सुश्रुतसंहिता ।
सूत्रस्थानम् ।
अष्टादशोध्याय: ।
अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्याम: ॥१॥
यथोवाच भगवान् धन्वन्तरि: ॥२॥
आलेप आद्य उपक्रम:, एष सर्वशोफानां सामान्य: प्रधानतमश्च, तं च प्रतिरोगं वक्ष्याम: ततो बन्ध: प्रधानं, तेन शुद्धिर्व्रणरोपणमस्थिसंधिस्थैर्यं च ॥३॥
तत्र प्रतिलोममालिम्पेत् । प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनुप्रविशति च रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ॥४॥
न च शुष्यमाणमुपेक्षेत, अन्यत्र पीडयितव्यात्, शुष्को ह्यपार्थको रुक्करश्च ॥५॥
स त्रिविध: – प्रलेप:, प्रदेह, आलेपश्च । प्रलेपप्रदेहयोरन्तरं – तत्र प्रलेप: शीतस्तनुरविशोषी विशोषी वा, प्रदेहस्तूष्ण: शीतो वा बहलोऽबहुरविशोषी च., मध्यमोऽत्रालेप: । तत्र, रक्तपित्तप्रसादकृदालेप., प्रदेहो वातश्लेष्मप्रशमन: शोधनो रोपण: शोफवेदनापहश्च, तस्योपयोग: क्षताक्षतेषु, यस्तु क्षतेषूपयुज्यते स भूय: कल्क’ इति संज्ञां लभते निरुद्धालेपनसंज्ञ: तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ॥६॥
अविदग्धेषु शोफेषु हितमालेपनं भवेत् ॥
यथास्वं दोषशमनं दाहकण्डूरुजापहम् ॥७॥
त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम् ॥
दाहप्रशमनं श्रेष्ठं रुजाकण्डूविनाशनम् ॥८॥
मर्मदेशेषु ये रोगा गुह्येष्वपि तथा नृणाम् ॥
संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ॥९॥
(षड्भागं पैत्तिके स्नेहं चतुर्भागं तु वातिके ॥
अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत् ॥१०॥)
तस्य प्रमाणं महिषार्द्रचर्मोत्सेधमुपदिशन्ति ॥११॥
न चालेपं रात्रौ प्रायुञ्जीत, मा भूच्छैत्यविहतोष्मणस्तदनिर्गमाद्विकारप्रवृत्तिरिति ॥१२॥
प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा ॥
पित्तरक्ताभिघातोत्थे सविषे च विशेषत: ॥१३॥
न च पर्युषितं लेपं कदाचिदवचारयेत् ॥
उपर्युपरि लेपं च न कदाचित् प्रदापयेत् ॥१४॥
ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि ॥
न च तेनैव लेपेन प्रदेहं दापयेत् पुन: ॥
शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थक: ॥१५॥
अत ऊर्ध्वं व्रणबन्धनद्रव्याण्युपदेक्ष्याम:., तद्यथा – क्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कला- लाबूशकललताविदलरज्जुतूलफलसन्तानिकालौहानीति, तेषां व्याधिं कालं चावेक्ष्योपयोग:, प्रकरणतश्चैषामादेश: ॥१६॥
तत्र कोशदामस्वस्तिकानुवेल्लितमु(प्र)तोलीमण्डलस्थगिकायमकखट्वाचीनविबन्धवितानगोफणा: पञ्चाङ्गी चेति चतुर्दश बन्धविशेषा: । तेषां नामभिरेवाकृतय: प्रायेण व्याख्याता: ॥१७॥
तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात्, दाम संबाधेऽङ्गे, सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकम्, अनुवेल्लितं शाखासु, ग्रीवामेढ्रयो मु(प्र)तोलीं, वृत्तेऽङ्गे मण्डलम्, अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां, यमलव्रणयोर्यमकं, हनुशङ्खगण्डेषु खट्वाम्, अपाङ्गयोश्चीनं, पृष्ठोदरोर:सु विबन्धं, मूर्धनि वितानं, चिबुकनासौष्ठांसबस्तिषु गोफणां, जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति, यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् ॥१८॥
यन्त्रणमूर्ध्वमधस्तिर्यक् च ॥१९॥
तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसंकुचितं मृदु पट्टं निवेश्य बध्नीयात् । न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च ॥२०॥
न च विकेशिकौषधे अतिस्निग्धे अतिरूक्षे विषमे वा कुर्वीत, यस्मादतिस्नेहात् क्लेदो, रौक्ष्याच्छेदो, दुर्न्यासाद्व्रणवर्त्मावघर्षणमिति ॥२१॥
तत्र व्रणायतनविशेषान्धविशेषस्त्रिविधो भवति – गाढा:, सम:, शिथिल इति ॥२२॥
पीडयन्नरुजो गाढ: सोच्छ्वास: शिथिल: स्मृत: ॥
नैव गाढो न शिथिल: समो बन्ध: प्रकीर्तित: ॥२३॥
तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिर:सु गाढ:, शाखावदनकर्णकण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोर:सु सम:, अक्ष्णो: सन्धिषु च शिथिल इति ॥२४॥
तत्र पैत्तिकं गाढस्थाने समं बध्नीयात्, समस्थाने शिथिलं, शिथिलस्थाने नैव, एवं शोणितदुष्टं च, श्लैष्मिकं शिथिलस्थाने समं, समस्थाने गाढं, गाढस्थाने गाढतरं, एवं वातदुष्टं च ॥२५॥
तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात्, रक्तोपद्रुतमप्येवं, श्लैष्मिकं हेमन्तवसन्तयोस्त्र्यहात्, वातोपद्रुतमप्येवम् । एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् ॥२६॥
तत्र, समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादुर्भावश्च, गाढसमस्थानेषु शिथिलं बद्धे विकेशिकौषधपतनं पट्टसंचाराद्व्रणवर्त्मावघर्षणमिति, गाढशिथिलस्थानेषु समं बद्धे गुणाभाव इति ॥२७॥
अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च ॥२८॥
अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैरभिहन्यते व्रण: विविध वेदनोपद्रुतश्च
दुष्टतामुपैति, आलेपनादीनि चास्य विशोषमुपयान्ति ॥२९॥
चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम् ॥
अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ॥३०॥
सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति ॥
सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रण: ॥३१॥
अबन्ध्या: पित्तरक्ताभिघातविषनिमित्ता यदा शोफदाहपाकरागतोदवेदनाभिभूता: क्षाराग्निदग्धा: पाकात् प्रकुथितैप्रशीर्णमांसाश्च भवन्ति ॥३२॥
कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम् ॥
कर्णिकाश्चोन्दुरुविषे विषजुष्टाश्च ये व्रणा: ॥३३॥
मांसपाके न बध्यन्ते गुदपाके च दारुणे ॥
स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ॥
देशं दोषं च विज्ञाय व्रणं व व्रणकोविद: ॥
ऋतूंश्च परिसंख्याय ततो बन्धान्निवेशयेत् ॥३५॥
ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता ॥
यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषत: ॥३६॥
घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम् ॥
विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ॥३७॥
प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च ॥
युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ॥३८॥
विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा ॥
यथाव्रणं विदित्वा तु योगं वैद्य: प्रयोजयेत् ॥३९॥
पित्तजे रक्तजे वाऽपि सकृदेव परिक्षिपेत् ॥
असकृत् कफजे वाऽपि वातजे च विचक्षण: ॥४०॥
तलेन प्रतिपीड्याथ स्रावयेदनुलोमत: ॥
सर्वांश्च बन्धान् गूढान्तान् संधींश्च विनिवेशयेत् ॥४१॥
ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधि: स्मृत: ॥
बुद्ध्योत्प्रेक्ष्याभियुक्तेन तथा चास्थिषु जानता ॥४२॥
उत्तिष्ठतो निषण्णस्य शयनं चाधिगच्छत: ॥
गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रण: ॥४३॥
ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणा: ॥
सन्ध्यस्थिकोष्ठप्राप्ताश्च सिरास्नायुगतास्तथा ॥४४॥
तथाऽवगाढगम्भीरा: सर्वतो विषमस्थिता: ॥
नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ॥४५॥
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणालेपनबन्धविधिर्नामाष्टादशोऽध्याय: ॥१८॥
Last updated on May 24th, 2021 at 06:40 am