अष्टाङ्गहृदयस्य (सूत्रस्थानम्) नस्यविधिः
विंशोऽध्यायः।
अथातो नस्यविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
ऊर्ध्वजत्रुविकारेषु विशेषान्नस्यमिष्यते।
नासा हि शिरसो द्वारं तेन तद्व्याप्य हन्ति तान्॥१॥
विरेचनं बृंहणं च शमनं च त्रिधाऽपि तत्।
विरेचनं शिरः शूलजाड्यस्यन्दगलामये॥२॥
शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे।
बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये॥३॥
नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधेऽवबाहुके।
शमनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु॥४॥
यथास्वं यौगिकैः स्नेहैर्यथास्वं च प्रसाधितैः।
कल्कक्वाथादिभिश्चाद्यं मधुपट्वासवैरपि॥५॥
बृंहणं धन्वमांसोत्थरसासृक्खपुरैरपि।
शमनं योजयेत्पूर्वैः क्षीरेण सलिलेन वा॥६॥
मर्शश्च प्रतिमर्शश्च द्विधा स्नेहोऽत्र मात्रया।
कल्काद्यैरवपीडस्तु स तीक्ष्णैर्मूर्द्धरेचनः॥७॥
ध्मानं विरेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना।
षडङ्गुलद्विमुखया नाड्या भेषजगर्भया॥८॥
स हि भूरितरं दोषं चूर्णत्वादपकर्षति।
प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात्॥९॥
यावत्पतत्यसौ बिन्दुर्दशाष्टौ षट् क्रमेण ते।
मर्शस्योत्कृष्टमध्योना मात्रास्ता एव च क्रमात्॥१०॥
बिन्दुद्वयोनाः कल्कादेः योजयेन्न तु नावनम्।
तोयमद्यगरस्नेहपीतानां पातुमिच्छताम्॥११॥
भुक्तभक्तशिरःस्नातस्नातुकामस्रुतासृजाम्।
नवपीनसवेगार्तसूतिकाश्वासकासिनाम्॥१२॥
शुद्धानां दत्तबस्तीनां यथाऽनार्तवदुर्दिने।
अन्यत्रात्ययिकाद्व्याधेः अथ नस्यं प्रयोजयेत्॥१३॥
प्रातः श्लेष्मणि, मध्याह्ने पित्ते, सायंनिशोश्चले।
स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः॥१४॥
शीते मध्यंदिने, ग्रीष्मे सायं वर्षासु सातपे।
वाताभिभूते शिरसि हिध्मायामपतानके॥१५॥
मन्यास्तम्भे स्वरभ्रंशे सायंप्रातर्दिनेदिने।
एकाहान्तरमन्यत्र सप्ताहं च तदाचरेत्॥१६॥
स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च।
निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः॥१७॥
अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते।
किञ्चिदुन्नतपादस्य कञ्चिन्मूर्द्धनि नामिते॥१८॥
नासापुटं पिधायैकं पर्यायेण निषेचयेत्।
उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुनाऽथवा॥१९॥
दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत्।
शनैरुच्छिद्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः॥२०॥
आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यमाचरेत्।
मूर्च्छायां शीततोयेन सिञ्चेत्परिहरन् शिरः॥२१॥
स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया।
नस्यान्ते वाक्शतं तिष्ठेदुत्तानः धारयेत्ततः॥२२॥
धूमं पीत्वा कवोष्णाम्बुकवलान् कण्ठशुद्धये।
सम्यक्स्निग्धे सुखोच्छ्वासस्वप्नबोधाक्षपाटवम्॥२३॥
रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्द्धशून्यता।
स्निग्धेऽति कण्डूगुरुताप्रसेकारुचिपीनसाः॥२४॥
सुविरिक्तेऽक्षिलघुतावक्त्रस्वरविशुद्धयः।
दुर्विरिक्ते गदोद्रेकः, क्षामताऽतिविरेचिते॥२५॥
प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु।
प्रयोज्योऽकालवर्षेऽपि न त्विष्टो दुष्टपीनसे॥२६॥
मद्यपीतेऽबलश्रोत्रे कृमिदूषितमूर्द्धनि।
उत्कृष्टोत्क्लिष्टदोषे च, हीनमात्रतया हि सः॥२७॥
निशाहर्भुक्तवान्ताहः स्वप्नाध्वश्रमरेतसाम्।
शिरोभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम्॥२८॥
दन्तकाष्ठस्य हासस्य योज्योऽन्तेऽसौ द्विबिन्दुकः।
पञ्चसु स्रोतसां शुद्धिः, क्लमनाशस्त्रिषु क्रमात्॥२९॥
दृग्बलं पञ्चसु, ततो दन्तदाढर्यं मरुच्छमः।
न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे॥३०॥
न चोनाष्टादशे धूमः, कवलो नोनपञ्चमे।
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ॥३१॥
आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्।
मर्शवच्च गुणान् कुर्यात्स हि नित्योपसेवनात्॥३२॥
न चात्र यन्त्रणा नापि व्यापो मर्शवद्भयम्।
तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते॥३३॥
शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे।
आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता॥३४॥
मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि।
को मर्शं सपरीहारं सापदं च भजेत्ततः॥३५॥
अच्छपानविचाराख्यौ कुटीवातातपस्थिती।
अन्वासमात्राबस्ती च तद्वदेव विनिर्दिशेत्॥३६॥
जीवन्तीजलदेवदारुजलदत्वक्सेव्यगोपीहिमं
दार्वीत्वङ्मधुकप्लवागुरुवरीपुण्ड्राह्वबिल्वोत्पलम्।
धावन्यौ सुरभिं स्थिरे कृमिहरं पत्रं त्रुटिं रेणुकां
किञ्जल्कं कमलाद्बलां शतगुणे दिव्येऽम्भसि क्वाथयेत्॥३७॥
तैलाद्रसं दशगुणं परिशेष्य तेन
तैलं पचेत सलिलेन दशैव वारान्।
पाके क्षिपेच्च दशमे सममाजदुग्धं
नस्यं महागुणमुशन्त्यणुतैलमेतत्॥३८॥
घनोन्नतप्रसन्नत्वक्स्कन्धग्रीवास्यवक्षसः।
दृढेन्द्रियास्तपलिता भवेयुर्नस्यशीलिनः॥३९॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने नस्यविधिर्नाम विंशोऽध्यायः॥२०॥
Last updated on August 10th, 2021 at 07:29 am