Font Resize
Skip to content

14. Sveda – Sootra – C”

चतुर्दशोऽध्यायः ।

अथातः स्वेदाध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः ।

स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः ॥३॥

स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले ।

पुरीषमूत्ररेतांसि न सज्जन्ति कथंचन ॥४॥

शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः ।

नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्‌ ॥५॥

रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च ।

द्रव्यवान्‌ कल्पितो देशे स्वेदः कार्यकरो मतः ॥६॥

व्याधौ शीते शरीरे च महान्‌ स्वेदो महाबले ।

दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः ॥७॥

वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते ।

स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः ॥८॥

आमाशयगते वाते कफे पक्वाशयाश्रिते ।

रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च ॥९॥

वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा ।

मध्यमं वंक्षणौ शेषमङ्गावयवमिष्टतः ॥१०॥

सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा ।

पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी ॥११॥

भुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि ।

जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्‌ ॥१२॥

शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे ।

संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता ॥१३॥

पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा ।

दाहः स्वराङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम्‌ ॥१४॥

उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्वशो विधिः ।

सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः ॥१५॥

कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम्‌ ।

पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम्‌ ॥१६॥

विदग्धभ्रष्टबध्नानां विषमद्यविकारिणाम्‌ ।

श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम्‌ ॥१७॥

तृष्यतां क्षुधितानां च क्रुद्धानां शोचतामपि ।

कामल्युदरिणां चैव क्षतानामाढ्यरोगिणाम्‌ ॥१८॥

दुर्बलातिविशुष्काणामुपक्षीणौजसां तथा।

भिषक्‌ तैमिरिकाणां च न स्वेदमवतारयेत्‌ ॥१९॥

प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे ।

कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे ॥२०॥

अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके ।

कोष्ठानाहविबन्धेषु मूत्राघाते विजृम्भके ॥२१॥

पार्श्वपृष्ठकटीकुक्षिसंग्रहे गृध्रसीषु च ।

मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्दके ॥२२॥

पादजानूरुजङ्घार्तिसंग्रहे श्वयथावपि ।

खल्लीष्वामेषु शीते च वेपथौ वातकण्टके ॥२३॥

संकोचायामशूलेषु स्तम्भगौरवसुप्तिषु ।

सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते ॥२४॥

तिलमाषकुलत्थाम्लघृततैलामिषौदनैः ।

पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत्‌ ॥२५॥

गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः ।

सिकतापांशुपाषाणकरीषायसपूटकैः ॥२६॥

श्लैष्मिकान्‌ स्वेदयेत्‌ पूर्वैर्वातिकान्‌ समुपाचरेत्‌ ।

द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि ॥२७॥

भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च ।

विधूमाङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम्‌ ॥२८॥

ग्राम्यानूपौदकं मांसं पयो बस्तशिरस्तथा ।

वराहमध्यपित्तासृक्‌ स्नेहवत्तिलतण्डुलाः ॥२९॥

इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्‌ ।

देशकालविभागज्ञो युक्त्यपेक्षो भिषक्तमः ॥३०॥

वारुणामृतकैरण्डशिग्रुमूलसर्षपैः ।

वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च ॥३१॥

शोभाञ्जनकसैरेयमालतीसुरसार्जकैः ।

पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्‌ ॥३२॥

भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना ।

मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत्‌ ॥३३॥

एत एव च निर्यूहाः प्रयोज्या जलकोष्ठके ।

स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत्‌ ॥३४॥

गोधूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः ।

सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते ॥३५॥

गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया ।

उमया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत्‌ ॥३६॥

चर्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः ।

उष्णवीर्यैरलाभे तु कौशेयाविकशाटकैः ॥३७॥

रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवा कृतम्‌ ।

विदाहपरिहारार्थं, स्यात्‌ प्रकर्षस्तु शीतले ॥३८॥

सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम्‌ ।

जेन्ताकोऽश्मघनः कर्षूः कुटी भूः कुम्भिकैव च ॥३९॥

कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश ।

तान्‌ यथावत्‌ प्रवक्ष्यामि सर्वानेवानुपूर्वशः ॥४०॥

तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं

सङ्करस्वेद इति विद्यात्‌ ॥४१॥

शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदे पञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा

स्वभ्यक्तसर्वगात्रस्य शयानस्योपस्वेदनं प्रस्तरस्वेद इति विद्यात्‌ ॥४२॥

स्वेदनद्रव्याणां पुनर्मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्वा विनामितया

वातहरसिद्धस्नेहाभ्यक्तगात्रो बाष्पमुपहरेत्‌, बाष्पो ह्यनृजुगामी विहतचण्डवेगस्त्वचमविदहन्‌ सुखं स्वेदयतीति नाडीस्वेदः ॥४३॥

वातिकोरत्तरवातिकानां पुनर्मूलादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वर्षणिकाः प्रनाडीर्वा पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः ॥४४॥

वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाह: ॥४५॥

अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत -तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौवाऽरत्नीरुपक्रम्योदकात्‌ प्राङ्‌मुखमुदङ्‌मुखं वाऽभिमुखतीर्थं कूटागारं कारयेत्‌, उत्सेधविस्तारतः परमरत्नीः षोडश, समन्तात्‌ सुवृत्तं मृत्कर्मसंपन्नमनेकवातायनम्‌; अस्य कूटागारस्यान्तः समन्ततोभित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेदाकपाटात्‌, मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत्‌; तं च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्‌, स यदा जानीयात्‌ साधु दग्धानि काष्ठानि गतधूमान्यवतप्तं च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति, तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्‌, प्रवेशयंश्चैनमनुशिष्यात्‌ – सौम्य ! प्रविश कल्याणायारोग्याय चेति, प्रविश्य चैनां पिण्डिकामधिरुह्यपार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः, न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषा विमोक्तव्याऽऽप्राणोच्छ्वासात्‌, भ्रश्यमानो ह्यतः पिण्डिवकावकाशाद्‌द्वारमनधिगच्छन्‌ स्वेदमूर्च्छापरीततया सद्यः प्राणाञ्जह्याः, तस्मात्‌ पिण्डिकामेनां न कथंचन मुञ्चेथाः, त्वं यदा जानीयाः -विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघूभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति, ततस्तां पिण्डि कामनुसरन्‌ द्वारं प्रपद्येथाः, निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः, अपगतसन्तापक्लमस्तु मुहूर्तात्‌ सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयाः; इति जेन्ताकस्वेदः ॥४६॥

शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्‌ ।

तापयित्वा मारुतघ्नैर्दारुभिः संप्रदीपितैः ॥४७॥

व्यपोज्झ्य सर्वानङ्गारान्‌ प्रोक्ष्य चैवोष्णवारिणा ।

तां शिलामथ कुर्वीत कौषेयाविकसंस्तराम्‌ ॥४८॥

तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन्‌ स्विद्यति ना सुखम्‌ ।

कौरवाजिनकौषेयप्रावाराद्यैः सुसंवृतः ॥४९॥

इत्युक्तोऽश्मघ्नास्वेदः, कर्षूस्वेदः प्रवक्ष्यते ।

खानयेच्छयनस्याधः कर्षूं स्थानविभागवित्‌ ॥५०॥

दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत्ततः ।

तस्यामुपरि शय्यायां स्वपन्‌ स्विद्यति ना सुखम्‌ ॥५१॥

अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम्‌ ।

घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत्‌ ॥५२॥

कुटीमध्ये भिषक्‌ शय्यां स्वास्तीर्णामुपकल्पयेत्।

प्रावाराजिनकौशेयकुथकम्बलगोलकैः ॥५३॥

हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः ।

परिवार्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम्‌ ॥५४॥

य एवाश्मघ्नास्वेदविधिर्भूमौ स एव तु ।

प्रशस्तायां निवातायां समायामुपदिश्यते ॥५५॥

कुम्भीं वातहरक्वाथपूर्णां भूमौ निखानयेत्‌ ।

अर्धभाग त्रिभागं वा शयनं तत्र चोपरि ॥५६॥

स्थापयेदासनं वाऽपि नातिसान्द्रपरिच्छदम्‌ ।

अथ कुम्भ्यां सुसन्तप्तान्‌ प्रक्षिपेदयसो गुडान्‌ ॥५७॥

पाषाणान्‌ वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम्‌ ।

सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः ॥५८॥

कृपं शयनविस्तारं द्विगुणं चापि वेधतः ।

देशे निवाते शस्ते च कुर्यादन्तःसुमार्जितम्‌ ॥५९॥

हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते ।

स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम्‌ ॥६०॥

धीतीकां तु करीषाणां यथोक्तानां प्रदीपयेत्‌ ।

शयनान्तःप्रमाणेन शय्यामुपरि तत्र च ॥६१॥

सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत्‌ ।

स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम्‌ ॥६२॥

होलाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा ।

इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः ॥६३॥

व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा ।

बहुपानं भयक्रोधावुपनाहाहवातपाः ॥६४॥

स्वेदयन्ति दशैतानि नरमग्निगुणादृते ।

इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च ॥६५॥

एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च ।

इत्येतत्‌ त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम्‌ ॥६६॥

स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत्‌ ।

तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः ॥६७॥

तत्र श्लोकाः –

स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः ।

यत्र देशे यथा योग्यो देशो रक्ष्यश्च यो यथा ॥६८॥

स्विन्नातिस्विन्नपाणि तथाऽतिस्विन्नभेषजम्‌ ।

अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना ॥६९॥

त्रयोदशविधः स्वेदो विना दशविधोऽग्निना  ।

संग्रहेण च षट्‌ स्वेदाः स्वेदाध्याये निदर्शिताः ॥७०॥

स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा ।

शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः ॥७१॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने

स्वेदाध्यायो नाम चतुर्दशोऽध्यायः ॥१४॥

Last updated on May 28th, 2021 at 11:33 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush[at]gov[dot]in) for necessary amendments.

English