सुश्रुतसंहिता ।
अथ निदानस्थानम् ।
षोडशोऽध्यायः ।
अथातो मुखरोगाणां निदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
मुखरोगाः पञ्चषष्टिर्भवन्ति सप्तस्वायतनेषु |
तत्रायतनानि- ओष्ठौ, दन्तमूलानि, दन्ताः, जिह्वा, तालु, कण्ठः, सर्वाणि चेति |
तत्राष्टावोष्ठयोः, पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु, पञ्च जिह्वायां, नव तालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेषु ||३||
तत्रौष्ठप्रकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोभिघातनिमित्ताः ||४||
कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ |
दाल्येते परिपाट्येते ह्योष्ठौ मारुतकोपतः ||५||
आचितौ पिडकाभिस्तु सर्षपाकृतिभिर्भृशम् |
सदाहपाकसंस्रावौ नीलौ पीतौ च पित्ततः ||६||
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ |
कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू ||७||
सकृत् कृष्णौ सकृत् पीतौ सकृच्छ्वेतौ तथैव च |
सन्निपातेन विज्ञेयावनेकपिडिकाचितौ ||८||
खर्जूरफलवर्णाभिः पिडकाभिः समाचितौ |
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ||९||
मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ |
जन्तवश्चात्र मूर्च्छन्ति सृक्कस्योभयतो मुखात् ||१०||
मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू |
अच्छं स्फटिकसङ्काशमास्रावं स्रवतो गुरू ||११||
क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः |
ग्रथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ ||१२||
दन्तमूलगतास्तु- शीतादो, दन्तपुप्पुटको, दन्तवेष्टकः, शौषिरो, महाशौषिरः, परिदर, उपकुशो, दन्तवैदर्भो, वर्धनः, अधिमांसो, नाड्यः पञ्चेति ||१३||
शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते |
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ||१४||
दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् |
शीतादो नाम स व्याधिः कफशोणितसम्भवः ||१५||
दन्तयोस्त्रिषु वा यस्य श्वयथुः सरुजो महान् |
दन्तपुप्पुटको ज्ञेयः कफरक्तनिमित्तजः ||१६||
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च |
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ||१७||
श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः |
लालास्रावी स विज्ञेयः कण्डूमाञ् शौषिरो गदः ||१८||
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते |
दन्तमांसानि पच्यन्ते मुखं च परिपीड्यते ||१९||
यस्मिन् स सर्वजो व्याधिर्महाशौषिरसञ्ज्ञकः |
दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् ||२०||
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः |
वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च ||२१||
आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः |
आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते ||२२||
यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतो गदः |
घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् ||२३||
भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः |
मारुतेनाधिको दन्तो जायते तीव्रवेदनः ||२४||
वर्धनः स मतो व्याधिर्जाते रुक् च प्रशाम्यति |
हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः ||२५||
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः |
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ||२६||
दन्तगतास्तु- दालनः, क्रिमिदन्तको, दन्तहर्षो, भञ्जनकः, दन्तशर्करा, कपालिका, श्यावदन्तको, हनुमोक्षश्चेति ||२७||
दाल्यन्ते बहुधा दन्ता यस्मिंस्तीव्ररुगन्विताः |
दालनः स इति ज्ञेयः सदागतिनिमित्तजः ||२८||
कृष्णश्छिद्री चलः स्रावी ससंरम्भो महारुजः |
अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः ||२९||
शीतमुष्णं च दशनाः सहन्ते स्पर्शनं न च |
यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात् ||३०||
वक्त्रं वक्रं भवेद्यस्मिन् दन्तभङ्गश्च तीव्ररुक् |
कफवातकृतो व्याधिः स भञ्जनकसञ्ज्ञितः ||३१||
शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै |
सा दन्तानां गुणहरी विज्ञेया दन्तशर्करा ||३२||
दलन्ति दन्तवल्कानि यदा शर्करया सह |
ज्ञेया कपालिका सैव दशनानां विनाशिनी ||३३||
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः |
श्यावतां नीलतां वाऽपि गतः स श्यावदन्तकः ||३४||
वातेन तैस्तैर्भावैस्तु हनुसन्धिर्विसंहतः |
हनुमोक्ष इति ज्ञेयो व्याधिरर्दितलक्षणः ||३५||
जिह्वागतास्तु- कण्टकास्त्रिविधास्त्रिभिर्दोषैः, अलास, उपजिह्विका चेति ||३६||
जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा |
पित्तेन पीता परिदह्यते च चिता सरक्तैरपि कण्टकैश्च |
कफेन गुर्वी बहला चिता च मांसोद्गमैः शाल्मलिकण्टकाभैः ||३७||
जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससञ्ज्ञः कफरक्तमूर्तिः |
जिह्वां स तु स्तम्भयति प्रवृद्धो मूले तु जिह्वा भृशमेति पाकम् ||३८||
जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तयोनिः |
प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावुपजिह्विकेति ||३९||
तालुगतास्तु- गलशुण्डिका, तुण्डिकेरी, अध्रुषः, कच्छपः, अर्बुदं, मांससङ्घातः, तालुपुप्पुटः, तालुशोषः, तालुपाक इति ||४०||
श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफो ध्मातबस्तिप्रकाशः |
तृष्णाकासश्वासकृत् सम्प्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना ||४१||
शोफः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु |
शोफः स्तब्धो लोहितस्तालुदेशे रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्यः ||४२||
कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्माऽरक्तो ज्ञेयः कच्छपः श्लेष्मणा स्यात् |
पद्माकारं तालुमध्ये तु शोफं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम् ||४३||
दुष्टं मांसं श्लेष्मणा नीरुजं च ताल्वन्तःस्थं मांससङ्घातमाहुः |
नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ||४४||
शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासो वातात्तालुशोषः सपित्तात् |
पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ||४५||
कण्ठगतास्तु- रोहिण्यः पञ्च, कण्ठशालूकम्, अधिजिह्वो, बलयो, बलास, एकवृन्दो, वृन्दः, शतघ्नी, गिलायुः, गलविद्रधिः, गलौघः, स्वरघ्नो, मांसतानो, विदारी चेति ||४६||
गलेऽनिलः पित्तकफौ च मूर्च्छितौ पृथक् समस्ताश्च तथैव शोणितम् |
प्रदूष्य मांसं गलरोधिनोऽङ्कुरान् सृजन्ति यान् साऽसुहरा हि रोहिणी ||४७||
जिह्वां समन्ताद्भृशवेदना ये मांसाङ्कुराः कण्ठनिरोधिनः स्युः |
तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्रवगाढयुक्ताम् ||४८||
क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा स्यात् |
स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा वै ||४९||
गम्भीरपाकाऽप्रतिवारवीर्या त्रिदोषलिङ्गा त्रयसम्भवा स्यात् |
स्फोटाचिता पित्तसमानलिङ्गाऽसाध्या प्रदिष्टा रुधिरात्मिकेयम् ||५०||
कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः |
खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ||५१||
जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वाप्रबन्धोपरि रक्तमिश्रात् |
ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ||५२||
बलास एवायतमुन्नतं च शोफं करोत्यन्नगतिं निवार्य |
तं सर्वथैवाप्रतिवारवीर्यं विवर्जनीयं वलयं वदन्ति ||५३||
गले तु शोफं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् |
मर्मच्छिदं दुस्तरमेतदाहुर्बलाससञ्ज्ञं निपुणा विकारम् ||५४||
वृत्तोन्नतो यः श्वयथुः सदाहः कण्ड्वन्वितोऽपाक्यमृदुर्गुरुश्च |
नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलासक्षतजप्रसूतः ||५५||
समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति |
तं चापि पित्तक्षतजप्रकोपाद्विद्यात् सतोदं पवनास्रजं तु ||५६||
वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः |
नानारुजोच्छ्रायकरी त्रिदोषाज्ज्ञेया शतघ्नीव शतघ्न्यसाध्या ||५७||
ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्तिः |
संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गिलायुसञ्ज्ञः ||५८||
सर्वं गलं व्याप्य समुत्थितो यः शोफो रुजो यत्र च सन्ति सर्वाः |
स सर्वदोषो गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ||५९||
शोफो महानन्नजलावरोधी तीव्रज्वरो वातगतेर्निहन्ता |
कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यतेऽसौ ||६०||
योऽतिप्रताम्यन् श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः |
कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ||६१||
प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण |
स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः ||६२||
सदाहतोदं श्वयथुं सरक्तमन्तर्गले पूतिविशीर्णमांसम् |
पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ||६३||
सर्वसरास्तु वातपित्तकफशोणितनिमित्ताः ||६४||
स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात् |
रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् ||६५||
कण्डूयुतैरल्परुजैः सवर्णैर्यस्याचितं चापि स वै कफेन |
रक्तेन पित्तोदित एक एव कैश्चित् प्रदिष्टो मुखपाकसञ्ज्ञः ||६६||
इति सुश्रुतसंहितायां निदानस्थाने मुखरोगनिदानं नाम षोडशोऽध्यायः ||१६||
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां द्वितीयं निदानस्थानं समाप्तम् |
Last updated on May 31st, 2021 at 05:44 am