चरकसंहिता
चिकित्सास्थानम् ।
पञ्चदशोऽध्याय: ।
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
आयुर्वर्णो बलं स्वास्थ्यमुत्साहोपचयौ प्रभा ।
ओजस्तेजोऽग्नय: प्राणाश्चोक्ता देहाग्निहेतुका: ॥३॥
शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामय: ।
रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते ॥४॥
यदन्नं देहधात्वोजोबलवर्णादिपोषकम् ।
तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादय: ॥५॥
अन्नमादानकर्मा तु प्राण: कोष्ठं प्रकर्षति ।
तद्द्रवैर्भिन्नसंघातं स्नेहेन मृदुतां गतम् ॥६॥
समानेनावधूतोऽग्निरुदर्य: पवनोद्वह: ।
काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये ॥७॥
एवं रसमलायान्नमाशयस्थमध:स्थित: ।
पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम् ॥८॥
अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकत: ।
मधुराद्यात् कफो भावात् फेनभूत उदीर्यते ॥९॥
परं तु पच्यमानस्य विदग्धस्याम्लभावत: ।
आशयाच्च्यवमानस्य पित्तमच्छमुदीर्यते ॥१०॥
पक्वाशयं तु प्राप्तस्य शोष्यमाणस्य वह्निना ।
परिपिण्डितपक्वस्य वायु: स्यात् कटुभावत: ॥११॥
अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभि: पृथक् ।
देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च ॥१२॥
भौमाप्याग्नेयवायव्या: पञ्चोष्माण: सनाभसा: ।
पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि ॥१३॥
यथास्वं स्वं च पुष्णन्ति देहे द्रव्यगुणा: पृथक् ।
पार्थिवा: पार्थिवानेव शेषा: शेषांश्च कृत्स्नश: ॥१४॥
सप्तभिर्देहधातारो धातवो द्विविधं पुन: ।
यथास्वमग्निभि: पाकं यान्ति किट्टप्रसादवत् ॥१५॥
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
अस्थ्नो मज्जा तत: शुक्रं शुक्राद्गर्भ: प्रसादज:॥१६॥
रसात् स्तन्यं ततो रक्तमसृज: कण्डरा: सिरा: ।
मांसाद्वसा त्वच: षट् च मेदस: स्नायुसंभव: ॥१७॥
किट्टमन्नस्य विण्मूत्रं, रसस्य तु कफोऽसृज: ।
पित्तं, मांसस्य खमला, मल: स्वेदस्तु मेदस: ॥१८॥
स्यात्किट्टं केशलोमास्थने, मज्ज्ञ: स्नेहोऽक्षिविट् त्वचां ।
प्रसादकिट्टे धातूनां पाकादेवंविधर्च्छत: ॥१९॥
परस्परोपसंस्तम्ब्धा धातुस्नेहपरम्परा ।
वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि ॥२०॥
षड्भि: केचिदहोरात्रैरिच्छन्ति परिवर्तनम् ।
संतत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत् ॥२१॥
(इत्युक्तवन्तमाचार्यं शिष्यस्त्विदमचोदयत् ।
रसाद्रक्तं विसदृशात् कथं देहेऽभिजायते ॥२२॥
रसस्य च न रागोऽस्ति स कथं याति रक्तताम् ।
द्रवाद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम् ॥२३॥
द्रवधातो: स्थिरान्मांसान्मेदस: संभव: कथम् ।
श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु ॥२४॥
खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा ।
मज्ज्ञश्च परिणामेन यदि शुक्रं प्रवर्तते ॥२५॥
सर्वदेहगतं शुक्रं प्रवदन्ति मनीषिण: ।
तथाऽस्थिमध्यमज्ज्ञश्च शुक्रं भवति देहिनाम् ॥२६॥
छिद्रं न दृश्यतेऽस्थ्नां च तन्नि:सरति वा कथम् ।
एवमुक्तस्तु शिष्येण गुरु: प्राहेदमुत्तरम् ॥२७॥
तेजो रसानां सर्वेषां मनुजानां यदुच्यते ।
पित्तोष्मण: स रागेण रसो रक्तत्वमृच्छति ॥२८॥
वाय्वम्बुतेजसा रक्तमूष्मणा चाभिसंयुतम् ।
स्थिरतां प्राप्य मांसं स्यात् स्वोष्मणा पक्वमेव तत् ॥२९॥
स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते ।
पृथिव्यग्न्यनिलादीनां संघात: स्वोष्मणा कृत: ॥३०॥
खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम् ।
करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरण: ॥३१॥
मेदसस्तानि पूर्यन्ते स्नेहो मज्जा तत: स्मृत: ।
तस्मान्मज्ज्ञस्तु य: स्नेह: शुक्रं संजायते तत: ॥३२॥
वाय्वाकाशादिभिर्भावै: सौषिर्यं जायतेऽस्थिषु ।
तेन स्रवति तच्छुक्रं नवात् कुम्भादिवोदकम् ॥३३॥
स्रोतोभि: स्यन्दते देहात् समन्ताच्छुक्रवाहिभि: ।
हर्षेणोदीरितं वेगात् संकल्पाच्च मनोभवात् ॥३४॥
विलीनं घृतवद्व्यायामोष्मणा स्थानविच्युतम् ।
बस्तौ संभृत्यं निर्याति स्थलान्निम्नादिवोदकम् ॥३५॥)
व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा ।
युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा ॥३६॥
क्षिप्यमाण: खवैगुण्याद्रस: सज्जति यत्र स: ।
करोति विकृतिं तत्र खे वर्षमिव तोयद: ॥३७॥
दोषाणामपि चैवं स्यादेकदेशप्रकोपणम् ।
इति भौतिकधात्वन्नपक्तॄणां कर्म भाषितम् ॥३८॥
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिपो मत: ।
तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मका: ॥३९॥
तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितै: ।
पालयेत् प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थिति: ॥४०॥
यो हि भुङ्क्ते विधिं त्यक्त्वा ग्रहणीदोषजान् गदान् ।
स लौल्याल्लभते शीघ्रं, वक्ष्यन्तेऽत: परं तु ते ॥४१॥
अभोजनादजीर्णातिभोजनाद्विषमाशनात् ।
असात्म्यगुरुशीतातिरूक्षसंदुष्टभोजनात् ॥४२॥
विरेकवमनस्नेहविभ्रमाद्व्याधिकर्षणात् ।
देशकालर्तुवैषम्याद्वेगानां च विधारणात् ॥४३॥
दुष्यत्यग्नि:, स दुष्टोऽन्नं न तत् पचति लघ्वपि ।
अपच्यमानं शुक्तत्वं यात्यन्नं विषरूपताम् ॥४४॥
तस्य लिङ्गमजीर्णस्य विष्टम्भ: सदनं तथा ।
शिरसो रुक् च मूर्च्छा च भ्रम: पृष्ठकटिग्रह:॥४५॥
जृम्भाऽङ्गमर्दस्तृष्णा च ज्वरश्छर्दि: प्रवाहणम् ।
अरोचकोऽविपाकश्च, घोरमन्नविषं च तत् ॥४६॥
संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान् ।
जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान् ॥४७॥
यक्ष्मपीनसमेहादीन् कफजान् कफसङ्गतम् ।
करोति वातसंसृष्टं वातजांश्च गदान् बहून् ॥४८॥
मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम् ।
रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान् ॥४९॥
विषमो धातुवैषम्यं करोति विषमं पचन् ।
तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावक: ॥५०॥
युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन् ।
दुर्बलो विदहत्यन्नं तद्यात्यूर्ध्वमधोऽपि वा ॥५१॥
अधस्तु पक्वमामं वा प्रवृत्तं ग्रहणीगद: ।
उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते ॥५२॥
अतिसृष्टं विबद्धं वा द्रवं तदुपदिश्यते ।
तृष्णारोचकवैरस्यप्रसेकतमकान्वित: ॥५३॥
शूनपादकर: सास्थिपर्वरुक् छर्दनं ज्वर: ।
लोहामगन्धिस्तिक्ताम्ल उद्गारश्चास्य जायते ॥५४॥
पूर्वरूपं तु तस्येदं तृष्णाऽऽलस्यं बलक्षय: ।
विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ॥५५॥
अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता ।
नाभेरुपर्यह्यग्निबलेनोपष्टब्धोपबृंहिता ॥५६॥
अपक्वं धारत्यन्नं पक्वं सृजति पार्श्वत: ।
दुर्बलाग्निबला दुष्टा त्वाममेव विमुञ्चति ॥५७॥
वातात् पित्तात् कफाच्च स्यात्तद्रोगस्त्रिभ्य एव च ।
हेतुं लिङ्गं रूपभेदाञ् शृणु तस्य पृथक् पृथक् ॥५८॥
कटुतिक्तकषायातिरूक्षशीतलभोजनै: ।
प्रमितानशनात्यध्ववेगनिग्रहमैथुनै: ॥५९॥
करोति कुपितो मन्दमग्निं संछाद्य मारुत: ।
तस्यान्नं पच्यते दु:खं शुक्तपाकं खराङ्गता ॥६०॥
कण्ठास्यशोष: क्षुत्तृष्णा तिमिरं कर्णयो: स्वन: ।
पार्श्वोरुवङ्क्षणग्रीवारुजोऽभीक्ष्णं विसूचिका ॥६१॥
हृत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका ।
गृद्धि: सर्वरसानां च मनस: सदनं तथा ॥६२॥
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च ।
स वातगुल्महृद्रोगप्लीहाशङ्की च मानव: ॥६३॥
चिराद्दु:खं द्रवं शुष्कं तन्वामं शब्दफेनवत् ।
पुन: पुन: सृजेद्वर्च: कासश्वासार्दितोऽनिलात् ॥६४॥
कट्वजीर्णविदाह्यम्लक्षाराद्यै: पित्तमुल्बणम् ।
अग्निमाप्लावयद्धन्ति जलं तप्तमिवानलम् ॥६५॥
सोऽजीर्णं नीलपीताभं पीताभ: सार्यते द्रवम् ।
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दित: ॥६६॥
गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात् ।
भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपित: कफ: ॥६७॥
तस्यान्नं पच्यते दु:खं हृल्लासच्छर्द्यरोचका: ।
आस्योपदेहमाधुर्यकासष्ठीवनपीनसा: ॥६८॥
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ।
दुष्टो मधुर उद्गार: सदनं स्त्रीष्वहर्षणम् ॥६९॥
भिन्नामश्लेष्मसंसृष्टगुरुवर्च:प्रवर्तनम् ।
अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके ॥७०॥
यश्चाग्नि: पूर्वमुद्दिष्टो रोगानीके चतुर्विध: ।
तं चापि ग्रहणीदोषं समवर्जं प्रचक्ष्महे ॥७१॥
पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे ।
त्रिदोषं निर्दिशेत्तेषां भेषजं शृण्वत: परम् ॥७२॥
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम् ।
सविष्टम्भप्रसेकार्तिविदाहारुचिगौरवै: ॥७३॥
आमलिङ्गान्वितं दृष्ट्वा सुखोष्णेनाम्बुनोद्धरेत् ।
फलानां वा कषायेण पिप्पलीसर्षपैस्तथा ॥७४॥
लीनं पक्वाशयस्थं वाऽऽप्यामं स्राव्यं सदीपनै: ।
शरीरानुगते सामे रसे लङ्घनपाचनम् ॥७५॥
विशुद्धामाशयायास्मै पञ्चकोलादिभि: शृतम् ।
दद्यात् पेयादि लघ्वन्नं पुनर्योगांश्च दीपनान् ॥७६॥
ज्ञात्वा तु परिपक्वामं मारुतग्रहणीगदम् ।
दीपनीययुतं सर्पि: पाययेताल्पशो भिषक् ॥७७॥
किंचित्सन्धुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम् ।
व्द्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् ॥७८॥
तत एरण्डतैलेन सर्पिषा तैल्वकेन वा ।
सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत् ॥७९॥
शुद्धं रूक्षाशयं बद्धवर्चसं चानुवासयेत् ।
दीपनीयाम्लवातघ्नसिद्धतैलेन मात्रया ॥८०॥
निरूढं च विरिक्तं च सम्यक् चैवानुवासितम् ।
लघ्वन्नं प्रतिसंभुक्तं सर्पिरभ्यासयेत् पुन: ॥८१॥
द्वे पञ्चमूले सरलं देवदारु सनागरम् ।
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥८२॥
शणबीजं यवान् कोलान् कुलत्थान् सुषवीं तथा ।
पाचयेदारनालेन दध्ना सौवीरकेण वा ॥८३॥
चतुर्भागावशेषेण पचेत्तेन घृताढकम् ।
स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तित: ॥८४॥
सैन्धवौद्भिदसामुद्रबिडानां रोमकस्य च ।
ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक् ॥८५॥
विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुध: ।
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम् ॥८६॥
इति दशमूलाद्यं घृतम् ।
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात् पले ।
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानल: पिबेत् ॥८७॥
इति त्र्यूषणाद्यं घृतम् ।
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवै: ।
रास्नाक्षारद्वयाजाजीविडङ्गशटिभिर्घृतम् ॥८८॥
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य ।
शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च ॥८९॥
तक्रमस्तुसुरामण्डसौवीरकतुषोदकै: ।
काञ्जिकेन च तत् पक्वमग्निदीप्तिकरं परम् ॥९०॥
शूलगुल्मोदरश्वासकासानिलकफापहम् ।
सबीजपूरकरसं सिद्धं वा पाययेद्घृतम् ॥९१
सिद्धमभ्यञ्जनार्थं च तैलमेतै: प्रयोजयेत् ।
एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना ॥९२॥
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते ।
दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम् ॥९३॥
इति पञ्चमूलाद्यं घृतं चूर्णं च ।
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले ।
विनाऽतिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात् ॥९४॥
परीक्ष्यैवं पुरा सामं निरामं चामदोषिणम् ।
विधिनोपाचरेत् सम्यक् पाचनेनेतरेण वा ॥९५॥
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ।
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत् ॥९६॥
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा ।
कृता विपाचयत्यामं दीपयत्याशु चालनम् ॥९७॥
इति चित्रकाद्या गुटिका ।
नागरातिविषामुस्तक्वाथ: स्यादामपाचन: ।
मुस्तान्तकल्क: पथ्या वा नागरं चोष्णवारिणा ॥९८॥
देवदारुवचामुस्तनागरातिविषाभया: ।
वारुण्यामासुतास्तोये कोष्णे वाऽलवणा: पिबेत् ॥९९॥
वर्चस्यामे सशूले च पिबेद्वा दाडिमाम्बुना ।
विडेन लवणं पिष्टं बिल्वं चित्रकनागरम् ॥१००॥
सामे वा सकफे वाते कोष्ठशूलकरे पिबेत् ।
कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभया: ॥१०१॥
छर्द्यर्शोग्रन्थिशूलेषु पिबेदुष्णेन वारिणा ।
पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम् ॥१०२॥
अभयां पिप्पलीमूलं वचां कटुकरोहिणीम् ।
पाठां वत्सकबीजानि चित्रकं विश्वभेषजम् ॥१०३॥
पिबेन्निष्क्वाथ्य चूर्णं वा कृत्वा कोष्णेन वारिणा ।
पित्तश्लेष्माभिभूतायां ग्रहण्यां शूलनुद्धितम् ॥१०४॥
सामे सातिविषं व्योषं लवणक्षारहिङ्गु च ।
नि:क्वाथ्य पाययेच्चूर्णं कृत्वा वा कोष्णवारिणा ॥१०५॥
पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम् ।
चित्रकं कौटजं बीजं लवणान्यथ पञ्च च ॥१०६॥
तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभि: ।
पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नर: ॥१०७॥
मरिचं कुञ्चिकाम्बष्ठावृक्षाम्ला: कुडवा: पृथक् ।
पलानि दश चाम्लस्य वेतसस्य पलार्धिकम् ॥१०८॥
सौवर्चलं बिडं पाक्यं यवक्षार: ससैन्धव: ।
शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका ॥१०९॥
तत् सर्वमेकत: सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत् ।
हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा ॥११०॥
इति मरिचाद्यं चूर्णम् ।
चतुर्णां प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम् ।
लवणांनां च चत्वारि शर्कराया: पलाष्टकम् ।
संचूर्ण्य शाकसूपान्नरागादिष्ववचारयेत् ॥१११॥
कासाजीर्णारुचिश्वासहृत्पाण्ड्वामयशूलनुत् ।
चव्यत्वक्पिप्पलीमूलधातकीव्योषचित्रकान् ॥११२॥
कपित्थं बिल्वमम्बष्ठां शाल्मलं हस्तिपिप्पलीम् ।
शिलोद्भेदं तथाऽजाजीं पिष्ट्वा बदरसंमितम् ॥११३॥
परिभर्ज्य घृते दध्ना यवागूं साधयेद्भिषक् ।
रसै: कपित्थचुक्रीकावृक्षाम्लैर्दाडिमस्य च ॥११४॥
सर्वातिसारग्रहणीगुल्मार्श:प्लीहनाशिनी ।
पञ्चकोलकयूषश्च मूलकानां च सोषण: ॥११५॥
स्निग्धो दाडिमतक्राम्लो जाङ्गल: संस्कृतो रस: ।
क्रव्यादस्वरस: शस्तो भोजनार्थे सदीपन: ॥११६॥
तक्रारनालमद्यानि पानायारिष्ट एव च ।
तक्रं तु ग्रहणीदोषे दीपनग्राहिलाघवात् ॥११७॥
श्रेष्ठं मधुरपाकित्वान्न च पित्तं प्रकोपयेत् ।
कषायोष्णविकाशित्वाद्रौक्ष्याच्चैव कफे हितम् ॥११८॥
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत् ।
तस्मात् तक्रप्रयोगा ये जठराणां तथाऽर्शसाम् ॥११९॥
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत् ।
यवान्यामलके पथ्या मरिचं त्रिपलांशिकम् ॥१२०॥
लवणनि पलांशानि पञ्च चैकत्र चूर्णयेत् ।
तक्रे तदासुतं जातं तक्रारिष्टं पिबेन्नर: ।
दीपनं शोथगुल्मार्श:क्रिमिमेहोदरापहम् ॥१२१॥
इति तक्रारिष्ट: ।
स्वस्थानगतमुत्क्लिष्टमग्निनिर्वापकं भिषक् ।
पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा ॥१२२॥
अविदाहिभिरभिन्नैश्च लघुभिरस्तिक्तसंयुतै: ।
जाङ्गलानां रसैर्यूषैर्मुद्गादीनां खडैरपि ॥१२३॥
दाडिमाम्लै: ससर्पिष्कैर्दीपनग्राहिसंयुतै: ।
तस्याग्निं दीपयेच्चूर्णै: सर्पिर्भिश्चापि तिक्तकै: ॥१२४॥
चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम् ।
षड्ग्रन्थासारिवास्फोतासप्तपर्णाटरूषकान् ॥१२५॥
पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान् ।
कटुकां रोहिणीं मुस्तं निम्बं च द्विपलांशिकम् ॥१२६॥
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत् ।
किराततिक्तेन्द्रयववीरामागधिकोत्पलै: ॥१२७॥
कल्कैरक्षसमै: पेयं तत् पित्तग्रहणीगदे ।
तिक्तकं यद्घृतं चोक्तं कौष्ठिके तच्च दापयेत् ॥१२८॥
इति चन्दनाद्यं घृतम् ।
नागरातिविषे मुस्तं धातकीं च रसाञ्जनम् ।
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् ॥१२९॥
पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना ।
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते ॥१३०॥
अर्शांसि च गुदे शूलं जयेच्चैव प्रवाहिकाम् ।
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम् ॥१३१॥
इति नागराद्यं चूर्णम् ।
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान् समान् ।
द्वौ चित्रकाद्वत्सकत्वग्भागान् षोडश चूर्णयेत् ॥१३२॥
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत् ।
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत् ॥१३३॥
इति भूनिम्बाद्यं चूर्णम् ।
वचामतिविषां पाठां सप्तपर्णं रसाञ्जनम् ।
स्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभा: ॥१३४॥
दार्वीं पर्पटकं पाठां यवानीं मधुशिग्रुकम् ।
पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान् ॥१३५॥
जम्ब्वाम्रबिल्वमध्यानि निम्बशाकफलानि च ।
तद्रोगशममन्विच्छन् भूनिम्बाद्येन योजयेत् ॥१३६॥
किराततिक्त: षड्ग्रन्था त्रायमाणा कटुत्रिकम् ।
चन्दनं पद्मकोशीरं दार्वीत्वक् कटुरोहिणी ॥१३७॥
कुटजत्वक्फलं मुस्तं यवानी देवदारु च ।
पटोलनिम्बपत्रैलासौराष्ट्र्यतिविषात्वच: ॥१३८॥
मधुशिग्रोश्च बीजानि मूर्वा पर्पटकस्तथा ।
तच्चूर्णं मधुना लेह्यं पेयं मद्यैर्जलेन वा ॥१३९॥
हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान् ।
कामलां सन्निपातं च मुखरोगांश्च नाशयेत् ॥१४०॥
इति किराताद्यं चूर्णम् ।
ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि ।
कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत् ॥१४१॥
पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकीम् ।
पिप्पलीं पिप्पलीमूलं पाठां नागरधान्यकम् ॥१४२॥
कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषितम् ।
पानीयार्थं प्रयुञ्जीत यवागूं तैश्च साधयेत् ॥१४३॥
शुष्कमूलकयूषेण कौलत्थेनाथवा पुन: ।
कट्वम्लक्षारपटुना लघून्यन्नानि भोजयेत् ॥१४४॥
अम्लं चानु पिबेत्तक्रं तक्रारिष्टमथापि वा ।
मदिरां मध्वरिष्टं वा निगदं सीधुमेव वा ॥१४५॥
द्रोणं मधूकपुष्पाणां विडङ्गानां ततोऽर्धत: ।
चित्रकस्य ततोऽर्धं स्यात्तथा भल्लातकाढकम् ॥१४६॥
मञ्जिष्ठाष्टपलं चैव त्रिद्रोणेऽपां विपाचयेत् ।
द्रोणशेषं तु तच्छीतं मध्वर्धाढकसंयुतम् ॥१४७॥
एलामृणालागुरुभिश्चन्दनेन च रूषिते ।
कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत् ॥१४८॥
ग्रहणीं दीपयत्येव बृंहण: कफपित्तजित् ।
शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत् ॥१४९॥
इति मधूकासव: ।
मधूकपुष्पस्वरसं शृतमर्धक्षयीकृतम् ।
क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत् ॥१५०॥
तं पिबन् ग्रहणीदोषाञ्जयेत् सर्वान् हिताशन: ।
तद्वद्द्राक्षेक्षुखर्जूरस्वरसानासुतान् पिबेत् ॥१५१॥
प्रस्थौ दुरालभाया द्वौ प्रस्थमामलकस्य च ।
दन्तीचित्रकमुष्टी द्वे प्रत्यग्रं चाभयाशतम् ॥१५२॥
चतुर्द्रोणेऽम्भस: पक्त्वा शीतं द्रोणावशेषितम् ।
सगुडद्विशतं पूतं मधुन: कुडवायुतम् ॥१५३॥
तद्वत् प्रियङ्गो: पिप्पल्या विडङ्गानां च चूर्णितै: ।
कुडवैर्घृतकुम्भस्थं पक्षाज्जातं तत: पिबेत् ॥१५४॥
ग्रहणीपाण्डुरोगार्श:कुष्ठवीसर्पमेहनुत् ।
स्वरवर्णकरश्चैष रक्तपित्तकफापह: ॥१५५॥
इति दुरालभासव: ।
हरिद्रा पञ्चमूले द्वे वीरर्षभकजीवकम् ।
एषां पञ्चपलान् भागांश्चतुर्द्रोणेऽम्भस: पचेत् ॥१५६॥
द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक् ।
चूर्णितान् कुडवार्धांशान् प्रक्षिपेच्च समाक्षिकान् ॥१५७॥
प्रियङ्गुमुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान् ।
लोध्रं शाबरकं चैव मासार्धस्थं पिबेत्तु तम् ॥१५८॥
एष मूलासव: सिद्धो दीपनो रक्तपित्तजित् ।
आनाहकफहृद्रोगपाण्डुरोगाङ्गसादनुत् ॥१५९॥
इति मूलासव: ।
प्रास्थिकं पिप्पलीं पिष्ट्वा गुडं मध्यं बिभीतकात् ।
उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत् ॥१६०॥
तस्मात् पलं सुजातात्तु सलिलाञ्जलिसंयुतम् ।
पिबेत्पिण्डासवो ह्येष रोगानीकविनाशन: ॥१६१॥
स्वस्थोऽप्येनं पिबेन्मासं नर: स्निग्धरसाशन: ।
इच्छंस्तेषामनुत्पत्तिं रोगाणां येऽत्र कीर्तिता: ॥१६२॥
इति पिण्डासव:।
नवे पिप्पलिमध्वाक्ते कलसेऽगुरुधूपिते ।
मध्वाढकं जलसमं चूर्णानीमानि दापयेत् ॥१६३॥
कुडवार्धं विडङ्गानां पिप्पल्या: कुडवं तथा ।
चतुर्थिकांशां त्वक्क्षीरीं केशरं मरिचानि च ॥१६४॥
त्वगेलापत्रकशटीक्रमुकातिविषाघनान् ।
हरेण्वेल्वालुतेजोह्वापिप्पलीमूलचित्रकान् । ॥१६५॥
कार्षिकांस्तत् स्थितं मासमत ऊर्ध्वं प्रयोजयेत् ।
मन्दं संदीपयत्यग्निं करोति विषमं समम् ॥१६६॥
हृत्पाण्डुग्रहणीरोगकुष्ठार्श:श्वयथुज्वरान् ।
वातश्लेष्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति ॥१६७॥
इति मध्वरिष्ट:।
समूलां पिप्पलीं क्षारौ द्वौ पञ्च लवणानि च ।
मातुलुङ्गाभयारास्नाशटीमरिचनागरम् ॥१६८॥
कृत्वा समांशं तच्चूर्णं पिबेत् प्रात: सुखाम्बुना ।
श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम् ॥१६९॥
एतैरेवौषधै: सिद्धं सर्पि: पेयं समारुते ।
गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत् ॥१७०॥
बिडं कालोत्थलवणं सर्जिकायवशूकजम् ।
सप्तलां कण्टकारीं च चित्रकं चेति दाहयेत् ॥१७१॥
सप्तकृत्व: स्रुतस्यास्य क्षारस्य द्व्याढकेन तु ।
आढकं सर्पिष: पक्त्वा पिबेदग्निविवर्धनम् ॥१७२॥
इति क्षारघृतम् ।
समूलां पिप्पलीं पाठां चव्येन्द्रयवनागरम् ।
चित्रकातिविषे हिङ्गु श्वदंष्ट्रां कटुरोहिणीम् ॥१७३॥
वचां च कार्षिकं पञ्चलवणानां पलानि च ।
दध्न: प्रस्थद्वये तैलसर्पिषो: कुडवद्वये ॥१७४॥
खण्डीकृतानि निष्क्वाथ्य शनैरन्तर्गते रसे ।
अन्तर्धूमं ततो दग्ध्वा चूर्णं कृत्वा घृताप्लुतम् ॥१७५॥
पिबेत् पाणितलं तस्मिञ्जीर्णे स्यान्मधुराशन: ।
वातश्लेष्मामयान्सर्वान्हन्याद्विषगरांश्च स: ॥१७६॥
भल्लातकं त्रिकटुकं त्रिफलां लवणत्रयम् ।
अन्तर्धूमं द्विपलिकं गोपुरीषाग्निना दहेत् ॥१७७॥
स क्षार: सर्पिषा पीतो भोज्ये वाऽप्यवचूर्णित: ।
हृत्पाण्डुग्रहणीदोषगुल्मोदावर्तशूलनुत् ॥१७८॥
दुरालभां करञ्जौ द्वौ सप्तपर्णं सवत्सकम् ।
षड्ग्रन्थां मदनं मूर्वां पाठामारग्वधं तथा ॥१७९॥
गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत् ।
दग्ध्वा च तं पिबेत् क्षारं ग्रहणीबलवर्धनम् ॥१८०॥
भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम् ।
दहेन्माहिषमूत्रेण क्षार एषोऽग्निवर्धन: ॥१८१॥
द्वे हरिद्रे वचा कुष्ठं चित्रक: कटुरोहिणी ।
मुस्तं च बस्तमूत्रेण दहेत् क्षारोऽग्निवर्धन: ॥१८२॥
चतुष्पलं सुधाकाण्डात् त्रिपलं लवणत्रयात् ।
वार्ताकीकुडवं चार्कादष्टौ द्वे चित्रकात् पले ॥१८३॥
दग्धानि वार्ताकुरसे गुटिका भोजनोत्तरा: ।
भुक्तं भुक्तं पचन्त्याशु कासश्वासार्शसां हिता: ॥१८४॥
विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ता: ।
इत्येषा क्षारगुटिका कृष्णात्रेयेण कीर्तिता ॥१८५॥
इति क्षारगुडिका
वत्सकातिविषे पाठां दु:स्पर्शां हिङ्गु चित्रकम् ।
चूर्णीकृत्य पलाशाग्रक्षारे मूत्रस्रुते पचेत् ॥१८६॥
आयसे भाजने सान्द्रात्तस्मात् कोलं सुखाम्बुना ।
मद्यैर्वा ग्रहणीदोषशोथार्श:पाण्डुमान् पिबेत् ॥१८७॥
इति चतुर्थक्षार: ।
त्रिफलां कटभीं चव्यं बिल्वमध्यमयोरज: ।
रोहिणीं कटुकां मुस्तं कुष्ठं पाठां च हिङ्गु च ॥१८८॥
मधुकं मुष्ककयवक्षारौ त्रिकटुकं वचाम् ।
विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्बचित्रकौ ॥१८९॥
मूर्वाजमोदेन्द्रयवान् गुडूचीं देवदारु च ।
कार्षिकं लवणानां च पञ्चानां पलिकान्पृथक् ॥१९०॥
भागान् दध्नि त्रिकुडवे घृततैलेन मूर्च्छितम् ।
अन्तर्धूमं शनैर्दग्ध्वा तस्मात् पाणितलं पिबेत् ॥१९१॥
सर्पिषा कफवातार्शोग्रहणीपाण्डुरोगवान् ।
प्लीहमूत्रग्रहश्वासहिक्काकासक्रिमिज्वरान् ॥१९२॥
शोषातिसारौ श्वयथुं प्रमेहानाहहृद्ग्रहान् ।
हन्यात् सर्वविषं चैव क्षारोऽग्निजननो वर: ॥१९३॥
जीर्णे रसैर्वा मधुरैरश्नीयात् पयसाऽपि वा ।
इति पञ्चमक्षार: ।
त्रिदोषे विधिविद्वैद्य: पञ्च कर्माणि कारयेत् ॥१९४॥
घृतक्षारासवारिष्टान् दद्याच्चाग्निविवर्धनान् ।
क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति ॥१९५॥
व्यत्यासात्तां समस्तां वा कुर्याद्दोषविशेषवित् ।
स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत् ॥१९६॥
चूर्णानि लवणक्षारमध्वरिष्टसुरासवा: ।
विविधास्तक्रयोगाश्च दीपनानां च सर्पिषाम् ॥१९७॥
ग्रहणीरोगिभि: सेव्या:, क्रियां चावस्थिकीं शृणु ।
ष्ठीवनं श्लैष्मिके रूक्षं दीपनं तिक्तसंयुतम् ॥१९८॥
सकृद्रूक्षं सकृत्स्निग्धं कृशे बहुकफे हितम् ।
परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम् ॥१९९॥
दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम् ।
बहुवातस्य तु स्नेहलवणाम्लयुतं हितम् ॥२००॥
सन्धुक्षति तथा वह्निरेषां विधिवदिन्धनै: ।
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम् ॥२०१॥
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि ।
मन्दाग्निरविपक्वं तु पुरीषं योऽतिसार्यते ॥२०२॥
दीपनीयौषधैर्युक्तां घृतमात्रां पिबेत्तु स: ।
तया समान: पवन: प्रसन्नो मार्गमास्थित: ॥२०३॥
अग्ने: समीपचारित्वादाशु प्रकुरुते बलम् ।
काठिन्याद्य: पुरीषं तु कृच्छ्रान्मुञ्चति मानव: ॥२०४॥
सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत् ।
रौक्ष्यान्मन्दे पिबेत्सर्पिस्तैलं वा दीपनैर्युतम् ॥२०५॥
अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिता: ।
भिन्ने गुदोपलेपात्तु मले तैलसुरासवा: ॥२०६॥
उदावर्तात्तु मन्देऽन्गौ निरूहा: स्नेहबस्तय: ।
दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोषविधिं चरेत् ॥२०७॥
व्याधियुक्तस्य मन्दे तु सर्पिरेवाग्निदीपनम् ।
उपवासाच्च मन्देऽग्नौ यवागूभि: पिबेद्घृतम् ॥२०८॥
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत् ।
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान् ॥२०९॥
प्रसहानां रसै: साम्लैर्भोजयेत् पिशिताशिनाम् ।
लघु, तीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम् ॥२१०॥
मांसोपचितमांसत्वात्तथाऽऽशुतरबृंहणा: ।
नाभोजनेन कायग्निर्दीप्यते नातिभोजनात् ॥२११॥
यथा निरिन्धनो वह्निरल्पो वाऽतीन्धनावृत: ।
स्नेहान्नविधिभिश्चित्रैश्चूर्णारिष्टसुरासवै: ॥२१२॥
सम्यक्प्रयुक्तैर्भिषजा बलमग्ने: प्रवर्धते ।
यथा हि सारदार्वग्नि: स्थिर: संतिष्ठते चिरम् ॥२१३॥
स्नेहान्नविधिभिस्तद्वदन्तरग्निर्भवेत् स्थिर: ।
हितं जीर्णे मितं चाश्नंश्चिरमारोग्यमश्नुते ॥२१४॥
अवैषम्येण धातूनामग्निवृद्धौ यतेत ना ।
समैर्दोषै: समो मध्ये देहस्योष्माऽग्निसंस्थित:॥२१५॥
पचत्यन्नं तदारोग्यपुष्ट्यायुर्बलवृद्धये
दोषैर्मन्दोऽतिवृद्धो वा विषमैर्जनयेद्गदान् ॥२१६॥
वाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते ।
नरे क्षीणकफे पित्तं कुपितं मारुतानुगम् ॥२१७॥
स्वोष्मणा पावकस्थाने बलमगग्ने: प्रयच्छति ।
तदा लब्धबलो देहे विरूक्षे सानिलोऽनल: ॥२१८॥
परिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहु: ।
पक्त्वाऽन्नं स ततो धातूञ्छोणितादीन् पचत्यपि ॥२१९॥
ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम् ।
भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति ॥२२०॥
तृट्श्वासदाहमूर्च्छाद्या व्याधयोऽत्यग्निसंभवा: ।
तमत्यग्निं गुरुस्निग्धशीतैर्मधुरविज्जलै: ॥२२१॥
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभि: ।
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत् ॥२२२॥
निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत् ।
पायसं कृशरां स्निग्धं पैष्टिकं गुडवैकृतम् ॥२२३॥
अद्यात्तथौदकानूपपिशितानि भृतानि च ।
मत्स्यान्विशेषत: श्लक्ष्णान्स्थिरतोयचरांस्तथा ॥२२४॥
आविकं च भूतं मांसमद्यादत्यग्निनाशनम् ।
यवागूं समधूच्छिष्टां घृतं वा क्षुधित: पिबेत् ॥२२५॥
गोधूमचूर्णमन्थं वा व्यधयित्वा सिरां पिबेत् ।
पयो वा शर्करासर्पिर्जीवनीयौषधै: शृतम् ॥२२६॥
फलानां तैलयोनीनामुत्कुञ्चाश्च सशर्करा: ।
मार्दवं जनयन्त्यग्ने: स्निग्धा मांसरसास्तथा ॥२२७॥
पिबेच्छीताम्बुना सर्पिर्मधूच्छिष्टेन संयुतम् ।
गोधूमचूर्णं पयसा ससर्पिष्कं पिबेन्नर: ॥२२८॥
आनूपरससिद्धान् वा त्रीन् स्नेहांस्तैलवर्जितान् ।
पयसा संमितं चापि घनं त्रिस्नेहसंयुतम् ॥२२९॥
नारीस्तन्येन संयुक्तां पिबेदौदुम्बरीं त्वचम् ।
ताभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये ॥२३०॥
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम् ।
असकृत् पित्तशान्त्यर्थं पायसप्रतिभोजनम् ॥२३१॥
प्रसमीक्ष्य भिषक् प्राज्ञस्तस्मै दद्याद्विधानवित् ।
यत्किञ्चिन्मधुरं मेद्यं श्लेष्मलं गुरुभोजनम् ॥२३२॥
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा ।
मेद्यान्यन्नानि योऽत्यग्नावप्रतान्त: समश्नुते ॥२३३॥
न तन्निमित्तं व्यसनं लभते पुष्टिमेव च ।
कफे वृद्धे जिते पित्ते मारुते चानल: सम: ॥२३४॥
समधातो: पचत्यन्नं पुष्ट्यायुर्बलवृद्धये ।
भवति चात्र–
पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम् ॥२३५॥
विषमं बहु वाऽल्पं वाऽप्यप्राप्तातीतकालयो: ।
भुक्तं पूर्वान्नशेषे तु पुनरध्यशनं मतम् ॥२३६॥
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा ।
प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति ॥२३७॥
दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत् ।
तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वश: ॥२३८॥
व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्च चेतस: ।
न क्लेदमुपगच्छन्ति दिवा तेनास्य धातव: ॥२३९॥
अक्लिन्नेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति ।
अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम् ॥२४०॥
नैव दूष्यति तेनैव समं संपद्यते यथा ।
रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च ।
यान्ति कोष्ठे परिक्लेदं संवृते देहधातव: ॥२४१॥
क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति ।
विदग्धेषु पय:स्वन्यत् पयस्तप्तमिवार्पितम् ॥२४२॥
नैशेष्वाहारजातेषु नाविपक्वेषु बुद्धिमान् ।
तस्मादन्यत्समश्नीयात्पालयिष्यन्बलायुषी ॥२४३॥
तत्र श्लोका:–
अन्तरग्निगुणा देहं यथा धारयते च स: ।
यथाऽन्नं पच्यते यांश्च यथाऽऽहार: करोत्यपि ॥२४४॥
येऽग्नयो यांश्च पुष्यन्ति यावन्तो ये पचन्ति यान् ।
रसादीनां क्रमोत्पत्तिर्मलानां तेभ्य एव च ॥२४५॥
वृष्याणामाशुकृद्धेतुर्धातुकालोद्भवक्रम: ।
रोगैकदेशकृद्धेतुरन्तरग्निर्यथाऽधिक: ॥२४६॥
प्रदुष्यति यथा दुष्टो यान् रोगाञ्जनयत्यपि ।
ग्रहणी या यथा यच्च ग्रहणीदोषलक्षणम् ॥२४७॥
पूर्वरूपं पृथक् चैव व्यञ्जनं सचिकित्सितम् ।
चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया ॥२४८॥
जायते च यथाऽत्यग्निर्यच्च तस्य चिकित्सितम् ।
उक्तवानिह तत् सर्वं ग्रहणीदोषके मुनि: ॥२४९॥
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने ग्रहणीचिकित्सितं नाम पञ्चदशोऽध्याय: ॥१५॥
Last updated on June 23rd, 2021 at 10:11 am