Skip to content

18. ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

अष्टादशोऽध्याय: ।

अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो विधिज्ञः |

रक्षेद्बलं चापि नरस्य नित्यं

तद्रक्षितं व्याधिबलं निहन्ति ||३||

तैलं पिबेत् सर्पिरथो द्वयं वा

दत्त्वा वसां वा त्रिवृतं विदध्यात् |

अपेहिवातादशमूलसिद्धं

वैद्यश्चतुःस्नेहमथो द्वयं वा ||४||

हिंस्राऽथ रोहिण्यमृताऽथ भार्गी

श्योनाकबिल्वागुरुकृष्णगन्धाः |

गोजी च पिष्टा सह तालपत्र्या

ग्रन्थौ विधेयोऽनिलजे प्रलेपः ||५||

स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान् |

विदार्य वा पक्वमपोह्य पूयं

प्रक्षाल्य बिल्वार्कनरेन्द्रतोयैः ||६||

तिलैः सपञ्चाङ्गुलपत्रमिश्रैः

संशोधयेत् सैन्धवसम्प्रयुक्तैः |

शुद्धं व्रणं वाऽप्युपरोपयेत्तु

तैलेन रास्नासरलान्वितेन ||७||

विडङ्गयष्टीमधुकामृताभिः

सिद्धेन वा क्षीरसमन्वितेन |

जलौकसः पित्तकृते हितास्तु

क्षीरोदकाभ्यां परिषेचनं च ||८||

काकोलिवर्गस्य च शीतलानि

पिबेत् कषायाणि सशर्कराणि |

द्राक्षारसेनेक्षुरसेन वाऽपि

चूर्णं पिबेच्चापि हरीतकीनाम् ||९||

मधूकजम्ब्वर्जुनवेतसानां

त्वग्भिः प्रदेहानवचारयेत |

सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा ||१०||

विदार्य वा पक्वमपोह्य पूयं

धावेत् कषायेण वनस्पतीनाम् |

तिलैः सयष्टीमधुकैर्विशोध्य

सर्पिः प्रयोज्यं मधुरैर्विपक्वम् ||११||

हृतेषु दोषेषु यथानुपूर्व्या

ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु |

स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः ||१२||

विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः |

आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान् ||१३||

अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य |

दहेत् स्थिते चासृजि सिद्धकर्मा

सद्यःक्षतोक्तं च विधिं विदध्यात् ||१४||

या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः |

शस्त्रेण वाऽऽपाट्य सुपक्वमाशु

प्रक्षालयेत् पथ्यतमैः कषायैः ||१५||

संशोधनैस्तं च विशोधयेत्तु

क्षारोत्तरैः क्षौद्रगुडप्रगाढैः |

शुद्धे च तैलं त्ववचारणीयं

विडङ्गपाठारजनीविपक्वम् ||१६||

मेदःसमुत्थे तिलकल्कदिग्धं

दत्त्वोपरिष्टाद्द्विगुणं पटान्तम् |

हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय ||१७||

प्रलिप्य दार्वीमथ लाक्षया वा

प्रतप्तया स्वेदनमस्य कार्यम् |

निपात्य वा शस्त्रमपोह्य मेदो

दहेत् सुपक्वं त्वथवा विदार्य ||१८||

प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः

सुवर्चिकाद्यैर्हरितालमिश्रैः |

ससैन्धवैः क्षौद्रघृतप्रगाढैः

क्षारोत्तरैरेनमभिप्रशोध्य ||१९||

तैलं विदद्याद्द्विकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम् |

जीमूतकैः कोशवतीफलैश्च

दन्तीद्रवन्तीत्रिवृतासु चैव ||२०||

सर्पिः कृतं हन्त्यपचीं प्रवृद्धां

द्विधा प्रवृत्तं तदुदारवीर्यम् |

निर्गुण्डिजातीबरिहिष्ठयुक्तं

जीमूतकं माक्षिकसैन्धवाढ्यम् ||२१||

अभिप्रतप्तं वमनं प्रगाढं

दुष्टापचीषूत्तममादिशन्ति |

कैडर्यबिम्बीकरवीरसिद्धं

तैलं हितं मूर्धविरेचनं च ||२२||

शाखोटकस्य स्वरसेन सिद्धं

तैलं हितं नस्यविरेचनेषु |

मधूकसारश्च हितोऽवपीडे

फलानि शिग्रोः खरमञ्जरेर्वा ||२३||

ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात् |

क्षारेण वाऽपि प्रतिसारयेत्तु

संलिख्य शस्त्रेण यथोपदेशम् ||२४||

पार्ष्णिं प्रति द्वे दश चाङ्गुलानि

मित्वेन्द्रबस्तिं परिवर्ज्य धीमान् |

विदार्य मत्स्याण्डनिभानि वैद्यो

निष्कृष्य जालान्यनलं विदध्यात् ||२५||

आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य |

घोणर्जुवेधः सुरराजबस्तेर्हित्वाऽक्षिमात्रं त्वपरे वदन्ति ||२६||

मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक् |

अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये ||२७||

चूर्णस्य काले प्रचलाककाकगोधाहिकूर्मप्रभवां मसीं तु |

दद्याच्च तैलेन सहेङ्गुदीनां

यद्वक्ष्यते श्लीपदिनां च तैलम् ||२८||

विरेचनं धूममुपाददीत

भवेच्च नित्यं यवमुद्गभोजी |

कर्कारुकैर्वारुकनारिकेलप्रियालपञ्चाङ्गुलबीजचूर्णैः ||२९||

वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु |

कुर्याच्च मुख्यान्युपनाहनानि

सिद्धैश्च मांसैरथ वेसवारैः ||३०||

स्वेदं विदध्यात् कुशलस्तु नाड्या

शृङ्गेण रक्तं बहुशो हरेच्च |

वातघ्ननिर्यूहपयोम्लभागैः

सिद्धं शताख्यं त्रिवृतं पिबेद्वा ||३१||

स्वेदोपनाहा मृदवस्तु कार्याः पित्तार्बुदे कायविरेचनं च |

विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत् ||३२||

श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः |

विस्राव्य चारग्वधगोजिसोमाः श्यामा च योज्या कुशलेन लेपे ||३३||

श्यामागिरिह्वाञ्जनकीरसेषु द्राक्षारसे सप्तलिकारसे च |

घृतं पिबेत् क्लीतकसम्प्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः ||३४||

शुद्धस्य जन्तोः कफजेऽर्बुदे तु रक्तेऽवसिक्ते तु ततोऽर्बुदं तत् |

द्रव्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात् ||३५||

कपोतपारावतविड्विमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः |

मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात् ||३६||

निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः |

लेपं विदध्यात् कृमयो यथाऽत्र

मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च ||३७||

अल्पावशिष्टे कृमिभक्षिते च

लिखेत्ततोऽग्निं विदधीत पश्चात् |

यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा ||३८||

क्षाराग्निशस्त्राण्यसकृद्विदध्यात्

प्राणानहिंसन् भिषगप्रमत्तः |

आस्फोतजातीकरवीरपत्रैः

कषायमिष्टं व्रणशोधनार्थम् ||३९||

शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम् |

यदृच्छया चोपगतानि पाकं

पाकक्रमेणोपचरेद्विधिज्ञः ||४०||

मेदोर्बुदं स्विन्नमथो विदार्य

विशोध्य सीव्येद्गतरक्तमाशु |

ततो हरिद्रागृहधूमरोध्रपतङ्गचूर्णैः समनःशिलालैः ||४१||

व्रणं प्रतिग्राह्य मधुप्रगाढैः

करञ्जतैलं विदधीत शुद्धे |

सशेषदोषाणि हि योऽर्बूदानि

करोति तस्याशु पुनर्भवन्ति ||४२||

तस्मादशेषाणि समुद्धरेत्तु

हन्युः सशेषाणि यथा हि वह्निः

संस्वेद्य गण्डं पवनोत्थमादौ

नाड्याऽनिलघ्नौषधपत्रभङ्गैः ||४३||

अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान् |

विस्रावयेत् स्विन्नमतन्द्रितश्च

शुद्धं व्रणं चाप्युपनाहयेत्तु ||४४||

शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु |

कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः ||४५||

एकैषिकावृक्षकतिल्वकैश्च

सुराम्लपिष्टैरसकृत् प्रदिह्यात् ||४६||

तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभीः |

सिद्धं बलाभ्यां च सदेवदारु

हिताय नित्यं गलगण्डरोगे ||४७||

स्वेदोपनाहैः कफसम्भवं तु

संस्वेद्य विस्रावणमेव कुर्यात् |

ततोऽजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः ||४८||

पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः |

दशार्धसङ्ख्यैर्लवणैश्च युक्तं

तैलं पिबेन्मागधिकादिसिद्धम् ||४९||

प्रच्छर्दनं मूर्धविरेचनं च

धूमश्च वैरेचनिको हितस्तु |

पाकक्रमो वाऽपि सदा विधेयो

वैद्येन पाकङ्गतयोः कथञ्चित् ||५०||

कटुत्रिकक्षौद्रयुताः समूत्रा

भक्ष्या यवान्नानि रसाश्च मौद्गाः |

सशृङ्गवेराः सपटोलनिम्बा

हिताय देया गलगण्डरोगे ||५१||

मेदःसमुत्थे तु यथोपदिष्टां

विध्येत् सिरां स्निग्धतनोर्नरस्य |

श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः ||५२||

मूत्रेण वाऽऽलोड्य हिताय सारं

प्रातः पिबेत् सालमहीरुहाणाम् |

शस्त्रेण वाऽऽपाट्य विदार्य चैनं

मेदः समुद्धृत्य हिताय सीव्येत् ||५३||

मज्जाज्यमेदोमधुभिर्दहेद्वा

दग्धे च सर्पिर्मधु चावचार्यम् |

कासीसतुत्थे च ततोऽत्र देये

चूर्णीकृते रोचनया समेते ||५४||

तैलेन चाभ्यज्य हिताय दद्यात्

सारोद्भवं गोमयजं च भस्म |

हितश्च नित्यं त्रिफलाकषायो

गाढश्च बन्धो यवभोजनं च ||५५||

इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं नामाष्टादशोऽध्यायः ||१८||

Last updated on July 8th, 2021 at 09:25 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English