सुश्रुसंहिता ।
अथ चिकित्सास्थानम् ।
चतुर्विंशतितमोऽध्यायः ।
अथातोऽनागताबाधाप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता |
धीमता यदनुष्ठेयं तत् सर्वं सम्प्रवक्ष्यते ||३||
तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् |
कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम् ||४||
अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम् |
अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत् ||५||
कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः |
निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ||६||
मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा |
क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ||७||
चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत् |
एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ||८||
दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन् |
तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ||९||
वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च |
न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे ||१०||
अथास्यपाके श्वासे च कासहिक्कावमीषु च |
दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्तो मदपीडितः ||११||
शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः |
अर्दिती कर्णशूली च दन्तरोगी च मानवः ||१२||
जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च |
तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् ||१३||
मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम् |
दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम् ||१४||
क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः |
भिल्लोटककषायेण तथैवामलकस्य वा ||१५||
प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा |
नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च ||१६||
रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत् |
सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा ||१७||
मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् |
दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् ||१८||
तेजोरूपावहं चैव सहते मारुतातपौ |
न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् ||१९||
भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः |
रात्रौ जागरितश्चापि नाञ्ज्याज्वरित एव च ||२०||
कर्पूरजातीकङ्कोललवङ्गकटुकाह्वयैः |
सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् ||२१||
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम् |
हनुदन्तस्वरमलजिह्वेन्द्रियविशोधनम् ||२२||
प्रसेकशमनं हृद्यं गलामयविनाशनम् |
पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे ||२३||
रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम् |
रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् ||२४||
शिरोगतांस्तथा रोगाञ्छिरोभङ्गोऽपकर्षति |
केशानां मार्दवं दैर्ध्यं बहुत्वं स्निग्धकृष्णताम् ||२५||
करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम् |
सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम् ||२६||
मधुकं क्षीरशुक्ला च सरलं देवदारु च |
क्षुद्रकं पञ्चनामानं समभागानि संहरेत् ||२७||
तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत् |
सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् ||२८||
केशप्रसाधनी केश्या रजोजन्तुमलापहा |
हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम् ||२९||
अभ्यङ्गो मार्दवकरः कफवातनिरोधनः |
धातूनां पुष्टिजननो मृजावर्णबलप्रदः ||३०||
सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः |
क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ||३१||
जलसिक्तस्य वर्धन्ते यथा मूलेऽङ्कुरास्तरोः |
तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ||३२||
सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन् |
शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ||३३||
तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित् |
तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः ||३४||
केवलं सामदोषेषु न कथञ्चन योजयेत् |
तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ||३५||
तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः |
पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ||३६||
शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः |
सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ||३७||
शरीरायासजननं कर्म व्यायामसञ्ज्ञितम् |
तत् कृत्वा तु सुखं देहं विमृद्गीयात् समन्ततः ||३८||
शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता |
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ||३९||
श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता |
आरोग्यं चापि परमं व्यायामादुपजायते ||४०||
न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम् |
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ||४१||
न चैनं सहसाऽऽक्रम्य जरा समधिरोहति |
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ||४२||
व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च |
व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव ||४३||
वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम् |
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ||४४||
विदग्धमविदग्धं वा निर्दोषं परिपच्यते |
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ||४५||
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः |
सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ||४६||
बलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा |
हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ||४७||
व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम् |
वयोबलशरीराणि देशकालाशनानि च ||४८||
समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात् |
क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः ||४९||
कासशोषज्वरश्वासा अतिव्यायामसम्भवाः |
रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः ||५०||
भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत् |
उद्वर्तनं वातहरं कफमेदोविलापनम् ||५१||
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् |
सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ||५२||
उद्धर्षणोत्सादनाभ्यां जायेयातामसंशयम् |
उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः ||५३||
प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम् |
उद्धर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ||५४||
ऊर्वोः सञ्जनयत्याशु फेनकः स्थैर्यलाघवे |
कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ||५५||
तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम् |
उद्धर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ||५६||
निद्रादाहश्रमहरं स्वेदकण्डूतृषापहम् |
हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविबोधनम् ||५७||
तन्द्रापाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम् |
रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ||५८||
उष्णेन शिरसः स्नानमहितं चक्षुषः सदा |
शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ||५९||
श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम् |
काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ||६०||
अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम् |
अत्युष्णमुष्णकाले च पित्तशोणितकोपनम् ||६१||
तच्चातिसारज्वरितकर्णशूलानिलार्तिषु |
आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ||६२||
सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम् |
स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम् ||६३||
स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम् |
रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ||६४||
सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम् |
मुखालेपाद्दृढं चक्षुः पीनगण्डं तथाऽऽननम् ||६५||
अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम् |
पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ||६६||
नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम् |
यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् ||६७||
देवतातिथिविप्राणां पूजनं गोत्रवर्धनम् |
आहारः प्रीणनः सद्यो बलकृद्देहधारकः ||६८||
आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः |
पादप्रक्षालनं पादमलरोगश्रमापहम् ||६९||
चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् |
निद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ||७०||
पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः |
पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ||७१||
सुखप्रचारमोजस्यं सदा पादत्रधारणम् |
अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ||७२||
पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम् |
पाप्मोपशमनं केशनखरोमापमार्जनम् ||७३||
हर्षलाघवसौभाग्यकरमुत्साहवर्धनम् |
बाणवारं मृजावर्णतेजोबलविवर्धनम् ||७४||
पवित्रं केश्यमुष्णीषं वातातपरजोपहम् |
वर्षानिलरजोघर्महिमादीनां निवारणम् ||७५||
वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम् |
शुनः सरीसृपव्यालविषाणिभ्यो भयापहम् ||७६||
श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते |
सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम् ||७७||
अवष्टम्भकरं चापि भयघ्नं दण्डधारणम् |
आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा ||७८||
अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः |
अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ||७९||
यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् |
तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम् ||८०||
श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम् |
सुखं शय्यासनं, दुःखं विपरीतगुणं मतम् ||८१||
बालव्यजनमौजस्यं मक्षिकादीनपोहति |
शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः ||८२||
प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम् |
संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम् ||८३||
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत् |
स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ||८४||
सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः |
निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ||८५||
आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत् |
दाहवैवर्ण्यकारी च छाया चैतानपोहति ||८६||
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः |
आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ||८७||
पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रिताम् |
करोति धातुसाम्यं च निद्रा काले निषेविता ||८८||
तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ, न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात् ||८९||
न राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देवब्राह्मणपितृपरिवादांश्च; न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचानुपासीत ||९०||
वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत्, पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासाग्निसम्भ्रमव्यालभुजङ्गकीटसेवाश्च, ग्रामाघातकलहशस्त्रसन्निपातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च ||९१||
नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात् |
न शवमनुयायात् |
देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत |
नास्तं गच्छन्तमुद्यन्तं वाऽऽदित्यं वीक्षेत |
गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मैचिदाचक्षीत, न चोल्कापातोत्पातेन्द्रधनूंषि |
नाग्निं मुखेनोपधमेत् |
नापो भूमिं वा पाणिपादेनाभिहन्यात् ||९२||
न वेगान् धारयेद् वातमूत्रपुरीषादीनाम् |
न बहिर्वेगान् ग्रामनगरदेवतायतनश्मशानचतुष्पथसलिलाशयपथि सन्निकृष्टानुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ||९३||
न भूमिं विलिखेत्, नासंवृतमुखः सदसि जृम्भोद्गारकासश्वासक्षवथूनुत्सृजेत्, न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् ||९४||
न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात्, न वीजयेत् केशमुखनखवस्त्रगात्राणि, न गात्रनखवक्त्रवादित्रं कुर्यात्, न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा ||९५||
स्रोतांसि पायूपस्थादीनि, एतेषां विवराणि छिद्राणि; नाभिकुष्णीयात् नाभिकर्षेत्, न मलं स्पृशेदित्यर्थः| न वीजयेत् न कम्पयेत्| न गात्रवादित्रं न गात्रं वाद्यभाण्डं कुर्यात्||९५||
न प्रतिवातातपं सेवेत, न भुक्तमात्रोऽग्निमुपासीत, नोत्कटकाल्पकाष्ठासनमध्यासीत, न ग्रीवां विषमं धारयेत्, न विषमकायः क्रियां भजेत भुञ्जीत वा, न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्ष्मचलभ्रान्तानि, न भारं शिरसा वहेत्, न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घनप्लवनप्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ||९६||
उचितादप्यहितात् क्रमशो विरमेत्, हितमनुचितमप्यासेवेत क्रमशः, न चैकान्ततः पादहीनात् ||९७||
नावाक्शिराः शयीत, न भिन्नपात्रे भुञ्जीत, न विना पात्रेण, नाञ्जलिपुटेनापः पिबेत्, काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात्, ग्रामगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिहरेत्, शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसानि, अन्यान्येवङ्गुणान्यपि सम्भ्रमदत्तानि, (तान्यपि) मक्षिकाबालोपहतानि, नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं (नोद्धृतस्नेहं) चेति ||९८||
न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः |
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ||९९||
नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना |
अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून् |
नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् ||१००||
द्यूतमद्यातिसेवाप्रतिभूत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत, स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत्, ब्राह्मणमग्निं गां च नोच्छिष्टः स्पृशेत् ||१०१||
भवन्ति चात्र-
यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम् |
तेषु तेषु प्रदातव्या रसास्ते ते विजानता ||१०२||
वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया |
वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् ||१०३||
उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् |
हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः ||१०४||
शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत् |
यूषं वर्षति, तस्यान्ते प्रपिबेच्छीतलं जलम् ||१०५||
स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः |
स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् ||१०६||
पिबेदग्निविवृद्ध्यर्थं न च वेगान् विधारयेत् |
अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति ||१०७||
प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत् |
कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरणे ||१०८||
शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः |
भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति ||१०९||
उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः |
नेच्छेद्दोषचयात् प्राज्ञः पीडां वा कायमानसीम् ||११०||
अतिस्त्रीसम्प्रयोगाच्च रक्षेदात्मानमात्मवान् |
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः ||१११||
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः |
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ||११२||
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः |
त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ||११३||
सर्वेष्वृतुषु, घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः |
रजस्वलामकामां च मलिनामप्रियां तथा ||११४||
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् |
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ||११५||
सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि |
सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः ||११६||
गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च |
लज्जासमावहे देशे विवृतेऽशुद्ध एव च ||११७||
क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः |
वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः ||११८||
तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम् |
दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत् ||११९||
रेतसश्चातिमात्रं तु मूर्धावरणमेव च |
स्थितावुत्तानशयने विशेषेणैव गर्हितम् ||१२०||
क्रीडायामपि मेधावी हितार्थी परिवर्जयेत् |
रजस्वलां प्राप्तवतो नरस्यानियतात्मनः ||१२१||
दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत् |
लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु ||१२२||
वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः |
गर्भिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः ||१२३||
हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते |
देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् ||१२४||
क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः |
स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति ||१२५||
अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः |
व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते ||१२६||
प्रत्यूषस्यर्धरात्रे च वातपित्त प्रकुप्यतः |
तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च ||१२७||
उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः |
उच्चारिते मूत्रिते च रेतसश्च विधारणे ||१२८||
उत्ताने च भवेच्छीध्रं शुक्राश्मर्यास्तु सम्भवः |
सर्वं परिहरेत्तस्मादेतल्लोकद्वयेऽहितम् ||१२९||
शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथञ्चन |
वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् ||१३०||
अभिकामोऽभिकामां तु हृष्टो हृष्टामलङ्कृताम् |
सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः ||१३१||
भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च |
स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु ||१३२||
मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम् |
आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः ||१३३||
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनागताबाधचिकित्सितं नाम चतुर्विंशोऽध्यायः ||२४||
Last updated on July 8th, 2021 at 09:32 am