Skip to content

13. Jalaukaavachaaran`eeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

त्रयोदशोऽध्याय: ।

       अथातो जलौकावचारणीयमध्यायं व्याख्यास्याम: ॥१॥

       यथोवाच भगवान्‌ धन्वन्तरि: ॥२॥

       नृपाढ्यबालस्थविरभीरुदुर्बलनारीसुकुमाराणामनुग्रहार्थं परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलौकस: ॥३॥

       तत्र वातपित्तकफदुष्टशोणितं यथासंख्यं शृङ्गजलौकालाबुभिरवसेचयेत्‌, सर्वाणि सर्वैर्वा (विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात्‌) ॥४॥

भवन्ति चात्र श्लोका: –

       उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम्‌ ॥

       तस्माद्वातोपसृष्टे तु हितं तदवसेचने ॥५॥

       शीताधिवासा मधुरा जलौका वारिसंभवा ॥

       तस्मात्‌ पित्तोपसृष्टे तु हिता सा त्ववसेचने ॥६॥

       अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम्‌ ॥

       तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ॥७॥

       तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्‌, सान्तर्दीपयाऽलाब्वा । (जलायुका वक्ष्यन्ते) ॥८॥

       जलमासामायुरिति जलायुका:, जलमासामोक इति जलौकस: ॥९॥

       ता द्वादश:, तासां सविषाः षट्‌ तावत्य एव निर्विषा: ॥१०॥

       तत्र सविषा: – कृष्णा, कर्बुरा, अलगर्दा, इन्द्रायुधा, सामुद्रिका, गोचन्दना चेति । तासु, अञ्जनचूर्णवर्णा पृथुशिरा: कृष्णा, वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षि: कर्बुरा, रोमशा महापार्श्वा कृष्णमुखी अलगर्दा, इन्द्रायुधवदूर्ध्वराजिभिश्चित्रा इन्द्रायुधा, ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका:, गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मद: सदनमिति लिङ्गानि भवन्ति। तत्र महागद: पानालेपननस्यकर्मादिषूपयोज्य: । इन्द्रायुधादष्टमसाध्यम्‌।  इत्येता: सविषा: सचिकित्सिता व्याख्याता: ॥११॥

       अथ निर्विषा: – कपिला, पिङ्गला, शङ्कुमुखी, मूषिका, पुण्डरीकमुखी, सावरिका चेति । तत्र, मन:शिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला, किंचिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला, यकृद्वर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी, मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका, मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी, स्निग्धा पद्मपत्रवर्णाऽष्टादशाङ्गुलप्रमाणा सावरिका, सा च पश्वर्थे, इत्येता अविषा व्याख्याता: ॥१२॥

       तासा यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि, तेषु महाशरीरा बलवत्यः, शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति ॥१३॥

       तत्र, सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाता: कलुषेष्वम्भसु च सविषा:, पद्मोत्पलनलिनकुमुदसौगन्धिक- कुवलयपुण्डरीकशैवलकोथजाता विमलेष्वम्भ:सु च निर्विषा: ॥१४॥

भवति चात्र –

       क्षेत्रेषु विचरन्त्येता: सलिलाढ्यसुगन्धिषु ॥

       न च संकीर्णचारिण्यो न च  पङ्केशया: सुखा: ॥१५॥

       तासां ग्रहणमार्द्रचर्मणा अन्यैर्वा प्रयोगैर्गृह्णीयात्‌ ॥१६॥

       अथैनां नवे महति घटे सरस्तडागोदकपंङ्कमावाप्य निदध्यात्‌, भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकाश्च कन्दाश्चूर्णीकृत्य, शय्यार्थं तृणमौदकानि च पत्राणि, त्र्यहात्‌ त्र्यहाच्चाभ्योऽन्यज्जलं भक्ष्यं च दद्यात्‌, सप्तरात्रात्‌ सप्तरात्राच्च घटमन्यं संक्रामयेत्‌ ॥१७॥     

भवति चात्र –

       स्थूलमध्या: परिक्लिष्टा: पृथ्व्यो मन्दविचेष्टिता: ॥

       अग्राहिण्योऽल्पपायिन्य: सविषाश्च न पूजिता: ॥१८॥

       अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा, विरूक्ष्य चास्य तमवकाशं मृद्नोमयचूर्णैर्यद्यरुज: स्यात्‌ । गृहीताश्च ता: सर्षपरजनीकल्कोदकप्रदिग्धगात्री: सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत्‌ । श्लक्ष्णशुक्लार्द्रपिचुप्रोतावच्छन्नां कृत्वा मुखमपावृणुयात्‌ । अगृह्णन्त्यै क्षीरबिन्दुं शोणिबिन्दुं वा दद्यात्‌, शस्त्रपदानि वा कुर्वीत, यद्येवमपि न गृह्णीयात्तदाऽन्यां ग्राहयेत्‌ ॥१९॥

       यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाध्दर्ह्णातीति, गृह्णन्तीं चार्द्रवस्त्रावच्छन्नां कृत्वा धारयेत्‌ ॥२०॥

       दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति, शुद्धमाददानामपनयेत्‌, अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत्‌ ॥२१॥

       अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनै: शनैरनुलोममनुमार्जयेदामुखात्‌, वामयेत्‌ तावद्यावत्‌ सम्यग्वान्तलिङ्गानीति। सम्यग्वान्ता सलिलसरके न्यस्ता भोक्तुकामा सती चरेत्‌ । या सीदती न चेष्टते सा दुर्वान्ता, तां पुन: सम्यग्वामयेत्‌ । दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति । अथ सुवान्तां पूर्ववत्‌ सन्निदध्यात्‌ ॥२२॥

       शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः, तत्पिचुधारणं वा, जलौकोव्रणान्‌ मधुनाऽवघट्टयेत्‌, शीताभिरद्भि: परिषेचयेद्धध्नीत वा, कषायमधुरस्निग्धशीतैश्च प्रदेहै: प्रदिह्यादिति ॥२३॥

भवति चात्र –

       क्षेत्राणि ग्रहणं जाती: पोषणं सावचारणम्‌ ॥

       जलौकसां च यो वेत्ति तत्साध्यान्‌ स जयेद्गदान्‌ ॥२४॥

       इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्याय: ।

Last updated on May 24th, 2021 at 06:15 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English