द्वाविंशोऽध्यायः ।
अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान् ।
षडग्निवेशप्रमुखानुक्तवान् परिचोदयन् ॥३॥
लङ्घनं बृंहणं काले रूक्षणं स्नेहनं तथा ।
स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक् ॥४॥
तमुक्तवन्तमात्रेयमग्निवेश उवाच ह ॥५॥
भगवँल्लङ्घनं किंस्विल्लङ्घनीयाश्च किदृशाः ।
बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम् ॥६॥
के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः ।
स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो !॥७॥
लङ्घनप्रभृतीनां च षण्णामेषां समासतः ।
कृताकृतातिवृत्तानां लक्षणं वक्तुमर्हसि ॥८॥
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् ।
यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥९॥
बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम् ।
रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम् ॥१०॥
स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम् ।
स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम् ॥११॥
स्तम्भनं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम् ।
लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम् ॥१२॥
कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् ।
गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम् ॥१३॥
प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते।
रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम् ॥१४॥
प्रायशः कठिनं चैवं यद्द्रव्यं तद्धि रूक्षणम् ।
द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम् ।
प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम् ॥१५॥
उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम् ।
द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते ॥१६॥
शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम् ।
यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम् ॥१७॥
चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ ।
पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् ॥१८॥
प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः ।
बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥१९॥
येषां मध्यबला रोगाः कफपित्तसमुत्थिताः ।
वम्यतीसारहृद्रोगविसूच्यलसकज्वराः ॥२०॥
विबन्धगौरवोद्गारहृल्लासारोचकादयः ।
पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत् ॥२१॥
एत एव यथोद्दिष्टा येषामल्पबला गदाः ।
पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत् ॥२२॥
रोगाञ्जयेन्मध्यबलान् व्यायामातपमारुतैः ।
बलिनां किं पुनर्येषां रोगाणामवरं बलम् ॥२३॥
त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहिणाम् ।
शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥२४॥
अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम् ।
मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते ॥२५॥
क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः ।
स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः ॥२६॥
शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये ।
तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः ॥२७॥
स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः ।
शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम् ॥२८।
कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः ।
खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम् ॥२९॥
अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये ।
ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः ॥३०॥
स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः ।
स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम् ॥३१॥
द्रवं तन्वसरं यावच्छीतीकरणमौषधम् ।
स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत् ॥३२॥
पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः ।
विषस्वेदातियोगार्ताः स्तम्भनीया निदर्शिताः ॥३३॥
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे ।
हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते ॥३४॥
स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये ।
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥३५॥
पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च ।
क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ॥३६॥
मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि ।
देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत् ॥३७॥
बलं पुष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम् ।
लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते ॥३८॥
कृतातिकृतलिङ्गं यल्लङ्घिते तद्धि रूक्षिते ।
स्तम्भितः स्याद्बले ले लब्धे यथोक्तैश्चामयैर्जितैः ॥३९॥
श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसंग्रहः ।
हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम् ॥४०॥
लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः ।
तदौषधानां धातूनामशमो वृद्धिरेव च ॥४१॥
इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः ।
साध्यानां साधने सिद्धा मात्राकालानुरोधिनः ॥४२॥
भवति चात्र —
दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्युपक्रमाः ।
षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा ॥४३॥
तत्र श्लोकाः–
इत्यस्मिंलङ्घनाध्याये व्याख्याताः षडुपक्रमाः ।
यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते ॥४४॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने योजनाचतुष्के
लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः ॥२२॥
Last updated on June 1st, 2021 at 11:14 am