Skip to content

20. Hitaahiteeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

विंशतितमोऽध्याय: ।

       अथातो हिताहितीयमध्यायं व्याख्यास्याम: ॥१॥

       यथोवाच भगवान्‌ धन्वन्तरि: ॥२॥

       यद्वायो: पथ्यं तत्‌ पित्तस्यापथ्यमित्यनेन हेतुना न किंचिद्‌द्रव्यमेकान्तेन हितमहितं वाऽस्तीति केचिदाचार्या ब्रुवते । तत्तु न सम्यक्‌, इह खलु यस्माद्‌द्रव्याणि स्वभावत: संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति ॥३॥

       तत्र, एकान्तहितानि जातिसात्म्यात्‌ सलिलघृतदुग्धौदनप्रभृतीनि, एकान्ताहितानि तु दहनपचनमारणादिषु प्रवृत्तान्यनल- क्षारविषादीनि, संयोगादपराणि विषतुल्यानि भवन्ति, हिताहितानि तु यद्वायो: पथ्यं तत्‌ पित्तस्यापथ्यमिति ॥४॥

       अत: सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते, तद्यथा – रक्तशालिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदक- कालकासनपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमयववैणवैणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्रा- करालक्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्तिकामुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाश्चिल्लिवास्तुकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्य:, गव्यं घृतं, सैन्धवं, दाडिमामलकमित्येष वर्ग: सर्वप्राणिनां सामान्यत: पथ्यतम: ॥५॥

       तथा ब्रह्मचर्यनिवातशयनोष्णोदकस्नाननिशास्वप्नव्यायामाश्चैकान्तत: पथ्यतमा: ॥६।

       एकान्तहितान्येकान्ताहितानि तु प्रागुपदिष्टानि, हिताहितानि तु यद्वायो: पथ्यं तत्‌ पित्तस्यापथ्य मिति ॥७॥

       संयोगतस्त्वपराणि विषतुल्यानि भवन्ति । तद्यथा- वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितैल- विरोहिपिष्टशुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्नीयात्‌ पयसा ॥८॥

       रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान्‌ ॥

       अवेक्ष्याग्नयादिकान्‌ भावान्‌ रोगवृत्ते: प्रयोजयेत्‌ ॥९॥

       अवस्थान्तरबाहुल्याद्रोगादीनां व्यवस्थितम्‌ ॥

       द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे ॥१०॥

       द्वयोरन्यतरादाने वदन्ति विषदुग्धयो: ॥

       दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम्‌ ॥११॥

       एवं युक्तरसेष्वेषु द्रव्येषु सलिलादिषु ॥

       एकान्तहिततां विद्धि वत्स सुश्रुत नान्यथा ॥१२॥

       अतोऽन्यान्यपि संयोगादहितानि वक्ष्याम: – नवविरूढधान्यैर्वसामधुपयोगुडमाषैर्वा ग्राम्यानूपौदकपिशितादीनि नाभ्यवहरेत्‌, न पयोमधुभ्यां रोहिणीशाकं जातुकशाकं वाऽश्नीयात्‌, बलाकां वारुणीकुल्माषाभ्यां, काकमाचीं पिप्पलीमरिचाभ्यां,

नाडीभङ्गशाककुक्कुटदधीनि च नैकध्यं, मधु चोष्णोदकानुपानं, पित्तेन चाममांसानि, सुराकृशरापायसांश्च नैकध्यं, सौवीरकेण

सह तिलशष्कुलीं, मत्स्यैः सहेक्षुविकारान्‌, गुडेन काकमाचीं, मधुना मूलकं, गुडेन वाराहं मधुना च सह विरुद्धं, क्षीरेण मूलकम्‌, आम्रजाम्बवश्वाविच्छूकरगोधाश्च, सर्वाांश्च मत्स्यान्‌ पयसा, विशेषेण चिलिचिमं, कदलीफलं तालफलेन पयसा दध्ना तक्रेण वा, लकुचफलं पयसा दध्ना माषसूपेन वा, प्राक्‌ पयस: पयसोऽन्ते वा ॥१३॥

       अत: कर्मविरुद्धान्‌ वक्ष्याम: – कपोतान्‌ सर्षपतैलभृष्टान्नाद्यात्‌,

कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात्‌, कांस्यभाजने दशरात्रपर्युषितं सर्पि:, मधु चोष्णैरुष्णे वा, मत्स्यपरिपवने शृङ्गवेरपरिपचने वा सिद्धां काकमाचीं, तिलकल्कसिद्धमुपोदिकाशाकं, नारिकेलेन वराहवसापरिभृष्टां बलाकां, भासमङ्गारशूल्यं नाश्नीयादिति ॥१४॥

       अतो मानविरुद्धान्‌ वक्ष्याम: – मध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयात्‌, स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ ॥१५॥

       अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि वक्ष्याम: – तत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च, मधुरकटुकौ च सर्वत:, मधुरतिक्तौ रसविपाकाभ्यां मधुरकषायौ च, अम्ललवणौ रसत: अम्लकटुकौ रसविपाकाभ्याम्‌, अम्लतिक्तावम्लकषायौ च सर्वत:, लवणकटुकौ रसविपाकाभ्यां, लवणतिक्तौ लवणकषायौ च सर्वत:, कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च, तिक्तकषायौ रसत: ॥१६॥

       तरतमयोगयुक्तांश्च  भावानतिस्निग्धानतिरूक्षानत्युष्णानतिशीतानित्येवमादीन्‌ विवर्जयेत्‌ ॥१७॥

भवन्ति चात्र –

       विरुद्धान्येवमादीनि वीर्यतो यानि कानिचित्‌ ॥

       तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम्‌ ॥१८॥

       व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति ॥

       विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नर: ॥१९॥

       यत्किंचिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत्‌ ॥

       रसादिष्वयथार्थं वा तद्विकाराय कल्पते ॥२०॥

       विरुद्धाशनजान्‌ रोगान्‌ प्रतिहन्ति विरेचनम्‌ ॥

       वमनं शमनं वाऽपि पूर्वं वा हितसेवनम्‌ ॥२१॥

       सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च ॥

       स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्‌ ॥२२॥

अथ वातगुणान्‌ वक्ष्याम: –

       पूर्व: समधुर: स्निग्धो लवणश्चैव मारुत: ।

       गुरुर्विदाहजननो रक्तपित्ताभिवर्धन: ॥२३॥

       क्षतानां विषजुष्टानां व्रणिन: श्लेष्मलाश्च ये ॥

       तेषामेव विशेषेण सदा रोगविवर्धन: ॥२४॥

      वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम्‌ ॥

       मधुरश्चविदाही च कषायानुरसो लघु: ॥

       दक्षिणो मारुत: श्रेष्ठश्चक्षुष्यो बलवर्धन: ॥२५॥

       रक्तपित्तप्रशमनो न च वातप्रकोपण: ॥

       विशदो रूक्षपरुष: खर: स्नेहबलापह:॥२६॥

       पिामो मारुतस्तीक्ष्ण: कफमेदोविशोषण: ॥

       सद्य: प्राणक्षयकर: शोषणस्तु शरीरिणाम्‌ ॥२७॥

       उत्तरो मारुत: स्निग्धो मृदुर्मधुर एव च॥

       कषायानुरस: शीतो दोषाणां चाप्रकोपण: ॥२८॥

       तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धन: ॥

       क्षीणक्षयविषार्तानां विशेषेण तु पूजित: ॥२९॥

       इति सुश्रुतसंहितायां सूत्रस्थाने हिताहितीयो नाम विंशोऽध्याय: ॥२०॥

Last updated on May 24th, 2021 at 06:42 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English