सुश्रुतसंहिता ।
सूत्रस्थानम् ।
चतुर्विंशतितमोऽध्याय: ।
अथातो व्याधिसमुद्देशीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
द्विविधास्तु व्याधयः- शस्त्रसाध्याः, स्नेहादिक्रियासाध्याश्च |
तत्र शस्त्रसाध्येषु स्नेहादिक्रिया न प्रतिषिध्यते, स्नेहादिक्रियासाध्येषु शस्त्रकर्म न क्रियते ||३||
अस्मिन् पुनः शास्त्रे सर्वतन्त्रसामान्यात् सर्वेषां व्याधीनां यथास्थूलमवरोधः क्रियते |
प्रागभिहितं ‘तद्दुःखसंयोगा व्याधय’(सू. अ. १) इति |
तच्च दुःखं त्रिविधम्- आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकमिति |
तत्तु सप्तविधे व्याधावुपनिपतति |
ते पुनः सप्तविधा व्याधयः; तद्यथा- आदिबलप्रवृत्ताः, जन्मबलप्रवृत्ताः, दोषबलप्रवृत्ताः, सङ्घातबलप्रवृत्ताः, कालबलप्रवृत्ताः, दैवबलप्रवृत्ताः, स्वभावबलप्रवृत्ता इति ||४||
तत्र, आदिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः; तेऽपि द्विविधाः- मातृजाः, पितृजाश्च |
जन्मबलप्रवृत्ता ये मातुरपचारात् पङ्गुजात्यन्धबधिरमूकमिन्मिनवामनप्रभृतयो जायन्ते; तेऽपि द्विविधाः रसकृताः, दौहृदापचारकृताश्च |
दोषबलप्रवृत्ता ये आतङ्कसमुत्पन्ना मिथ्याहाराचारकृताश्च; तेऽपि द्विविधाः आमाशयसमुत्थाः, पक्वाशयसमुत्थाश्च; पुनश्च द्विविधाः- शारीरा, मानसाश्च |
त एते आध्यात्मिकाः ||५||
सङ्घातबलप्रवृत्ता य आगन्तवो दुर्बलस्य बलवद्विग्रहात्; तेऽपि द्विविधाः- शस्त्रकृता, व्यालकृताश्च |
एते आधिभौतिकाः ||६||
कालबलप्रवृत्ता ये शीतोष्णवातवर्षातपप्रभृतिनिमित्ताः; तेऽपि द्विविधाः- व्यापन्नर्तुकृताः, अव्यापन्नर्तुकृताश्च |
दैवबलप्रवृता ये देवद्रोहादभिशप्तका अथर्वणकृता उपसर्गजाश्च; तेऽपि द्विविधाः- विद्युदशनिकृताः, पिशाचादिकृताश्च; पुनश्च द्विविधाः- संसर्गजा, आकस्मिकाश्च |
स्वभावबलप्रवृत्ता ये क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयः; तेऽपि द्विविधाः- कालजा, अकालजाश्च; तत्र परिरक्षणकृताः कालजाः, अपरिरक्षणकृता अकालजाः |
एते आधिदैविकाः |
अत्र सर्वव्याध्यवरोधः ||७||
सर्वेषां च व्याधीनां वातपित्तश्लेष्माण एव मूलं; तल्लिङ्गत्वाद्दृष्टफलत्वादागमाच्च |
यथा हि कृत्स्नं विकारजातं विश्वरूपेणावस्थितं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते, एवमेव कृत्स्नं विकारजातं विश्वरूपेणावस्थितमव्यतिरिच्य वातपित्तश्लेष्माणो वर्तन्ते |
दोषधातुमलसंसर्गादायतनविशेषान्निमित्ततश्चैषां विकल्पः |
दोषदूषितेष्वत्यर्थं धातुषु सञ्ज्ञा- रसजोऽयं, शोणितजोऽयं, मांसजोऽयं, मेदोजोऽयं, अस्थिजोऽयं मज्जजोऽयं, शुक्रजोऽयं व्याधिरिति ||८||
तत्र, अन्नाश्रद्धारोचकाविपाकाङ्गमर्दज्वरहृल्लासतृप्तिगौरवहृत्पाण्डुरोगमार्गोपरोधकार्श्यवैरस्याङ्गसादाकालजवलीपलितदर्शनप्रभृतयो रसदोषजा विकाराः; कुष्ठविसर्पपिडकामशकनीलिकातिलकालकन्यच्छव्यङ्गेन्द्रलुप्तप्लीहविद्रधिगुल्मवातशोणितार्शोऽर्बुदाङ्गमर्दासृग्दररक्तपित्तप्रभृतयो रक्तदोषजाः, गुदमुखमेढ्रपाकाश्च; अधिमांसार्बुदार्शोऽधिजिह्वोपजिह्वोपकुशगलशुण्डिकालजीमांससङ्घातौष्ठप्रकोपगलगण्डगण्डमालाप्रभृतयो मांसदोषजाः; ग्रन्थिवृद्धिगलगण्डार्बुदमेदोजौष्ठप्रकोपमधुमेहातिस्थौल्यातिस्वेदप्रभृतयो मेदोदोषजाः; अध्यस्थ्यधिदन्तास्थितोदशूलकुनखप्रभृतयोऽस्थिदोषजाः; तमोदर्शनमूर्च्छाभ्रमपर्वस्थूलमूलारुर्जन्मनेत्राभिष्यन्दप्रभृतयो मज्जदोषजाः; क्लैब्याप्रहर्षशुक्राश्मरीशुक्रमेहशुक्रदोषादयश्च तद्दोषाः; त्वग्दोषाः सङ्गोऽतिप्रवृत्तिरयथाप्रवृत्तिर्वा मलायतनदोषाः; इन्द्रियाणामप्रवृत्तिरयथाप्रवृत्तिर्वेन्द्रियायतनदोषाः; इत्येष समास उक्तः; विस्तरं निमित्तानि चैषां प्रतिरोगं वक्ष्यामः ||९||
भवति चात्र-
कुपितानां हि दोषाणां शरीरे परिधावताम् |
यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते ||१०||
भूयोऽत्र जिज्ञास्यं, किं वातादीनां ज्वरादीनां च नित्यः संश्लेषः परिच्छेदो वा? इति; यदि नित्यः संश्लेषः स्यात्तर्हि नित्यातुराः सर्व एव प्राणिनः स्युः; अथाप्यन्यथा वातादीनां ज्वरादीनां च, ‘अन्यत्र वर्तमानानामन्यत्र लिङ्गं न भवति’ इति कृत्वा यदुच्यते वातादयो ज्वरादीनां मूलानीति तन्न |
अत्रोच्यते- दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति; अथ च न (नित्यः) सम्बन्धः; यथाहि विद्युद्वाताशनिवर्षाण्याकाशं प्रत्याख्याय न भवन्ति, सत्यप्याकाशे कदाचिन्न भवन्ति, अथ च निमित्ततस्तत एवोत्पत्तिरिति; तरङ्गबुद्बुदादयश्चोदकविशेषाः एव; वातादीनां ज्वरादीनां च नाप्येवं संश्लेषो न परिच्छेदः शाश्वतिकः, अथ च निमित्तत एवोत्पत्तिरिति ||११||
भवति चात्र-
विकारपरिमाणं च सङ्ख्या चैषां पृथक् पृथक् |
विस्तरेणोत्तरे तन्त्रे सर्वाबाधाश्च वक्ष्यते ||१२||
इति सुश्रुतसंहितायां सूत्रस्थाने व्याधिसमुद्देशीयो नाम चतुर्विंशोऽध्यायः ||२४||
Last updated on May 24th, 2021 at 06:46 am