सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
अष्टादशोऽध्यायः ।
अथातः क्रियाकल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः |
वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ||३||
तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने |
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ||४||
संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने |
पूर्वाह्णे वाऽपराह्णे वा कार्यमक्ष्णोस्तु तर्पणम् ||५||
वातातपरजोहीने वेश्मन्युत्तानशायिनः |
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ||६||
समौ दृढावसम्बाधौ कर्तव्यौ नेत्रकोशयोः |
पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके ||७||
आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु |
स्वस्थे, कफे षट्, पित्तेऽष्टौ, दश वाते तदुत्तमम् ||८||
रोगस्थानविशेषेण केचित् कालं प्रचक्षते |
यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ||९||
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत् |
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत् ||१०||
स्विन्नेन यवपिष्टेन, स्नेहवीर्येरितं ततः |
यथास्वं धूमपानेन कफमस्य विशोधयेत् ||११||
एकाहं वा त्र्यहं वाऽपि पञ्चाहं चेष्यते परम् |
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् ||१२||
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम् |
निर्वृतिर्व्याधिविध्वंसः क्रियालाघवमेव च ||१३||
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत् |
ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् ||१४||
रूक्षमाविलमस्राढ्यमसहं रूपदर्शने |
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च ||१५||
अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते |
धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित् ||१६||
ताम्यत्यतिविशुष्कं यद्रूक्षं यच्चातिदारुणम् |
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम् ||१७||
तदक्षि तर्पणादेव लभेतोर्जामसंशयम् |
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च ||१८||
अशान्तोपद्रवे चाक्ष्णि तर्पणं न प्रशस्यते |
पुटपाकस्तथैतेषु, नस्यं येषु च गर्हितम् ||१९||
तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये |
ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च ||२०||
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत् |
स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा ||२१||
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः |
दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत् ||२२||
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः |
स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः ||२३||
जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसम्भृतैः |
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः ||२४||
समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः |
लेखनो वाक्शतं तस्य परं धारणमुच्यते ||२५||
स्तन्यजाङ्गलमध्वाज्यतिक्तद्रव्यविपाचितः |
लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः ||२६||
वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम् |
स्नेहस्वेदौ द्वयोः कार्यौ, कार्यो नैव च रोपणे ||२७||
एकाहं वा द्व्यहं वाऽपि त्र्यहं वाऽप्यवचारणम् |
यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते ||२८||
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च |
नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा ||२९||
मिथ्योपचारादनयोर्यो व्याधिरुपजायते |
अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत् ||३०||
प्रसन्नवर्णं विशदं वातातपसहं लघु |
सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ||३१||
अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः |
पाकोऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा ||३२||
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम् |
द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ||३३||
द्रव्याणां बिल्वमात्रं तु द्रवाणां कुडवो मतः |
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ||३४||
(काश्मरीकुमुदैरण्डपद्मिनीकदलीभवैः) |
मृदावलिप्तमङ्गारैः खादिरैरवकूलयेत् ||३५||
कतकाश्मन्तकैरण्डपाटलावृषबादरैः |
सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ||३६||
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम् |
तर्पणोक्तेन विधिना यथावदवचारयेत् ||३७||
कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः |
रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ ||३८||
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ |
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ||३९||
अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ |
हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ||४०||
युक्तौ कृतौ दाहशोफरुग्धर्षस्रावनाशनौ |
कण्डूपदेहदूषीकारक्तराजिविनाशनौ ||४१||
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ |
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ||४२||
आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः |
तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ||४३||
यथादोषोपयुक्तं तु नातिप्रबलमोजसा |
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ||४४||
तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत् |
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ||४५||
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे |
सेकस्य द्विगुणः कालः पुटपाकात् परो मतः ||४६||
अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम् |
पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः ||४७||
योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते |
रोगाञ्छिरसि सम्भूतान् हत्वाऽतिप्रबलान् गुणान् ||४८||
करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः |
शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु ||४९||
ऋज्वासीनस्य बध्नीयाद्वस्तिकोशं ततो दृढम् |
यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत् ||५०||
तर्पणोक्तं दशगुणं यथादोषं विधानवित् |
व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले ||५१||
नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत् |
लेखनं रोपणं चापि प्रसादनमथापि वा ||५२||
तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान् |
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रितः ||५३||
नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम् |
मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत् ||५४||
कषायं तिक्तकं वाऽपि सस्नेहं रोपणं मतम् |
तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम् ||५५||
मधुरं स्नेहसम्पन्नमञ्जनं तु प्रसादनम् |
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम् ||५६||
यथादोषं प्रयोज्यानि तानि रोगविशारदैः |
अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ||५७||
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु |
यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः ||५८||
हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः |
प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च ||५९||
रसाञ्जनस्य मात्रा तु यथावर्तिमिता मता |
द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः ||६०||
तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि |
सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम् ||६१||
आयसानि च योज्यानि शलाकाश्च यथाक्रमम् |
वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला ||६२||
अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा |
औदुम्बर्यश्मजा वाऽपि शारीरी वा हिता भवेत् ||६३||
वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः |
शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम् ||६४||
आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम् |
वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत् ||६५||
अक्षि नात्यन्तयोरञ्ज्याद्बाधमानोऽपि वा भिषक् |
न चानिर्वान्तदोषेऽक्ष्णि धावनं सम्प्रयोजयेत् ||६६||
दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा |
गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा ||६७||
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः |
श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः ||६८||
वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम् |
रागरुक्तिमिरास्रावशूलसंरम्भसम्भवात् ||६९||
निद्राक्षये क्रियाशक्तिं, प्रवाते दृग्बलक्षयम् |
रजोधूमहते रागस्रावाधीमन्थसम्भवम् ||७०||
संरम्भशूलौ नस्यान्ते, शिरोरुजि शिरोरुजम् |
शिरःस्नातेऽतिशीते च रवावनुदितेऽपि च ||७१||
दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च |
अजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात् ||७२||
दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्रवान् |
तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत् ||७३||
लेखनस्य विशेषेण काल एष प्रकीर्तितः |
व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः ||७४||
यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः |
विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम् ||७५||
संशान्तोपद्रवं नेत्रं विरिक्तं सम्यगादिशेत् |
जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च ||७६||
नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः |
तत्र सन्तर्पणं कार्यं विधानं चानिलापहम् ||७७||
अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत् |
धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम् ||७८||
स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम् |
ज्ञेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम् ||७९||
किञ्जिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति |
तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु ||८०||
साधारणमपि ज्ञेयमेवं रोपणलक्षणम् |
प्रसादनवदाचष्टे तस्मिन् युक्तेऽतिभेषजम् ||८१||
स्नेहनं रोपणं वाऽपि हीनयुक्तमपार्थकम् |
कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता ||८२||
पुटपाकक्रियद्यासु क्रियास्वेषै(कै)व कल्पना |
सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः ||८३||
दृष्टेर्बलविवृद्ध्यर्थं याप्यरोगक्षयाय च |
राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम् ||८४||
अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः |
औदुम्बरं शातकुम्भं राजतं च समासतः ||८५||
एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक् |
मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि ||८६||
खदिराश्मन्तकाङ्गारैर्गोशकृद्भिरथापि वा |
गवां शकृद्रसे मूत्रे दध्नि सर्पिषि माक्षिके ||८७||
तैलमद्यवसामज्जसर्वगन्धोदकेषु च |
द्राक्षारसेक्षुत्रिफलारसेषु सुहिमेषु च ||८८||
सारिवादिकषाये च कषाये चोत्पलादिके |
निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः ||८९||
ततोऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले |
विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा ||९०||
कालानुसारिवां चापि शुचिरावाप्य योगतः |
एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे ||९१||
दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे |
शातकुम्भेऽथ शार्ङ्गे वा राजते वा सुसंस्कृते |
सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत् ||९२||
तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः |
अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः ||९३||
कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम् |
मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च ||९४||
उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम् |
नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम् ||९५||
कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम् |
मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम् ||९६||
कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत् |
एतद्भद्रोदयं नाम सदैवार्हति भूमिपः ||९७||
वक्रं समरिचं चैव मांसीं शैलेयमेव च |
तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला ||९८||
पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम् |
तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम् ||९९||
मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम् |
लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः ||१००||
रोध्रं सावरकं चूर्णमायसं ताम्रमेव च |
कालानुसारिवां चैव कुक्कुटाण्डदलानि च ||१०१||
तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः |
कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये ||१०२||
कांस्यापमार्जनमसी मधुकं सैन्धवं तथा |
एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् ||१०३||
आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत् |
सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः ||१०४||
पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा |
पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता ||१०५||
रसक्रियाविधानेन यथोक्तविधिकोविदः |
पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रितः ||१०६||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियाकल्पो नामाष्टादशोऽध्यायः ||१८||
Last updated on July 8th, 2021 at 11:45 am