहोपनाहोत्तरबस्तिसेकान्।
स्थिरादिभिर्वातहरैश्च सिद्धान्
दद्याद्रसांश्चानिलमूत्रकृच्छ्रे॥४५॥
पुनर्नवैरण्डशतावरीभि:
पत्तूरवृश्चीरबलाश्मभिद्भि: ।
द्विपञ्चमूलेन कुलत्थकोलयवैश्च तोयोत्क्वथिते कषाये॥४६॥
तैलं वराहर्क्षवसा घृतं च
तैरेव कल्कैर्लवणैश्च साध्यम्।
तन्मात्रयाऽऽशु प्रतिहन्ति पीतं
शूलान्वितं मारुतमूत्रकृच्छ्रम्॥४७॥
एतानि चान्यानि वरौषधानि
पिष्टानि शस्तान्यपि चोपनाहे।
स्युर्लाभतस्तैलफलानि चैव
स्नेहाम्लयुक्तानि सुखोष्णवन्ति॥४८॥
सेकावगाहा: शिशिरा: प्रदेहा
ग्रैष्मो विधिर्बस्तिपयोविरेका: ।
द्राक्षाविदारीक्षुरसैर्घृतैश्च
कृच्छ्रेषु पित्तप्रभवेषु कार्या: ॥४९॥
शतावरीकाशकुशश्वदंष्ट्राविदारीशालीक्षुकशेरुकाणाम्।
क्वाथं सुशीतं मधुशर्कराभ्यां
युक्तं पिबेत् पैत्तिकमूत्रकृच्छ्री॥५०॥
पिबेत् कषायं कमलोत्पलानां
शृङ्गाटकानामथवा विदार्या: ।
दण्डैरकाणामथवाऽपि मूलं
पूर्वेण कल्पेन तथाऽम्बु शीतम्॥५१॥
एर्वारुबीजं त्रपुषात् कुसुम्भात्
सकुङ्कुम: स्याद्वृषकश्च पेय: ।
द्राक्षारसेनाश्मरिशर्करासु
सर्वेषु कृच्छ्रेषु प्रशस्त एष: ॥५२॥
एर्वारुबीजं मधुकं सदारु
पैत्ते पिबेत्तण्डुल धावनेन।
दार्वीं तथैवामलकीरसेन
समाक्षिकां पित्तकृते तु कृच्छ्रे॥५३॥
क्षारोष्णतीक्ष्णौषधमन्नपानं
स्वेदो यवान्नं वमनं निरूहा: ।
तक्रं सतिक्तौषधसिद्धतैलमभ्यङ्गपानं कफमूत्रकृच्छे॥५४॥
व्योषं श्वदंष्ट्रात्रुटिसारसास्थि
कोलप्रमाणं मधुमूत्रयुक्तम्।
पिबेत्त्रुटिं क्षौद्रयुतां कदल्या
रसेन कैडर्यरसेन वाऽपि॥५५॥
तक्रेण युक्तं शितिवारकस्य
बीजं पिबेत् कृच्छ्रविनाशहेतो: ।
पिबेत्तथा तण्डुलधावनेन
प्रवालचूर्णं कफमूत्रकृच्छ्रे॥५६॥
सप्तच्छदारग्वधकेबुकैलाधवं करञ्जं कुटजं गुडूचीम्।
पक्त्वा जले तेन पिबेद्यवागूं
सिद्धं कषायं मधुसंयुतं वा॥५७॥
सर्वं त्रिदोषप्रभवे तु वायो:
स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्।
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात्
पित्ते विरेक: पवने तु बस्ति: ॥५८॥
इति मूत्रकृच्छ्रचिकित्सा।
क्रिया हिता साऽश्मरिशर्कराभ्यां
कृच्छ्रे यथैवेह कफानिलाभ्याम्।
कार्याऽश्मरीभेदनपातनाय
विशेषयुक्तं शृणु कर्म सिद्धम्॥५९॥
पाषाणभेदं वृषकं श्वदंष्ट्र
पाठाभयाव्योषशटीनिकुम्भा:।
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणां त्रपुषस्य बीजम्॥६०॥
उत्कुञ्चिका हिङ्गु सवेतसाम्लं
स्याद्द्वे बृहत्यौ हपुषा वचा च।
चूर्णं पिबेदश्मरिभेदपक्वं
सर्पिश्च गोमूत्रचतुर्गुणं तै: ॥६१॥
मूलं श्वदंष्ट्रेक्षुरकोरुबूकात्
क्षीरेण पिष्टं बृहतीद्वयाच्च।
आलोड्य दध्ना मधुरेण पेयं
दिनानि सप्ताश्मरिभेदनाय॥६२॥
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्च सदर्भपुष्पा: ।
क्षीराम्बुमद्येक्षुरसै: सुपिष्टं
पेयं भवेदश्मरिशर्करासु॥६३॥
त्रुटिं सुराह्वं लवणानि पञ्च
यवाग्रजं कुन्दुरुकाश्मभेदौ।
कम्पिल्लकं गोक्षुरकस्य बीजमेर्वारुबीजं त्रपुषस्य बीजम्॥६४॥
चूर्णीकृतं चित्रकहिङ्गुमांसीयवानितुल्यं त्रिफलाद्विभागम्।
अम्लैरशुक्तै रसमद्ययूषै:
पेयं हि गुल्माश्मरिभेदनार्थम्॥६५॥
बिल्वप्रमाणो घृततैलभृष्टो
यूष: कृत: शिग्रुकमूलकल्कात्।
शीतोऽश्मभित् स्याद्दधिमण्डयुक्त:
पेय: प्रकामं लवणेन युक्त:॥६६॥
जलेन शोभाञ्जनमूलकल्क:
शीतो हितश्चाश्मरिशर्करासु।
सितोपला वा समयावशूका
कृच्छ्रेषु सर्वेष्वपि भेषजं स्यात्॥६७॥
पीत्वाऽथ मद्यं निगदं रथेन
हयेन वा शीघ्रजवेन यायात्।
तै: शर्करा प्रच्यवतेऽश्मरी तु शाम्येन्न चेच्छल्यविदुद्धरेत्ताम्॥६८॥
रेतोभिघात प्रभवे तु कृच्छ्रे
समीक्ष्य दोषं प्रतिकर्म कुर्यात्।
कार्पासमूलं वृषकाश्मभेदौ
बला स्थिरादीनि गवेधुका च॥६९॥
वृश्चीर ऐन्द्री च पुनर्नवा च
शतावरी मध्वसनाख्यपर्ण्यौ।
तत्क्वाथसिद्ध: पवने रस: स्यात्
पित्तेऽधिके क्षीरमथापि सर्पि: ॥७०॥
कफे च यूषादिकमन्नपानं
संसर्गजे सर्वहित: क्रम: स्यात्।
एवं न चेच्छाम्यति तस्य युञ्ज्यात्
सुरां पुराणां मधुकासवं वा॥७१॥
विहङ्गमांसानि च बृंहणाय
बस्तींश्च शुक्राशयशोधनार्थम्।
शुद्धस्य तृप्तस्य च वृष्ययोगै:
प्रियानुकूला: प्रमदा विधेया: ॥७२॥
रक्तोद्भवे तूत्पलनालतालकासेक्षुबालेक्षुकशेरुकाणि।
पिबेत् सिताक्षौद्रयुतानि खादेदिक्षुं विदारीं त्रपुषाणि चैव॥७३॥
घृतं श्वदंष्ट्रास्वरसेन सिद्धं
क्षीरेण चैवाष्टगुणेन पेयम्।
स्थिरादिकानां कनकादिकानामेकैकशो वा विधिनैव तेन॥७४॥
क्षीरेण बस्तिर्मधुरौषधै: स्यात्तैलेन वा स्वादुफलोत्थितेन।
यन्मूत्रकृच्छ्रे विहितं तु पैत्ते
कार्यं तु तच्छोणितमूत्रकृच्छ्रे॥७५॥
व्यायामसंधारणशुष्करूक्षपिष्टान्नवातार्ककरव्यवायान्।
खर्जूरशालूककपित्थजम्बूबिसं कषायं न रसं भजेत॥७६॥
इत्यश्मरीचिकित्सा।
व्यायामतीक्ष्णातिविरेकबस्तिचिन्ताभयत्रासगदातिचारा: ।
छर्द्यामसंधारणकर्शनानि
हृद्रोगकर्तृणितथाऽभिघात: ॥७७॥
वैवर्ण्यमूर्च्छाज्वरकासहिक्काश्वासास्यवैरस्यतृषाप्रमोहा: ।
छर्दि: कफोत्क्लेशरुजोऽरुचिश्च
हृद्रोगजा: स्युर्विविधास्तथाऽन्ये॥७८॥
हृच्छून्यभावद्रवशोषभेदस्तम्भा: समोहा: पवनाद्विशेष: ।
पित्तात्तमोदूयनदाहमोहा:
संत्रासतापज्वरपीतभावा: ॥७९॥
स्तब्धं गुरु स्यात् स्तिमितं च मर्म
कफात् प्रसेकज्वरकासतन्द्रा: ।
विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं
तीव्रार्तितोदं कृमिजं सकण्डूम्॥८०॥
तैलं ससौवीरकमस्तुतक्रं
वाते प्रपेयं लवणं सुखोष्णम्।
मूत्राम्बुसिद्धं लवणैश्च तैलमानाहगुल्मार्तिहृदामयघ्नम्॥८१॥
पुनर्नवां दारु सपञ्चमूलं
रास्नां यवान् बिल्वकुलत्थकोलम्।
पक्त्वा जले तेन विपाच्य तैलमभ्यङ्गपानेऽनिलहृद्गदघ्नम्॥८२॥
हरीतकीनागरपुष्कराह्वैर्वय:कयस्थालवणैश्च कल्कै: ।
सहिङ्गुभि: साधितमग्र्यसर्पिर्गुल्मेसहृत्पार्श्वगदेऽनिलोत्थे॥८३॥
सपुष्कराह्वं फलपूरमूलं
महौषधं शट्यभया च कल्का: ।
क्षाराम्बुसर्पिर्लवणैर्विमिश्रा:
स्युर्वातहृद्रोगविकर्तिकाघ्ना: ॥८४॥
क्वाथ: कृत: पौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वै: ।
सनागराजाजिवचायवानीक्षार: सुखोष्णो लवणश्च पेय: ॥८५॥
पथ्याशटीपौष्करपञ्चकोलात्
समातुलुङ्गाद्यमकेन कल्क: ।
गुडप्रसन्नालवणैश्च भृष्टो हृत्पार्श्वपृष्ठोदरयोनिशूले॥८६॥
स्यात्त्र्यूषणं द्वे त्रिफले सपाठे
निदिग्धिकागोक्षुरकौ बले द्वे।
ऋद्धिस्त्रुटिस्तामलकी स्वगुप्ता
मेदे मधूकं मधुकं स्थिरा च॥८७॥
शतावरी जीवकपृश्निपर्ण्यौ
द्रव्यैरिमैरक्षसमै: सुपिष्टै: ।
प्रस्थं घृतस्येह पचेद्विधिज्ञ:
प्रस्थेन दध्ना त्वथ माहिषेण॥८८॥
मात्रां पलं चार्धपलं पिचुं वा
प्रयोजयेन्माक्षिकसंप्रयुक्ताम्।
श्वासे सकासे त्वथ पाण्डुरोगे
हलीमके हृद्ग्रहणीप्रदोषे॥८९॥
शीता: प्रदेहा: परिषेचनानि
तथा विरेको हृदि पित्तदुष्टे।
द्राक्षासिताक्षौद्रपरूषकै: स्याच्छुद्धे तु पित्तापहमन्नपानम्॥९०॥
यष्ट्याह्विकातिक्तकरोहिणीभ्यां
कल्कं पिबेच्चापि सिताजलेन।
क्षते च सर्पींषि हितानि सर्पिगुडाश्च ये तान् प्रसमीक्ष्य सम्यक्॥९१॥
दद्याद्भिषग्धन्वरसांश्च गव्यक्षीराशिनां पित्तहृदामयेषु।
तैरेव सर्वे प्रशमं प्रयान्ति
पित्तामया: शोणितसंश्रया ये॥९२॥
द्राक्षाबलाश्रेयसिशर्कराभि:
खर्जूरवीरर्षभकोत्पलैश्च।
काकोलिमेदायुगजीवकैश्च
क्षीरेण सिद्धं महिषीघृतं स्यात्॥९३॥
कशेरुकाशैवलशृङ्गवेरप्रपौण्डरीकं मधुकं बिसस्य।
ग्रन्थिश्चसर्पि: पयसा पचेत्तै:
क्षौद्रान्वितं पित्तहृदामयघ्नम्॥९४॥
स्थिरादिकल्कै: पयसा च सिद्धं
द्राक्षारसेनेक्षुरसेन वाऽपि।
सर्पिर्हितं स्वादुफलेक्षुजाश्च
रसा: सुशीता हृदि पित्तदुष्टे॥९५॥
स्विन्नस्य वान्तस्य विलङ्घितस्य
क्रिया कफघ्नी कफमर्मरोगे।
कौलत्थधान्यैश्च रसैर्यवान्नं
पानानि तीक्ष्णानि च शङ्कराणि॥९६॥
मूत्रे शृता: कट्फलशृङ्गवेरपीतद्रुपथ्यातिविषा: प्रदेया: ।
कृष्णाशटीपुष्करमूलरास्नावचाभयानागरचूर्णकं च॥९७॥
उदुम्बराश्वत्थवटार्जुनाख्ये
पालाशरौहीतकखादिरे च।
क्वाथे त्रिवृत्त्र्यूषणचूर्णसिद्धो
लेह: कफघ्नोऽशिशिराम्बुयुक्त: ॥९८॥
शिलाह्वयं वा भिषगप्रमत्त:
प्रयोजयेत् कल्पविधानदिष्टम्।
प्राशं तथाऽऽगस्त्यमथापि लेहं
रसायनं ब्राह्ममथामलक्या: ॥९९॥
त्रिदोषजे लङ्घनमादित: स्यादन्नं च सर्वेषु हितं विधेयम्।
हीनाति मध्यत्वमवेक्ष्य चैव
कार्यं त्रयाणामपि कर्म शस्तम्॥१००॥
भुक्तेऽधिकं जीर्यति शूलमल्पं
जीर्णे स्थितं चेत् सुरदारुकुष्ठम्।
सतिल्वकं द्वे लवणे विडङ्गमुष्णाम्बुना सातिविषं पिबेत् स: ॥१०१॥
जीर्णेऽधिके स्नेहविरेचनं स्यात्।
फलैर्विरेच्यो यदि जीर्यति स्यात्।
त्रिष्वेव कालेष्वधिके तु शूले
तीक्ष्णं हितं मूलविरेचनं स्यात्॥१०२॥
प्रायोऽनिलो रुद्धगति: प्रकुप्यत्यामाशये शोधनमेव तस्मात्।
कार्यं तथा लङ्घनपाचनं च
सर्वं कृमिघ्नं कृमि हृद्गदे च॥१०३॥
इति हृद्रोगचिकित्सा।
संधारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापै: ।
प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमै: ॥०४॥
संस्त्यानदोषे शिरसि प्रवृद्धो
वायु: प्रतिश्यायमुदीरयेत्तु।
घ्राणार्तितोदौ क्षवथुर्जलाभ:
स्रावोऽनिलात् सस्वरमूर्धरोग: ॥१०५॥
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानि पित्तात्।
कासारुचिस्रावघ्नाप्रसेका:
कफाद्गुरु: स्रोतसि चापि कण्डू: ॥१०६॥
सर्वाणि रूपाणि तु सन्निपातात्
स्यु: पीनसे तीव्ररुजेऽतिदु:खे।
सर्वोऽतिवृद्धोऽहितभोजनात्तु
दुष्टप्रतिश्याय उपेक्षित: स्यात्॥१०७॥
ततस्तु रोगा: क्षवथुश्च नासाशोष: प्रतीनाहपरिस्रवौ च।
घ्राणस्य पूतित्वमपीनसश्च
सपाकशोथार्बुदपूयरक्ता: ॥१०८॥
अरूंषि शीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावा:
तृट्श्वासकासज्वररक्तपित्तवैस्वर्यशोषाश्च ततो भवन्ति॥१०९॥
रोधाभिघातस्रवशोषपाकैर्घ्राणं युतं यश्च न वेत्ति गन्धम्।
दुर्गन्धि चास्यं बहुश:प्रकोपि
दुष्टप्रतिश्यायमुदाहरेत्तम्॥११०॥
संस्पृश्य मर्माण्यनिलस्तु मूर्ध्नि
विष्वक्पथस्थ: क्षवथुं करोति।
क्रुद्ध: स संशोष्य कफं तु नासाशृङ्गाटकघ्राणविशोषणं च॥१११॥
उच्छ्वासमार्गं तु कफ: सवातो
रुन्ध्यात् प्रतीनाहमुदाहरेत्तम्।
यो मस्तुलुङ्गाद्धनपीतपक्व:
कफ: स्रवेदेष परिस्रवस्तु॥११२॥
वैवर्ण्यदौर्गन्ध्यमुपेक्षया तु
स्यात् पूतिनस्यं श्वयथुर्भ्रमश्च।
आनह्यते यस्य विशुष्यते च
प्रक्लिद्यते धूप्यति चापि नासा॥११३॥
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन।
तं चानिलश्लेष्मभवं विकारं
ब्रूयात् प्रतिश्यायसमानलिङ्गम्॥११४॥
सदाहराग: श्वयथु: सपाक:
स्याद् घ्राणपाकोऽपि च रक्तपित्तात्।
घ्राणाश्रितासृक्प्रभृतीन् प्रदूष्य
कुर्वन्ति नासाश्वयथुं मलाश्च॥११५॥
घ्राणे तथोच्छ्वासगतिं निरुध्य
मांसास्रदोषादपि चार्बुदानि।
घ्राणात् स्रवेद्वा श्रवणान्मुखाद्वा
पित्ताक्तमस्रं त्वपि पूयरक्तम्॥११६॥
कुर्यात् सपित्त: पवनस्त्वगादीन्
संदूष्य चारूंषि सपाकवन्ति।
नासा प्रदीप्तेव नरस्य यस्य
दीप्तं तु तं रोगमुदाहरन्ति॥११७॥
इति नासारोगनिदानम्।
भृशार्तिशूलं स्फुरतीह वातात्
पित्तात् सदाहार्ति कफाद्गुरु स्यात्।
सर्वैस्त्रिदोषं क्रिमिभिस्तु कण्डूर्दौर्गन्ध्यतोदार्तियुतं शिर: स्यात्॥११८॥
इति शिरोरोगनिदानम्।
मुखामये मारुतजे तु शोषकार्कश्यरौक्ष्याणि चला रुजश्च।
कृष्णारुणं निष्पतनं सशीतं प्रस्रंसनस्पन्दनतोदभेदा: ॥११९॥
तृष्णाज्वरस्फोटकतालुदाहा
धूमायनं चाप्यवदीर्णता च।
पित्तात् समूर्च्छा विविधा रुजश्च
वर्णाश्च शुक्लारुणवर्णवर्ज्या: ॥१२०॥
कण्डूर्गुरुत्वं सितविज्जलत्वं
स्नेहोऽरुचिर्जाड्यकफप्रसेकौ।
उत्क्लेशमन्दानलता च तन्द्रा
रुजश्च मन्दा: कफवक्त्ररोगे॥१२१॥
सर्वाणि रूपाणि तु वक्त्ररोगे
भवन्ति यस्मिन् स तु सर्वज: स्यात्।
संस्थानदूष्याकृतिनामभेदाच्चैते चतु:षष्टिविधा भवन्ति॥१२२॥
शालाक्यतन्त्रेऽभिहितानि तेषां निमित्तरूपाकृतिभेषजानि।
यथाप्रदेशं तु चतुर्विधस्य
क्रियां प्रवक्ष्यामि मुखामयस्य॥१२३॥
इति मुखरोगनिदानम्।
वातादिभि: शोकभयातिलोभक्रोधैर्मनोघ्नाशनगन्धरूपै: ।
अरोचका: स्यु: परिहृष्टदन्त:
कषायवक्त्रश्च मतोऽनिलेन॥१२४॥
कट्वम्लमुष्णं विरसं च पूति
पित्तेन विद्याल्लवणं च वक्त्रम्।
माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसंबद्धयुतं कफेन॥१२५॥
अरोचके शोकभयानिलोभक्रोधाद्यहृद्याशनगन्धजे स्यात्।
स्वाभाविकं वक्त्रमथारुचिश्च
त्रिदोषजे नैकरसं भवेत्तु॥१२६॥
इत्यरोचकनिदानम्।
नादोऽतिरुक्वर्णमलस्य शोष:
स्रावस्तनुश्चाश्रवणं च वातात्।
शोफ: सरागो दरणं विदाह:
सपीतपूतिश्रवणं च पित्तात्॥१२७॥
वैश्रुत्यकण्डुस्थिरशोफशुक्लस्निग्धश्रुति: श्लेष्मभवेऽल्परुक् च।
सर्वाणि रूपाणि तु सन्निपातात्
स्रावश्च तत्राधिकदोषवर्ण: ॥१२८॥
इति कर्णरोगनिदानम्।
अल्पस्तु रागोऽनुपदेहवांश्च
सतोदभेदोऽनिलजाक्षिरोगे।
पित्तात् सदाहोऽतिरुज: सराग:
पीतोपदेह: सुभृशोष्णवाही॥१२९॥
शुक्लोपदेहं बहुपिच्छिलाश्रु
नेत्रं कफात् स्याद्गुरुता सकण्डु: ।
सर्वाणि रूपाणि तु सन्निपातान्नेत्रामया: षण्णवतिस्तु भेदात्॥१३०॥
तेषामभिव्यक्तिरभिप्रदिष्टा
शालाक्यतन्त्रेषु चिकित्सितं च।
पराधिकारे तु न विस्तरोक्ति:
शस्तेति तेनात्र न न: प्रयास: ॥१३१॥
इति नेत्ररोगनिदानम्।
तेजोऽनिलाद्यै: सह केशभूमिं
दग्ध्वाऽऽशु कुर्यात् खलतिं नरस्य।
किंचित्तु दग्ध्वा पलितानि कुर्याद्धरिप्रभत्वं च शिरोरुहाणाम्॥१३२॥
इत्यूर्ध्वजत्रूत्थगदैकदेशस्तन्त्रे निबद्धोऽयमशून्यतार्थम्।
अत: परं भेषजसंग्रहं तु
निबोध संक्षेपत उच्यमानम्॥१३३॥
इति खालित्यरोगनिदानम्।
वातात् सकासवैस्वर्ये सक्षारं पीनसे घृतम्।
पिबेद्रसं पयश्चोष्णं स्नैहिकं धूममेव वा॥१३४॥
शताह्वा त्वग्बला मूलं स्योनाकैरण्ड बिल्वजम्।
सारग्वधं पिबेद्वर्तिं मधूच्छिष्टवसाघृतै: ॥१३५॥
अथवा सघृतान् सक्तून् कृत्वा मल्लकसंपुटे।
नवप्रतिश्यायवतां धूमं वैद्य: प्रयोजयेत्॥१३६॥
शङ्खमूर्धललाटार्तौ पाणिस्वेदोपनाहनम्।
स्वभ्यक्ते क्षवथुस्रावरोधादौ संकरादय: ॥१३७॥
घ्रेयाश्च रोहिषाजाजीवचातर्कारिचोरका: ।
त्वक्पत्रमरिचैलानां चूर्णा वा सोपकुञ्चिका: ॥१३८॥
स्रोत:शृङ्गाटनासाक्षिशोषे तैलं च नावनम्।
प्रभाव्याजे तिलान् क्षीरे तेन पिष्टांस्तदुष्मणा॥१३९॥
मन्दस्विन्नान् सयष्ट्याह्वचूर्णांस्तेनैव पीडयेत्।
दशमूलस्य निष्क्वाथे रास्नामधुककल्कवत्॥१४०॥
सिद्धं ससैन्धवं तैलं दशकृत्वोऽणु तत् स्मृतम्।
स्निग्धस्यास्थापनैर्दोषं निर्हरेद्वातपीनसे॥१४१॥
स्निग्धाम्लोष्णैश्च लघ्वन्नं ग्राम्यादीनां रसैर्हितम्।
उष्णाम्बुना स्नानपाने निवातोष्णप्रतिश्रय: ॥१४२॥
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतो भवेत्।
वातजे पीनसे धीमानिच्छन्नेवात्मनो हितम्॥१४३॥
पैत्ते सर्पि: पिबेत् सिद्धं शृङ्गवेरशृतं पय: ।
पाचनार्थं पिबेत् पक्वे कार्यं मूर्धविरेचनम्॥१४४॥
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवै: ।
दन्त्या च साधितं तैलं नस्यं स्यात् पक्वपीनसे॥१४५॥
पूयास्रे रक्तपित्तघ्ना: कषाया नावनानि च।
पाकदाहाढ्यरूक्षेषु शीता लेपा: ससेचना: ॥१४६॥
घ्रेयनस्योपचाराश्च कषाया: स्वादुशीतला: ।
मन्दपित्ते प्रतिश्याये स्निग्धै: कुर्याद्विरेचनम्॥१४७॥
घृतं क्षीरं यवा: शालिर्गोधूमा जाङ्गला रसा: ।
शीताम्लास्तिक्तशाकानि यूषा मुद्गादिभिर्हिता: ॥१४८॥
गौरवारोचकेष्वादौ लङ्घनं कफपीनसे।
स्वेदा: सेकाश्च पाकार्थं लिप्ते शिरसि सर्पिषा॥१४९॥
लशुनं मुद्गचूर्णेन व्योषक्षारघृतैर्युतम्।
देयं कफघ्नवमनमुत्क्लिष्टश्लेष्मणे हितम्॥१५०॥
अपीनसे पूतिनस्ये घ्राणस्रावे सकण्डुके।
धूम: शस्तोऽवपीडश्च कटुभि: कफपीनसे॥१५१॥
मन:शिला वचा व्योषं विडङ्गं हिङ्गु गुग्गुलु: ।
चूर्णो घ्रेय: प्रधमनं कटुभिश्च फलैस्तथा॥१५२॥
भार्गीमदनतर्कारीसुरसादिविपाचिते।
मूत्रे लाक्षा वचा लम्बा विडङ्गं कुष्ठपिप्पल्ली॥१५३॥
कृत्वा कल्कं करञ्जं च तैलं तै: सार्षपं पचेत्।
पाकान्मुक्ते घने नस्यमेतन्मेदोनिभे कफे॥१५४॥
स्निग्धस्य व्याहते वेगे च्छर्दनं कफपीनसे।
वमनीयशृतक्षीरतिलमाषयवागुना॥१५५॥
वार्ताककुलकव्योषकुलत्थाढकिमुद्गजा: ।
यूषा: कफघ्नमन्नं च शस्तमुष्णाम्बुसेच(व)नम्॥१५६॥
सर्वजित् पीनसे दुष्टे कार्यं शोफे च शोफजित्।
क्षारोऽर्बुदाधिमांसेषु क्रिया शेषेष्ववेक्ष्य च॥१५७॥
इति पीनसनासारोगचिकित्सा।
वातिके शिरसो रोगे स्नेहान् स्वेदान् सनावनान्।
पानान्नमुपनाहांश्च कुर्याद्वातामयापहान्॥१५८॥
तैलभृष्टैरगुर्वाद्यै: सुखोष्णैरुपनाहनम्।
जीवनीयै: सुमनसा मत्स्यैर्मांसैश्च शस्यते॥१५९॥
रास्नास्थिरादिभि: सिद्धं सक्षीरं नस्यमर्तिनुत्।
तैलं रास्नाद्विकाकोलीशर्कराभिरथापि वा॥१६०॥
बलामधूकयष्ट्याह्वविदारीचन्दनोत्पलै: ।
जीवकर्षभकद्राक्षाशर्कराभिश्च साधित: ॥१६१॥
प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे।
नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्॥१६२॥
दशमूलबलारास्नात्रिफलामधुकै: सह।
मयूरं पक्षपित्तान्त्रशकृत्तुण्डाङ्घ्रिवर्जितम्॥१६३॥
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्।
मधुरै: कार्षिकै: कल्कै: शिरोरोगार्दितापहम्॥१६४॥
कर्णाक्षिनासिकाजिह्वाताल्वास्यगलरोगनुत्।
मायूरमितिविख्यातमूर्ध्वजत्रुगदापहम्॥१६५॥
इति मायूरघृतम्।
एतेनैव कषायेण घृतप्रस्थं विपाचयेत्।
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकै: ॥१६६॥
जीवन्तीत्रिफलामेदामृद्वीकर्धिपरूषकै: ।
समङ्गाचविकाभार्गीकाश्मरीसुरदारुभि: ॥१६७॥
आत्मगुप्तामहामेदातालखर्जूरमस्तकै: ।
मृणालबिसशालूकशृङ्गीजीवकपद्मकै: ॥१६८॥
शतावरीविदारीक्षुबृहतीसारिवायुगै: ।
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकै: ॥१६९॥
रास्नास्थिरातामलकीसूक्ष्मैलाशटिपौष्करै: ।
पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकै: ॥१७०॥
खर्जूराक्षोटवाताममुञ्जाताभिषुकैरपि।
द्रव्यैरेभिर्यथालाभं पूर्वकल्पेन साधितम्॥१७१॥
नस्ये पाने तथाऽभ्यङ्गे बस्तौ चैव प्रयोजयेत्।
शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे॥१७२॥
मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते।
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्॥१७३॥
ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते।
महामायूरमित्येतद्घृतमात्रेयपूजितम्॥१७४॥
इति महामायूरघृतम्।
आखुभि: कुक्कुटैर्हंसै: शशैश्चापि हि बुद्धिमान्।
कल्पेनानेन विपचेत् सर्पिरूर्ध्वगदापहम्॥१७५॥
पैत्ते घृतं पय: सेका: शीता लेपा: सनावना: ।
जीवनीयानि सर्पींषि पानान्नं चापि पित्तनुत्॥१७६॥
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलै: ।
क्षीरपिष्टै: प्रदेह: स्याच्छृतैर्वा परिषेचनम्॥१७७॥
त्वक्पत्रशर्कराकल्क: सुपिष्टस्तण्डुलाम्बुना।
कार्योऽवपीड: सर्पिश्च नस्यं तस्यानु पैत्तिके॥१७८॥
यष्ट्याह्वचन्दनानन्ताक्षीरसिद्धं घृतं हितम्।
नावनं शर्कराद्राक्षामधूकैर्वाऽपि पित्तजे॥१७९॥
कफजे स्वेदितं धूमनस्यप्रधमनादिभि: ।
शुद्धंप्रलेपपानान्नै: कफघ्नै: समुपाचरेत्॥१८०॥
पुराणसर्पिष: पानैस्तीक्ष्णैर्बस्तिभिरेव च।
कफानिलोत्थिते दाह: शेषयो रक्तमोक्षणम्॥१८१॥
एरण्डनलदक्षौमगुग्गुल्वगुरुचन्दनै: ।
धूमवर्तिं पिबेद्गन्धैरकुष्ठतगरैस्तथा॥१८२॥
सन्निपातभवे कार्या सन्निपातहिता क्रिया।
क्रिमिजे चैव कर्तव्यं तीक्ष्णं मूर्धविरेचनम्॥१८३॥
त्वग्दन्तीव्याघ्रकरजविडङ्गनवमालिका: ।
अपामार्गफलं बीजं नक्तमालशिरीषयो: ।
क्षवकोऽश्मन्तको बिल्वं हरिद्रा हिङ्गु यूथिका॥१८४॥
फणिज्झकश्च तैस्तैलमविमूत्रे चतुर्गुणे।
सिद्धं स्यान्नावनं चूर्णं चैषां प्रधमनं हितम्॥१८५॥
फलं शिग्रुकरञ्जाभ्यां सव्योषं चावपीडक: ।
कषाय: स्वरस: क्षारश्चूर्णं कल्कोऽवपीडक: ॥१८६॥
शुक्ततिक्तकटुक्षौद्रकषायै: कवलग्रह: ।
इति शिरोरोगचिकित्सा।
धूम: प्रधमनं शुद्धिरधश्छर्दनलङ्घनम्॥१८७॥
भोज्यं च मुखरोगेषु यथास्वं दोषनुद्धितम्।
पिप्पल्यगुरुदार्वीत्वग्यवक्षाररसाञ्जनम्॥१८८॥
पाठां तेजोवतीं पथ्यां समभागं विचूर्णयेत्।
मुखरोगेषु सर्वेषु सक्षौद्रं तद्विधारयेत्॥१८९॥
सीधुमाधवमाध्वीकै: श्रेष्ठोऽयं कवलग्रह: ।
तेजोह्वामभयामेलां समङ्गांकटुकां घनम्॥१९०॥
पाठां ज्योतिष्मतीं लोध्रं दार्वीं कुष्ठं च चूर्णयेत्।
दन्तानां घर्षणं रक्तस्रावकण्डूरुजापहम्॥१९१॥
पञ्चकोलकतालीसपत्रैलामरिचत्वच: ।
पलाशमुष्ककक्षारयवक्षाराश्च चूर्णिता: ॥१९२॥
गुडे पुराणे द्विगुणे क्वथिते गुटिका: कृता: ।
कर्कन्धुमात्रा: सप्ताहं स्थितामुष्ककभस्मनि॥१९३॥
कण्ठरोगेषु सर्वेषु धार्या: स्युरमृतोपमा: ।
गृहधूमो यवक्षार: पाठा व्योषं रसाञ्जनम्॥१९४॥
तेजोह्वा त्रिफला लोध्रं चित्रकश्चेति चूर्णितम्।
सक्षौद्रं धारयेदेतद्गलरोगविनाशनम्॥१९५॥
कालकं नाम तच्चूर्णं दन्तास्यगलरोगनुत्।
इतिकालकचूर्णम्।
मन:शिला यवक्षारो हरितालं ससैन्धवम्॥१९६॥
दार्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम्।
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्॥१९७॥
मुखरोगेषु च श्रेष्ठं पीतकं नाम कीर्तितम्।
इति पीतकचूर्णम्।
मृद्वीका कटुका व्योषं दार्वीत्वक् त्रिफला घनम्॥१९८॥
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत्।
पाठा रसाञ्जनं मूर्वा तेजोह्वेति च चूर्णितम्॥१९९॥
क्षौद्रयुक्तं विधातव्यं गलरोगे भिषग्जितम्।
योगास्त्वेते त्रय: प्रोक्ता वातपित्तकफापहा: ॥२००॥
कटुकातिविषापाठादार्वीमुस्तकलिङ्गका: ।
गोमूत्रक्वथिता: पेया: कण्ठरोगविनाशना: ॥२०१॥
स्वरस: क्वथितो दार्व्या घनीभूतो रसक्रिया।
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा॥२०२॥
तालुशोषे त्वतृष्णस्य सर्पिरौत्तरभक्तिकम्।
नावनं मधुरा: स्निग्धा: शीताश्चैव रसा हिता: ॥२०३॥
मुखपाके सिराकर्म शिर:कायविरेचनम्।
मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहा: ॥२०४॥
सक्षौद्रास्त्रिफलापाठामृद्वीकाजातिपल्लवा: ।
कषायतिक्तका: शीता: क्वाथाश्च मुखधावना: ॥२०५॥
तुलां खदिरसारस्य द्विगुणामरिमेदस: ।
प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भस: पचेत्॥२०६॥
द्रोणशेषं कषायं तं पूत्वा भूय: पचेच्छनै: ।
ततस्तस्मिन् घनीभूते चूर्णीकृत्याक्षभागिकम्॥२०७॥
चन्दनं पद्मकोशीरं मञ्जिष्ठा धातकी घनम्।
प्रपौण्डरीकं यष्ट्याह्वत्वगेलापद्मकेशरम्॥२०८॥
लाक्षां रसाञ्जनं मांसीत्रिफलालोध्रवालकम्।
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम्॥२०९॥
यवासागुरुपत्तङ्गगैरिकाञ्जनमावपेत्।
लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान्॥२१०॥
कर्पूरकुडवं चापि क्षिपेच्छीतेऽवतारिते।
ततस्तु गुटिका: कार्या: शुष्कश्चास्येन धारयेत्॥२११॥
तैलं चानेन कल्केन कषायेण च साधयेत्।
दन्तानां चलनभ्रंशशौशिर्यक्रिमिरोगनुत्॥२१२॥
मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम्।
स्रावोपलेपपैच्छिल्यवैस्वर्यगलशोषनुत्॥२१३॥
दन्तास्यगलरोगेषु सर्वेष्वेतत् परायणम्।
खदिरादिगुटीकेयं तैलं च खदिरादिकम्॥२१४॥
इति खदिरादिगुटिका तैलं च।
इति मुखरोगचिकित्सा
अरुचौ कवलग्राहा धूमा: समुखधावना: ।
मनोज्ञमन्नपानं च हर्षणाश्वासनानि च॥२१५॥
कुष्ठसौवर्चलाजाजीशर्करामरिचं बिडम्।
धात्र्येलापद्मकोशीरपिप्पल्युत्पलचन्दनम्॥२१६॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयावग्रजम्।
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुत: ॥२१७॥
सतैलमाक्षिकास्त्वेते चत्वार: कवलग्रहा: ।
चतुरोऽरोचकान् हन्युर्वाताद्येकजसर्वजान्॥२१८॥
कारवीमरिचाजाजीद्राक्षावृक्षाम्लदाडिमम्।
सौवर्चलं गुड: क्षौद्रं सर्वारोचकनाशनम्॥२१९॥
बस्तिं समीरणे, पित्ते विरेकं, वमनं कफे।
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे॥२२०॥
इत्यरोचकचिकित्सा।
कर्णशूले तु वातघ्नी हिता पीनसवत् क्रिया।
प्रदेहा: पूरणं नस्यं पाकस्रावे व्रणक्रिया: ॥२२१॥
भोज्यानि च यथादोषं कुर्यात् स्नेहांश्च पूरणान्।
हिङ्गुतुम्बरुशुण्ठीभिस्तैलं तु सार्षपं पचेत्॥२२२॥
एतद्धि पूरणं श्रेष्ठं कर्णशूलनिवारणम्।
देवदारुवचाशुण्ठीशताह्वाकुष्ठसैन्धवै: ॥२२३॥
तैलं सिद्धं बस्तमूत्रे कर्णशूलनिवारणम्।
वराटकान् समाहृत्य दहेन्मृद्भाजने नवे॥२२४॥
तद्भस्म श्च्योतयेत्तेन गन्धतैलं विपाचयेत्।
रसाञ्जनस्य शुण्ठ्याश्च कल्काभ्यां कर्णशूलनुत्॥२२५॥
शुष्कमूलकशुण्ठानां क्षारो हिङ्गु महौषधम्।
शतपुष्पा वचा कुष्ठं दारु शिग्रु रसाञ्जनम्॥२२६॥
सौवर्चलयवक्षारस्वर्जिकोद्भिदसैन्धवम्।
भूर्जग्रन्थिर्बिडं मुस्तं मधुशुक्तं चतुर्गुणम्॥२२७॥
मातुलुङ्गरसश्चैव कदल्या रस एव च।
सर्वैरेतैर्यथोद्दिष्टै: क्षारतैलं विपाचयेत्॥२२८॥
बाधिर्यं कर्णनादश्च पूयस्रावश्च दारुण: ।
क्रिमय: कर्णशूलं च पूरणादस्य नश्यति॥२२९॥
मुखकर्णाक्षिरोगेषु यथोक्तं पीनसे विधिम्।
कुर्याद्भिषक् समीक्ष्यादौ दोषकालबलाबलम्॥२३०॥
इति कर्णरोगचिकित्सा।
उत्पन्नमात्रे तरुणे नेत्ररोगे बिडालक: ।
कार्यो दाहोपदेहाश्रुशोफरागनिवारण: ॥२३१॥
नागरं सैन्धवं सर्पिर्मण्डेन च रसक्रिया।
निघृष्टं वातिके तद्वन्मधुसैन्धवगैरिकम्॥२३२॥
तथा शावरकं लोध्रं घृतभृष्टं बिडालक: ।
तद्वत् कार्यो हरीतक्या घृतभृष्टो रुजापह: ॥२३३॥
पैत्तिके चन्दनानन्तामञ्जिष्ठाभिर्बिडलक: ।
कार्य: पद्मकयष्ट्याह्वमांसीकालीयकैस्तथा॥२३४॥
गैरिकं सैन्धवं मुस्तं रोचना च रसक्रिया।
कफे कार्या तथा क्षौद्रं प्रियङ्गु: समन:शिला॥२३५॥
सन्निपाते तु सर्वै: स्याद्बहिरक्ष्णो: प्रलेपनम्।
पक्ष्माण्यस्पृश्यता कार्यं संपक्वे त्वञ्जनं त्र्यहात्॥२३६॥
आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हित: ।
कोष्ण: सैरण्डतर्कारीबृहतीमधुशिग्रुभि: ॥२३७॥
पृथ्वीकादार्विमञ्जिष्ठालाक्षाद्विमधुकोत्पलै: ।
क्वाथ: सशर्कर: शीत: पूरणं रक्तपित्तनुत्॥२३८॥
नागरत्रिफलामुस्तनिम्बवासारस: कफे।
कोष्णमाश्च्योतनं मिश्रैरोषधै: सान्निपातके॥२३९॥
बृहत्येरण्डमूलत्वक् शिग्रो: पुष्पं ससैन्धवम्।
अजाक्षीरेण पिष्टं स्याद्वर्तिर्वाताक्षिरोगनुत्॥२४०॥
सुमन:कोरका: शङ्खस्त्रिफला मधुकं बला।
पित्तरक्तापहा वर्ति: पिष्टा दिव्येन वारिणा॥२४१॥
सैन्धवं त्रिफला व्योषं शङ्खनाभि: समुद्रज: ।
फेन: शैलेयकं सर्जो वर्ति: श्लेष्माक्षिरोगनुत्॥२४२॥
अमृताह्वा बिसं बिल्वं पटोलं छागलं शकृत्।
प्रपौण्डरीकं यष्ट्याह्वं दार्वी कालानुसारिवा॥२४३॥
एषामष्टपलान् भागान् सुधौताञ्जर्जरीकृतान्।
तोये पक्त्वा रसे पूते भूय: पक्वे रसे घने॥२४४॥
कर्षं च श्वेतमरिचाज्जातीपुष्पान्नवात् पलम्।
चूर्णं क्षिप्त्वा कृता वर्ति: सर्वघ्नी दृक्प्रसादनी॥२४५॥
शङ्खप्रवालवैदूर्यलौहताम्रप्लवास्थिभि: ।
स्रोतोजश्वेतमरिचैर्वर्ति: सर्वाक्षिरोगनुत्॥२४६॥
शाणार्धं मरिचाद्द्वौ च पिप्पल्यर्णवफेनयो: ।
शाणार्धं सैन्धवाच्छाणा नव सौवीरकाञ्जनात्॥२४७॥
पिष्टं सुसूक्ष्मं चित्रायां चूर्णाञ्जनमिदं शुभम्।
कण्डूकाचकफार्तानां मलानां च विशोधनम्॥२४८॥
बस्तमूत्रे त्र्यहं स्थाप्यमेलाचूर्णं सुभावितम्।
चूर्णाञ्जनं हि तैमिर्या क्रिमिपिल्लमलापहम्॥२४९॥
सौवीरमञ्जनं तुत्थं ताप्यो धातुर्मन:शिला।
चक्षुष्या मधुकं लोहा मणय: पौष्पमञ्जनम्॥२५०॥
सैन्धवं शौकरी दंष्ट्रा कतकं चाञ्जनं शुभम्।
तिमिरादिषु चूर्णं वा वर्तिर्वेयमनुत्तमा॥२५१॥
कतकस्य फलं शङ्ख: सैन्धवं त्र्यूषणं सिता।
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मन:शिला॥२५२॥
कुक्कुटाण्ड कपालानि वर्तिरेषा व्यपोहति।
तिमिरं पटलं काचं मलं चाशु सुखावती॥२५३॥
इति सुखावती वर्ति: ।
त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रज:।
नीलोत्पलं विडङ्गानि फेनं च सरितां पते: ॥२५४॥
आजेन पयसा पिष्ट्वा भावयेत्ताम्रभाजने।
सप्तरात्रं स्थितं भूय: पिष्ट्वा क्षीरेण वर्तयेत्॥२५५॥
एषा दृष्टिप्रदा वर्तिरन्धस्याभिन्नचक्षुष: ।
इति दृष्टिप्रदा वर्ति: ।
वदने कृष्णसर्पस्य निहितं मासमञ्जनम्॥२५६॥
ततस्तस्मात् समृद्धृत्य सुशुष्कं चूर्णयेद्बुध: ।
सुमन:कोरकै: शुष्कैरर्धांशै: सैन्धवेन च॥२५७॥
एतन्नेत्राञ्जनं कार्यं तिमिरघ्नमनुत्तमम्।
पिप्पल्य: किंशुकरसो वसा सर्पस्य सैन्धवम्॥२५८॥
जीर्णं घृतं च सर्वाक्षिरोगघ्नी स्याद्रसक्रिया।
कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रिया॥२५९॥
शस्ता सर्वाक्षिरोगेषु काचार्बुदमलेषु च।
धात्रीरसाञ्जनक्षौद्रसर्पिर्भिस्तु रसक्रिया॥२६०॥
पित्तरक्तक्षिरोगघ्नी तैमिर्यपटलापहा।
धात्रीसैन्धवपिप्पल्य: स्युरल्पमरिचा: समा: ॥२६१॥
क्षौद्रयुक्ता निहन्त्यान्ध्यं पटलं च रसक्रिया।
इति नेत्ररोगचिकित्सा।
खालित्ये पलिते वल्यां हरिलोम्नि च शोधितम्॥२६२॥
नस्यैस्तैलै: शिरोवक्त्रप्रलेपैश्चाप्युपाचरेत्।
सिद्धं विदारीगन्धाद्यैर्जीवनीयैरथापि च॥२६३॥
नस्यं स्यादणुतैलं वा खालित्यपलिताहम्।
क्षीरात् सहचराद्भृङ्गराजाच्च सौरसाद्रसात्॥२६४॥
प्रस्थैस्तु कुडवस्तैलाद्यष्ट्याह्वपलकल्कित: ।
सिद्ध: शिलासमे भाण्डे मेषशृङ्गादिषु स्थित: ॥२६५॥
नस्यं स्याद्भिषजा सम्यग्योजितं पलितापहम्।
भिषजा क्षीरपिष्टौ वा दुग्धिका करवीरकौ॥२६६॥
उत्पाट्य पलिते देयौ तावुभौ पलितापहौ।
मार्कवस्वरसात् क्षीराद्द्विप्रस्थं मधुकात् पलम्॥२६७॥
तै: पचेत् कुडवं तैलात्तन्नस्यं पलितापहम्।
आदित्यवल्ल्या मूलानि कृष्णशैरेयकस्य च॥२६८॥
सुरसस्य च पत्राणि पत्रं कृष्णशणस्य च।
मार्कव: काकमाची च मधुकं देवदारु च॥२६९॥
पृथग्दशपलांशानि पिप्पल्यस्त्रिफलाऽञ्जनम्।
प्रपौण्डरीकं मञ्जिष्ठा लोध्रं कृष्णागुरूत्पलम्॥२७०॥
आम्रास्थि कर्दम: कृष्णो मृणालं रक्तचन्दनम्।
नीली भल्लातकास्थीनि कासीसं मदयन्तिका॥२७१॥
सोमराज्यसन: शस्त्रं कृष्णौ पिण्डीतचित्रकौ।
पुष्करार्जुनकाश्मर्याण्याम्रजम्बूफलानि च॥२७२॥
पृथक् पञ्चपलांशानि तै: पिष्टैराढकं पचेत्।
बैभीतकस्य तैलस्य धात्रीरसचतुर्गुणम्॥२७३॥
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रस: ।
लोहपात्रे तत: पूतं संशुद्धमुपयोजयेत्॥२७४॥
पाने नस्यक्रियायां च शिरोभ्यङ्गे तथैव च।
एतच्चक्षुष्यमायुष्यं शिरस: सर्वरोगनुत्॥२७५॥
महानीलमिति ख्यातं पलितघ्नमनुत्तमम्।
इति महानीलतैलम्।
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलै: ॥२७६॥
कार्षिकैस्तैलकुडवो द्विगुणामलकीरस: ।
सिद्ध: स प्रतिमर्श: स्यात् सर्वमूर्धगदापह: ॥२७७॥
(पलितघ्नो विशेषेण कृष्णात्रेयेण भाषित: ।)
क्षीरं प्रियालयष्ट्याह्वे जीवकाद्यो गणस्तिला: ॥२७८॥
कृष्णा वक्त्रे प्रलेप: स्याद्धरिलोमनिवारण: ।
तिला: सामलकाश्चैव किञ्जल्को मधुकं मधु॥२७९॥
बृंहयेद्रञ्जयेचैतत् केशान्मूर्धप्रलेपनात्।
पचेत्सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम्॥२८०॥
तेनालिप्तं शिर: शुद्धमस्निग्धमुषितं निशि।
तत् प्रातस्त्रिफलाधौतं स्यात् कृष्णमृदुमूर्धजम्॥२८१॥
अयश्चूर्णोऽम्लपिष्टश्च राग: सत्रिफलो वर: ।
कुर्याच्छेषेषु रोगेषु क्रियां स्वां स्वाच्चिकित्सितात्।
शेषेष्वादौ च निर्दिष्टा सिद्धौ चान्या प्रवक्ष्यते॥२८२॥
इति खालित्यादिचिकित्सा।
सर्पींष्युपरिभक्तानि स्वरभेदेऽनिलात्मके।
तैलैश्चतुष्प्रयोगैश्च बलारास्नामृताह्वयै: ॥२८३॥
बर्हितित्तिरिदक्षाणां पञ्चमूलशृतान् रसान्।
मायूरं क्षीरसर्पिर्वा पिबेत् त्र्यूषणमेव वा॥२८४॥
पैत्तिके तु विरेक: स्यात् पयश्चमधुरै: शृतम्।
सर्पिर्गुडा घृतं तिक्तं जीवनीयं वृषस्य वा॥२८५॥
कफजे स्वरभेदे तु तीक्ष्णं मूर्धविरेचनम्।
विरेको वमनं धूमो यवान्नकटुसेवनम्॥२८६॥
चव्यभार्ग्यभयाव्योषक्षारमाक्षिकचित्रकान्।
लिह्याद्वा पिप्पलीपथ्ये तीक्ष्णं मद्यं पिबेच्च स: ॥२८७॥
रक्तजे स्वरभेदे तु सघृता जाङ्गला रसा: ।
द्राक्षाविदारीक्षुरसा: सघृतक्षौद्रशर्करा: ॥२८८॥
यच्चोक्तं क्षयकासघ्नं तच्च सर्वं चिकित्सितम्।
पित्तजस्वरभेदघ्नं सिरावेधश्च रक्तजे॥२८९॥
सन्निपाते हिता: सर्वा: क्रिया न तु सिराव्यध: ।
इत्युक्तं स्वरभेदस्य समासेन चिकित्सितम्॥२९०॥
इति स्वरभेदचिकित्सा।
भवन्ति चात्र–
वातपित्तकफा नॄणां बस्तिहृन्मूर्धसंश्रया: ।
तस्मात्तत्स्थानसमीप्याद्धर्तव्या वमनादिभि: ॥२९१॥
अध्यात्मलोको वाताद्यैर्लोको वातरवीन्दुभि: ।
पीड्यते धार्यते चैव विकृताविकृतैस्तथा॥२९२॥
विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्।
दोषा: सहजसात्म्यत्वाद्विषं घोरमहीनिव॥२९३॥
तत्र श्लोक:–
त्रिमर्मजानां रोगाणां निदानाकृतिभेषजम्।
विस्तरेण पृथग्दिष्टं त्रिमर्मीये चिकित्सिते॥२९४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने त्रिमर्मीयचिकित्सितं नाम षड्विंशोऽध्याय:
॥२६॥
Last updated on June 30th, 2021 at 11:14 am