अष्टाङ्गहृदयस्य (निदानस्थानम्)
वातशोणितनिदानं
षोडशोऽध्यायः।
अथातो वातशोणितनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
विदाह्यन्नं विरुद्धं च तत्तच्चासृक्प्रदूषणम्।
भजतां विधिहीनं च स्वप्नजागरमैथुनम्॥१॥
प्रायेण सुकुमाराणामचङ्क्रमणशीलिनाम्।
अभिघातादशुद्धेश्च नृणामसृजि दूषिते॥२॥
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः।
तादृशैवासृजा रुद्धः प्राक्तदेव प्रदूषयेत्॥३॥
आढ्यरोगं खुडं वातबलासं वातशोणितम्।
तदाहुर्नामभिः तच्च पूर्वं पादौ प्रधावति॥४॥
विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम्।
भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता॥५॥
जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु।
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः॥६॥
भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च।
पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि॥७॥
आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति।
त्वङ्मांसाश्रयमुत्तानं तत्पूर्वं जायते ततः॥८॥
कालान्तरेण गम्भीरं सर्वान् धातूनभिद्रवत्।
कण्ड्वादिसंयुतोत्ताने त्वक्ताम्रा श्यावलोहिता॥९॥
सायामा भृशदाहोषा गम्भीरेऽधिकपूर्वरुक्।
श्वयथुर्ग्रथितः पाकी वायुः सन्ध्यस्थिमज्जसु॥१०॥
छिन्दन्निव चरत्यन्तर्वक्रीकुर्वंश्च वेगवान्।
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन्॥११॥
वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम्।
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः॥१२॥
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः॥१३॥
रक्ते शोफोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते।
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः॥१४॥
पित्ते विदाहः सम्मोहः स्वेदो मूर्च्छा मदः सतृट्।
स्पर्शाक्षमत्वं रुग्रागः शोफः पाको भृशोष्मता॥१५॥
कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः।
कण्डूर्मन्दा च रुक् द्वन्द्वसर्वलिङ्गं च सङ्करे॥१६॥
एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम्।
त्रिदोषजं त्यजेत्स्रावि स्तब्धमर्बुदकारि च॥१७॥
रक्तमार्गं निहत्याशु शाखासन्धिषु मारुतः।
निविश्यान्योन्यमावार्य वेदनाभिर्हरत्यसून्॥१८॥
वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः।
अत्याहाराभिघाताध्ववेगोदीरणधारणैः॥१९॥
कुपितश्चक्षुरादीनामुपघातं प्रवर्तयेत्।
पीनसार्दिततृट्कासश्वासादींश्चामयान्बहून्॥२०॥
उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः।
गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान्॥२१॥
कण्ठरोधमनोभ्रंशच्छर्द्यरोचकपीनसान्।
कुर्याच्च गलगण्डादींस्तांस्तान् जत्रूर्ध्वसंश्रयान्॥२२॥
व्यानोऽतिगमनध्यानक्रीडाविषमचेष्टितैः।
विरोधिरूक्षभीहर्षविषादाद्यैश्च दूषितः॥२३॥
पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान्।
सर्वाङ्गरोगनिस्तोदरोमहर्षाङ्गसुप्तताः॥२४॥
कुष्ठं विसर्पमन्यांश्च कुर्यात्सर्वाङ्गगान् गदान्।
समानो विषमाजीर्णशीतसङ्कीर्णभोजनैः॥२५॥
करोत्यकालशयनजागराद्यैश्च दूषितः।
शूलगुल्मग्रहण्यादीन् पक्वामाशयजान् गदान्॥२६॥
अपानो रूक्षगुर्वन्नवेगाघातातिवाहनैः।
यानयानासनस्थानचङ्क्रमैश्चातिसेवितैः॥२७॥
कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान्।
मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून्॥२८॥
सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः।
स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः॥२९॥
कटुरूक्षाभिलाषेण तद्विधोपशयेन च।
युक्तं विद्यान्निरामं तु तन्द्रादीनां विपर्ययात्॥३०॥
वायोरावरणं चातो बहुभेदं प्रवक्ष्यते।
लिङ्गं पित्तावृत्ते दाहस्तृष्णा शूलं भ्रमस्तमः॥३१॥
कटुकोष्णाम्ललवणैर्विदाहः शीतकामता।
शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्॥३२॥
लङ्घनायासरूक्षोष्णकामता च कफावृते।
रक्तावृते सदाहाऽर्तिस्त्वङ्मांसान्तरजा भृशम्॥३३॥
भवेच्च रागी श्वयथुर्जायन्ते मण्डलानि च।
मांसेन कठिनः शोफो विवर्णः पिटिकास्तथा॥३४॥
हर्षः पिपीलिकानां च सञ्चार इव जायते।
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः॥३५॥
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृते।
स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति॥३६॥
सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शूल्यते।
मज्जावृते विनमनं जृम्भणं परिवेष्टनम्॥३७॥
शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम्।
शुक्रावृतेऽतिवेगो वा न वा निष्फलताऽपि वा॥३८॥
भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले।
मूत्राप्रवृत्तिराध्मानं बस्तेर्मूत्रावृते भवेत्॥३९॥
विडावृते विबन्धोऽधः स्वस्थाने परिकृन्तति।
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः॥४०॥
शकृत्पीडीतमन्नेन दुःखं शुष्कं चिरात्सृजेत्।
सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक्॥४१॥
विलोमो मारुतोऽस्वस्थं हृदयं पीड्यतेऽति च।
भ्रमो मूर्च्छा रुजा दाहः पित्तेन प्राण आवृते॥४२॥
विदग्धेऽन्ने च वमनम् उदानेऽपि भ्रमादयः।
दाहोऽन्तरूर्जाभ्रंशश्च दाहो व्याने च सर्वगः॥४३॥
क्लमोऽङ्गचेष्टासङ्गश्च ससन्तापः सवेदनः।
समान ऊष्मोपहतिरतिस्वेदोऽरतिः सतृट्॥४४॥
दाहश्च स्यात् अपाने तु मले हारिद्रवर्णता।
रजोतिवृत्तिस्तापश्च योनिमेहनपायुषु॥४५॥
श्लेष्मणा त्वावृते प्राणे सादस्तन्द्राऽरुचिर्वमिः।
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः॥४६॥
उदाने गुरुगात्रत्वमरुचिर्वाक्स्वरग्रहः।
बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहः॥४७॥
गुरुताऽङ्गेषु सर्वेषु स्खलितं च गतौ भृशम्।
समानेऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता॥४८॥
अपाने सकफं मूत्रशकृतः स्यात्प्रवर्तनम्।
इति द्वाविंशतिविधं वायोरावरणं विदुः॥४९॥
प्राणादयस्तथाऽन्योन्यमावृण्वन्ति यथाक्रमम्।
सर्वेऽपि विंशतिविधं विद्यादावरणं च तत्॥५०॥
निःश्वासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः।
हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते॥५१॥
उदानेनावृते प्राणे वर्णौजोबलसङ्क्षयः।
दिशाऽनया च विभजेत्सर्वमावरणं भिषक्॥५२॥
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम्।
प्राणादीनां च पञ्चानां मिश्रमावरणं मिथः॥५३॥
पित्तादिभिर्द्वादशभिर्मिश्राणां मिश्रितैश्च तैः।
मिश्रैः पित्तादिभिस्तद्वन्मिश्रणाभिरनेकधा॥५४॥
तारतम्यविकल्पाच्च यात्यावृतिरसङ्ख्यताम्।
तां लक्षयेदवहितो यथास्वं लक्षणोदयात्॥५५॥
शनैः शनैश्चोपशयाद्गूढामपि मुहुर्मुहुः।
विशेषाज्जीवितं प्राण उदानो बलमुच्यते॥५६॥
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च।
आवृता वायवोऽज्ञाता ज्ञाता वा वत्सरं स्थिताः॥५७॥
प्रयत्नेनापि दुःसाध्या भवेयुर्वाऽनुपक्रमाः।
विद्रधिप्लीहहृद्रोगगुल्माग्निसदनादयः॥५८॥
भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात्॥५८.१.२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने वातशोणितनिदानं नाम षोडशोऽध्यायः॥१६॥
Last updated on August 17th, 2021 at 10:42 am