सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
त्रयोदशोऽध्यायः ।
अथातो मधुमेहचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम् |
योगेनानेन मतिमान् प्रमेहिणमुपाचरेत् ||३||
मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः |
जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि ||४||
शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम् |
त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम् ||५||
ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ |
लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम् ||६||
तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति तत् |
त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम् ||७||
यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः |
तत्सर्वं तिक्तकटुकं कषायानुरसं सरम् ||८||
कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा |
तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत् ||९||
गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते |
तद्भावितं सारगणैर्हृतदोषो दिनोदये ||१०||
पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम् |
जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत् ||११||
उपयुज्य तुलामेवं गिरिजादमृतोपमात् |
वपुर्वर्णबलोपेतो मधुमेहविवर्जितः ||१२||
जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः |
शतं शतं तुलायां तु सहस्रं दशतौलिके ||१३||
भल्लातकविधानेन परिहारविधिः स्मृतः |
मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम् ||१४||
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम् |
अपोहत्यचिरात्कालाच्छिलाजतु निषेवितम् ||१५||
न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु |
शर्करां चिरसम्भूतां भिनत्ति च तथाऽश्मरीम् ||१६||
भावनालोडने चास्य कर्तव्ये भेषजैर्हितैः |
एवं च माक्षिकं धातुं तापीजममृतोपमम् ||१७||
मधुरं काञ्चनाभासमम्लं वा रजतप्रभम् |
पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान् ||१८||
तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत् |
पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम् ||१९||
योगेनानेन मतिमान् साधयेदपि कुष्ठिनम् |
वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु ||२०||
वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः |
तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे ||२१||
मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च |
तिलवत् पीडयेद्द्रोण्यां स्रावयेद्वा कुसुम्भवत् ||२२||
तत्तैलं संहृतं भूयः पचेदातोयसम्क्षयात् |
अवतार्य करीषे च पक्षमात्रं निधापयेत् ||२३||
स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान् |
चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे ||२४||
मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम् |
तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्यते ||२५||
‘मज्जसार महावीर्य सर्वान् धातून् विशोधय |
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः’ ||२६||
तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः |
अस्नेहलवणां सायं यवागूं शीतलां पिबेत् ||२७||
पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः |
पक्षं परिहरेच्चापि मुद्गयूषौदनाशनः ||२८||
पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते |
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम् ||२९||
निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रितः |
तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् ||३०||
भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम् |
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ||३१||
सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना |
पक्षिमांसरसाहारं करोति द्विशतायुषम् ||३२||
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम् |
वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम् ||३३||
शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया |
महावीर्यस्तुवरकः कुष्ठमेहापहः परः ||३४||
सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च |
पैल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन ||३५||
इति सुश्रुतसंहितायां चिकित्सास्थाने मधुमेहचिकित्सितं नाम त्रयोदशोऽध्यायः ||१३||
Last updated on July 8th, 2021 at 09:21 am