सुश्रुतसंहिता ।
सूत्रस्थानम् ।
सप्तदशोऽध्याय: ।
अथात आमपक्वैषणीयमध्यायं व्याख्यास्याम: ॥१॥
यथोवाच भगवान् धन्वन्तरि: ॥२॥
शोफसमुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतय: प्रायेण व्याधयोऽभिहिता अनेकाकृतय:., तैर्विलक्षण: पृथुर्ग्रथित: समो विषमो वा त्वङ्मांसस्थायी दोषसंघात: शरीरैकदेशोत्थित: शोफ इत्युच्यते ॥३॥
स षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्त: । तस्य दोषरूपव्यञ्जनैर्लक्षणानि व्याख्यास्याम: । तत्र, वातशोफ: कृष्णोऽरुणो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषा भवन्ति, पित्तशोफ: पीतो मृदु: सरक्तो वा शीघ्रानुसार्योषादयश्चात्र वेदनाविशेषा भवन्ति, श्लेष्मश्वयथु: पाण्डु: कठिन: स्निग्ध: शीतो स्निग्धो मन्दानुसारी कण्ड्वादयश्चात्र वेदनाविशेषा भवन्ति, सर्ववर्णवेदन: सन्निपातश्वयथु: पित्तवच्छोणितजोऽतिकृष्णश्च, पित्तरक्तलक्षण आगन्तुर्लोहितावभासश्च ॥४॥
स यदा बाह्याभ्यन्तरै: क्रियाविशेषैर्न संभावित: प्रशमयितुं क्रियाविपर्ययाहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति । तस्यामस्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमुपधारय-। तत्र, मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टं, सूचिभिरिव निस्तुद्यते, दश्यत इव पिपीलिकाभि:, ताभिश्च संसर्प्यत इव, छिद्यत इव शस्त्रेण, भिद्यत इव शक्तिभि:, ताड्यत इव दण्डेन, पीड्यत इव पाणिना, घट्यत इव चाङ्गुल्या, दह्यते पच्यत इव चाग्निक्षाराभ्याम्, ओषचोषपरीदाहाश्च भवन्ति, वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति, आध्मातबस्तिरिवाततश्च शोफो भवति, त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गं., वेदनोपशान्ति: पाण्डुताऽल्पशोफता वलीप्रादुर्भावस्त्वक्परिपुटनं निमन्दर्शनमङ्गुल्याऽवपीडिते प्रत्युन्नमनं, बस्ताविवोदकसंचरणं पूयस्य प्रपीडयत्येकमन्तमन्ते चावपीडिते, मुहुर्मुहुस्तोद: कण्डूरुन्नतता व्याधेरुपद्रवशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् । कफजेषु तु रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषङ्मोहमुपैति, तत्र हि त्वक्सवर्णता शीतशोफता स्थैर्यमल्परुजताऽश्मवच्च घनता, नं मोहमुपेयादिति ॥५॥
भवन्ति चात्र –
आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् ॥
जानीयात् स भवेद्वैद्य: शेषास्तस्करवृत्तय: ॥६॥
वातादृते नास्ति रुजा न पाक:
पित्तादृते नास्ति कफाच्च पूय: ॥
तस्मात् समस्तान् परिपाककाले
पचन्ति शोफांस्त्रय एव दोषा: ॥७॥
कालान्तरेणाभ्युदितं तु पित्तं
कृत्वा वशे वातकफौ प्रसह्य ॥
पचत्यत: शोणितमेव पाको
मतोऽपरेषां विदुषां द्वितीय: ॥८॥
तत्र, आमच्छेदे मांससिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भावोऽवदरणमनेकोपद्रवदर्शनं क्षतविद्रधिर्वा भवति । स यदा भयमोहाभ्यां पक्वमप्यपक्वमिति मन्यमानश्चिरमुपेक्षते व्याधिं वैद्यस्तदा गम्भीरानुगतो द्वारमलभमान: पूय: स्वमाश्रयमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ॥९॥
भवति चात्र –
यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते ॥
श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ॥१०॥
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक् ॥
मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनाऽसह: ॥११॥
न मूर्च्छत्यन्नसंयोगान्मत्त: शस्त्रं न बुध्यते ॥
तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि ॥१२॥
प्राणो ह्याभ्यन्तरो नॄणां बाह्यप्राणगुणान्वित: ॥
धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् ॥१३॥
अल्पो महान् वा क्रियया विना य:
समुच्छ्रित: पाकमुपैति शोफ: ॥
विशालमूलो विषमं विदग्ध:
स कृच्छ्रतां यात्यवगाढदोष: ॥१४॥
आलेपविस्त्रावणाशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् ॥
पच्येत शीघ्रं सममल्पमूल: स पिण्डितश्चोपरि चोन्नत: स्यात् ॥१५॥
कक्षं समासाद्य यथैव वह्निर्वाय्वीरित: संदहति प्रसह्य ॥
तथैव पूयोऽप्यविनि:सृतो हि मांसं सिरा: स्नायु च खादतीह ॥१६॥
आदौ विम्लापनं कुर्याद्वितीयमवसेचनम् ॥
तृतीयमुपनाहं तु चतुर्थीं पाटनक्रियाम् ॥१७॥
पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते ॥
एते क्रमा व्रणस्योक्ता: सप्तमं वैकृतापहम् ॥१८॥
इति सुश्रुतसंहितायां सूत्रस्थाने आमपक्वैषणीयो नाम सप्तदशोऽध्याय: ॥१७॥
Last updated on May 24th, 2021 at 06:20 am