चरकसंहिता
चिकित्सास्थानम् ।
द्वादशोऽध्याय: ।
अथात: श्वयथुचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
भिषग्वरिष्ठं सुरसिद्धजुष्टं
मुनीन्द्रमत्र्यात्मजमग्निवेश: ।
महागदस्य श्वयथोर्यथावत्
प्रकोपरूपप्रशमानपृच्छत् ॥३॥
तस्मै जगादागदवेदसिन्धु प्रवर्तनाद्रिप्रवरोऽत्रिजस्तान् ।
वातादिभेदात् त्रिविधस्य सम्यङ्निजानिजैकाङ्गजसर्वजस्य ॥४॥
शुद्ध्यामयाभक्तकृशाबलानां
क्षाराम्लतीक्ष्णोष्णगुरूपसेवा ।
दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च ॥५॥
अर्शांस्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूति: ।
मिथ्योपचार: प्रतिकर्मणां च
निजस्य हेतु: श्वयथो: प्रदिष्ट: ॥६॥
बाह्यास्त्वचो दूषयिताऽभिघात:
काष्ठाश्मशस्त्राग्निविषायसाद्यै: ।
आगन्तुहेतु: त्रिविधो निजश्च
सर्वार्धगात्रावयवाश्रितत्वात् ॥७॥
बाह्या: सिरा: प्राप्य यदा कफासृक्पित्तानि संदूषयतीह वायु: ।
तैर्बद्धमार्ग: स तदा विसर्पन्नुत्सेधलिङ्गं श्वयथुं करोति ॥८॥
उर:स्थितैरूर्ध्वमधस्तु वायो:
स्थानस्थितैर्मध्यगतैस्तु मध्ये ।
सर्वाङ्गग: सर्वगतै: क्वचित्स्थैर्दोषै: क्वचित् स्याच्छ्वयथुस्तदाख्य: ॥९॥
ऊष्मा तथा स्याद्दवथु: सिराणामायाम इत्येव च पूर्वरूपम् ।
सर्वस्त्रिदोषोऽधिकदोषलिङ्गैस्तच्छब्दमभ्येति भिषग्जितं च ॥१०॥
सगौरवं स्यादनवस्थितत्वं
सोत्सेधमुष्माऽथ सिरातनुत्वम् ।
सलोमहर्षाऽङ्गविवर्णता च
सामान्यलिङ्गं श्वयथो: प्रदिष्टम् ॥११॥
चलस्तनुत्वक्परुषोऽरुणोऽसित:
प्रसुप्तिहर्षार्तियुतोऽनिमित्तत: ।
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथु: समीरणात् ॥१२॥
मृदु: सगन्धोऽसितपीतरागवान्
भ्रमज्वरस्वेदतृषामदान्वित: ।
य उष्यते स्पर्शरुगक्षिरागकृत्
स पित्तशोथो भृशदाहपाकवान् ॥१३॥
गुरु: स्थिर: पाण्डुररोचकान्वित:
प्रसेकनिद्रावमिवह्निमान्द्यकृत् ।
स कृच्छ्रजन्मप्रशमो निपीडितो
न चोन्नमेद्रात्रिबली कफात्मक: ॥१४॥
कृशस्य रोगैरबलस्य यो भवेदुपद्रवैर्वा वमिपूर्वकैर्युत: ।
स हन्ति मर्मानुगतोऽथ राजिमान्
परिस्रवेद्धीनबलस्य सर्वग: ॥१५॥
अहीनमांसस्य य एकदोषजो
नवो बलस्थस्य सुख: स साधने ।
निदानदोषर्तुविपर्ययक्रमैरुपाचरेत्तं बलदोषकालवित् ॥१६॥
अथामजं लङ्घनपाचनक्रमैर्विशोधनैरुल्बणदोषमादित: ।
शिरोगतं शीर्षविरेचनैरधो
विरेचनैरूर्ध्वहरैस्तथोर्ध्वजम् ॥१७॥
उपाचरेत् स्नेहभवं विरूक्षणै:
प्रकल्पयेत् स्नेहविधिं च रूक्षजे ।
विबद्धविट्केऽनिलजे निरूहणं
घृतं तु पित्तानिलजे सतिक्तकम् ॥१८॥
पयश्च मूर्च्छारतिदाहतर्षिते
विशोधनीये तु समूत्रमिष्यते ।
कफोत्थितं क्षारकटूष्णसंयुतै:
समूत्रतक्रासवयुक्तिभिर्जयेत् ॥१९॥
ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि तिलकृतं विज्जलं मद्यमम्लम् ।
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च ॥२०॥
व्योषं त्रिवृत्तिक्तकरोहिणी च
सायोरजस्का त्रिफलारसेन ।
पीतं कफोत्थं शमयेत्तु शोफं
गव्येन मूत्रेण हरीतकी च ॥२१॥
हरीतकीनागरदेवदारु
सुखाम्बुयुक्तं सपुनर्नवं वा ।
सर्वं पिबेत् त्रिष्वपि मूत्रयुक्तं
स्नातश्च जीर्णे पयसाऽन्नमद्यात् ॥२२॥
पुनर्नवानागरमुस्तकल्कान्
प्रस्थेन धीर: पयसाऽक्षमात्रान् ।
मयूरकं मागधिकां समूलां
सनागरां वा प्रपिबेत् सवाते ॥२३॥
दन्तीत्रिवृत् त्र्यूषणचित्रकैर्वा
पय: शृतं दोषहरं पिबेन्ना ।
द्विप्रस्थमात्रं तु पलार्धिकैस्तैरर्धावशिष्टं पवने सपित्ते ॥२४॥
सशुण्ठिपीतद्रुरसं प्रयोज्यं
श्यामोरुबूकोषणसाधितं वा ।
त्वग्दारुवर्षाभुमहौषधैर्वा
गुडूचिकानागरदन्तिभिर्वा ॥२५॥
सप्ताहमौष्ट्रं त्वथवाऽपि मासं
पय: पिबेद्भोजनवारिवर्जी ।
गव्यं समूत्रं महिषीपयो वा
क्षीराशनो मूत्रमथो गवां वा ॥२६॥
तक्रं पिबेद्वा गुरुभिन्नवर्चा:
सव्योषसौवर्चलमाक्षिकं च ।
गुडाभयां वा गुडनागरं वा
सदोषभिन्नामविबद्धवर्चा: ॥२७॥
विड्वातसङ्गे पयसा रसैर्वा
प्राग्भक्तमद्यादुरुबूकतैलम् ।
स्रोतोविबन्धेऽग्निरुचिप्रणाशे
मद्यान्यरिष्टांश्च पिबेत् सुजातान् ॥२८॥
गण्डीरभल्लातकचित्रकांश्च
व्योषं विडङ्गं बृहतीद्वयं च ।
द्विप्रस्थिकं गोमयपावकेन
द्रोणे पचेत् कूर्चिकमस्तुनस्तु ॥२९॥
त्रिभागशेषं च सुपूतशीतं
द्रोणेन तत् प्राकृतमस्तुना च ।
सितोपलायाश्च शतेन युक्तं
लिप्ते घटे चित्रकपिप्पलीनाम् ॥३०॥
वैहायसे स्थापितमादशाहात्
प्रयोजयंस्तद्विनिहन्ति शोफान् ।
भगन्दरार्श:क्रिमिकुष्ठमेहान्
वैवर्ण्यकार्श्यानिलहिक्कनं च ॥३१॥
इति गण्डीराद्यरिष्ट: ।
काश्मर्यधात्रीमरिचाभयाक्षद्राक्षाफलानां च सपिप्पलीनाम् ।
शतं शतं जीर्णगुडात्तुलां च
संक्षुद्य कुम्भे मधुना प्रलिप्ते ॥३२॥
सप्ताहमुष्णे द्विगुणं तु शीते
स्थितं जलद्रोणयुतं पिबेन्ना ।
शोफान् विबन्धान् कफवातजांश्च
निहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च ॥३३॥
इत्यष्टशतोऽरिष्ट: ।
पुनर्नवे द्वे च बले सपाठे
दन्तीं गुडूचीमथ चित्रकं च ।
निदिग्धिकां च त्रिपलानि पक्त्वा
द्रोणावशेषे सलिले ततस्तम् ॥३४॥
पूत्वा रसं द्वे च गुडात् पुराणात्तुले मधुप्रस्थयुतं सुशीतम् ।
मांस निदध्याद्घृतभाजनस्थं
पल्ले यवानां परतस्तु मासात् ॥३५॥
चूर्णीकृतैरर्धपलांशिकैस्तं
पत्रत्वगेलामरिचाम्बुलोहै: ।
गन्धान्वितं क्षौद्रघृतप्रदिग्धे
जीर्णे पिबेद् व्याधिबलं समीक्ष्य ॥३६॥
हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं
प्लीहज्वरारोचकमेहगुल्मान् ।
भगन्दरं षड्जठराणि कासं
श्वासं ग्रहण्यामयकुष्ठकण्डू: ॥३७॥
शाखानिलं बद्धपुरीषतां च
हिक्कां किलासं च हलीमकं च ।
क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी ॥३८॥
इति पुनर्नवाद्यरिष्ट: ।
फलत्रिकं दीप्यकचित्रकौ च
सपिप्पलीलोहरजो विडङ्गम् ।
चूर्णीकृतं कौडविकं द्विरंशं
क्षौद्रं पुराणस्य तुलां गुडस्य ॥३९॥
मासं निदध्याद्घृतभाजनस्थं
यवेषु तानेव निहन्ति रोगान् ।
ये चार्शसां पाण्डुविकारीणां च
प्रोक्ता हिता: शोफिषु तेऽप्यरिष्टा: ॥४०॥
इति त्रिफलाद्यरिष्ट: ।
कृष्णा सपाठा गजपिप्पली च
निदिग्धिका चित्रकनागरे च ।
सपिप्पलीमूलरजन्यजाजीमुस्तं च चूर्णं सुखतोयपीतम् ॥४१॥
हन्यात् त्रिदोषं चिरजं च शोफं
कल्कश्च भूनिम्बमहौषधस्य ।
अयोरजस्त्र्यूषणयावशूकचूर्णं च पीतं त्रिफलारसेन ॥४२॥
क्षारद्वयं स्याल्लवणानि चत्वार्ययोरजो व्योषफलत्रिके च ।
सपिप्पलीमूलविडङ्गसारं
मुस्ताजमोदामरदारुबिल्वम् ॥४३॥
कलिङ्गकाश्चित्रकमूलपाठे
यष्ट्याह्वयं सातिविषं पलांशम् ।
सहिङ्गुकर्षं त्वणुशुष्कचूर्णं
द्रोणं तथा मूलकशुण्ठकानाम् ॥४४॥
स्याद्भस्मनस्तत् सलिलेन साध्यमालोड्य यावद्धनमप्रदग्धम् ।
स्त्यानं तत: कोलसमां तु मात्रां
कृत्वा सुशुष्कां विधिनोपयुञ्ज्यात् ॥४५॥
प्लीहोदरश्वित्रहलीमकार्श:-
पाण्ड्वामयारोचकशोषशोफान् ।
विसूचिकागुल्मगराश्मरीश्च
सश्वासकासा: प्रणुदेत् सकुष्ठा: ॥४६॥
इति क्षारगुडिका ।
प्रयोजयेदार्द्रकनागरं वा
तुल्यं गुडेनार्धपलाभिवृद्ध्या ।
मात्रा परं पञ्चपलानि मासं
जीर्णे पयो यूषरसाश्च भक्तम् ॥४७॥
गुल्मोदरार्श:श्वयथुप्रमेहाञ्
श्वासप्रतिश्यालसकाविपाकान् ।
सकामलाशोषमनोविकारान्
कासं कफं चैव जयेत् प्रयोग: ॥४८॥
रसस्तथैवार्द्रकनागरस्य
पेयोऽथ जीर्णे पयसाऽन्नमद्यात् ।
जत्वश्मजं च त्रिफलारसेन
हन्यात् त्रिदोषं श्वयथुं प्रसह्य ॥४९॥
इति शिलाजतुप्रयोग: ।
द्विपञ्चमूलस्य पचेत् कषाये
कंसेऽभयानां च शतं गुडस्य ।
लेहे सुसिद्धेऽथ विनीय चूर्णं
व्योषं त्रिसौगन्धामुषास्थिते च ॥५०॥
प्रस्थार्धमात्रं मधुन: सुशीते
किंचिच्च चूर्णादपि यावशूकात् ।
एकाभयां प्राश्य ततश्च
लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ॥५१॥
श्वासज्वरारोचकमेहगुल्मप्लीहत्रिदोषोदरपाण्डुरोगान् ।
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान् ॥५२॥
इति कंसहरीतकी ।
पटोलमूलामरदारुदन्तीत्रायन्तिपिप्पल्यभयाविशाला: ।
यष्ट्याह्वयं तिक्तकरोहिणी च
सचन्दना स्यान्निचुलानि दार्वी ॥५३॥
कर्षोन्मितैस्तै: क्वथित: कषायो
घृतेन पेय: कुडवेन युक्त: ।
वीसर्पदाहज्वरसन्निपाततृष्णाविषाणि श्वयथुं च हन्ति ॥५४॥
सचित्रकं धान्ययवान्यजाजी
सौवर्चलं त्र्यूषणवेतसाम्लम् ।
बिल्वात् फलं दाडिमयावशूकौ
सपिप्पलीमूलमथापि चव्यम् ॥५५॥
पिष्ट्वाऽक्षमात्राणि जलाढकेन
पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात् ।
अर्शांसि गुल्मं श्वयथुं च कृच्छ्रं
निहन्ति वह्निं च करोति दीप्तम् ॥५६॥
पिबेद्घृतं वाऽष्टगुणाम्बुसिद्धं
सचित्रकक्षारमुदारवीर्यम् ।
कल्याणकं वाऽपि सपञ्चगव्यं
तिक्तं महद्वाऽप्यथ तिक्तकं वा ॥५७॥
क्षीरं घटे चित्रककल्कलिप्ते
दध्यागतं साधु विमथ्य तेन ।
तज्जं घृतं चित्रकमूलगर्भं
तक्रेण सिद्धं श्वयथुघ्नमग्र्यम् ॥५८॥
अर्शोऽतिसारानिलगुल्ममेहांश्चैतन्निहन्त्यग्निबलप्रदं च ।
तक्रेण चाद्यात् सघृतेन तेन
भोज्यानि सिद्धामथवा यवागूम् ॥५९॥
इति चित्रकघृतम् ।
जीवन्त्यजाजीशटिपुष्कराह्वै:
सकारवीचित्रकबिल्वमध्यै: ।
सयावशूकैर्बदरप्रमाणैर्वृक्षाम्लयुक्ता घृततैलभृष्टा ॥६०॥
अर्शोऽतिसारानिलगुल्मशोफहृद्रोगमन्दाग्निहिता यवागू: ।
या पञ्चकोलैर्विधिनैव तेन
सिद्धा भवेत् सा च समा तयैव ॥६१॥
कुलत्थयूषश्च सपिप्पलीको
मौश्च सत्र्यूषणयावशूक: ।
रसस्तथा विष्किरजाङ्गलानां
सकूर्मगोधाशिखिशल्लकानाम् ॥६२॥
सुवर्चला गृञ्जनकं पटोलं
सवायसीमूलकवेत्रनिम्बम् ।
शाकार्थिनां शाकमिति प्रशस्तं
भोज्ये पुराणश्च यव: सशालि: ॥६३॥
आभ्यन्तरं भेषजमुक्तमेतद्बर्हिर्हितं यच्छृणु तद्यथावत् ।
स्नेहान् प्रदेहान् परिषेचनानि
स्वेदांश्च वातप्रबलस्य कुर्यात् ॥६४॥
शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तै: ।
प्रियङ्गुथौणेयकहेममांसीतालीशपत्रप्लवपत्रधान्यै: ॥६५॥
श्रीवेष्टकध्यामकपिप्पलीभि:
स्पृक्कानखैश्चैव यथोपलाभम् ।
वातान्वितेऽभ्यङ्गमुशन्ति तैलं
सिद्धं सुपिष्टैरपि च प्रदेहम् ॥६६॥
जलैश्च वासार्ककरञ्जशिग्रुकाश्मर्यपत्रार्जकजैश्च सिद्धै: ।
स्विन्नो मृदूष्णै रवितप्ततोयै:
स्नातश्च गन्धैरनुलेपनीय: ॥६७॥
सवेतसा: क्षीरवतां द्रुमाणां
त्वच: समञ्जिष्ठलतामृणाला: ।
सचन्दना: पद्मकवालकौ च
पैत्ते प्रदेहस्तु सतैलपाक: ॥६८॥
आक्तस्य तेनाम्बु रविप्रतप्तं
सचन्दनं साभयपद्मकं च
स्नाने हितं क्षीरवतां कषाय:
क्षीरोदकं चन्दनलेपनं च ॥६९॥
कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेप: ।
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च ॥७०॥
बिभीतकानां फलमध्यलेप:
सर्वेषु दाहार्तिहर: प्रदिष्ट: ।
यष्ट्याह्वमुस्तै: सकपित्थपत्रै:
सचन्दनैस्तत्पिडकासु लेप: ॥७१॥
रास्नावृषार्कत्रिफलाविडङ्गं
शिग्रुत्वचो मूषिकपर्णिका च
निम्बार्जकौ व्याघ्रनख: सदूर्वा
सुवर्चला तिक्तकरोहिणी च ॥७२॥
सकाकमाची बृहती सकुष्ठा
पुनर्नवा चित्रकनागरे च ।
उन्मर्दनं शोफिषु मूत्रपिष्टं
शस्तस्तथा मूलकतोयसेक: ॥७३॥
शोफास्तु गात्रावयवाश्रिता ये
ते स्थानदूष्याकृतिनामभेदात् ।
अनेकसंख्या: कतिचिच्च तेषां
निदर्शनार्थं गदतो निबोध ॥७४॥
दोषास्त्रय: स्वै: कुपिता निदानै:
कुर्वन्ति शोफं शिरस: सुघोरम् ।
अन्तर्गले घुर्घुरिकान्वितं च
शालूकमुच्छ्वासनिरोधकारि ॥७५॥
गलस्य सन्धौ चिबुके गले च
सदाहराग: श्वसनासु चोग्र: ।
शोफो भृशार्तिस्तु बिडालिका स्याद्धन्याद्गले चेद्वलयीकृता सा ॥७६॥
स्यात्तालुविद्रध्यपि दाहरागपाकान्वितस्तालुनि सा त्रिदोषात् ।
जिह्वोपरिष्टादुपजिह्विका स्यात् ।
कफादधस्तादधिजिह्विका च ॥७७॥
यो दन्तमांसेषु तु रक्तपित्तात्
पाको भवेत् सोपकुश: प्रदिष्ट: ।
स्याद्दन्तविद्रध्यपि दन्तमांसे
शोफ: कफाच्छोणितसंचयोत्थ: ॥७८॥
गलस्य पार्श्वे गलगण्ड एक:
स्याद्गण्डमाला बहुभिस्तु गण्डै: ।
साध्या: स्मृता: पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्या: ॥७९॥
तेषां सिराकायशिरोविरेका धूम: पुराणस्य घृतस्य पानम् ।
स्याल्लङ्घनं वक्त्रभवेषु चापि प्रघर्षणं स्यात् कवलग्रहश्च ॥८०॥
अङ्गैकदेशेष्वनिलादिभि: स्यात्
स्वरूपधारी स्फुरण: सिराभि: ।
ग्रन्थिर्महन्मांसभवस्त्वनर्तिर्मेदोभव: स्निग्धतमश्चलश्च ॥८१॥
संशोधिते स्वेदितमश्मकाष्ठै:
साङ्गुष्ठदण्डैर्विलयेदपक्वम् ।
विपाट्य चोद्धृत्य भिषक् सकोशं
शस्त्रेण दग्ध्वा व्रणवच्चिकित्सेत् ॥८२॥
अदग्ध ईषत् परिशेषितश्च
प्रयाति भूयोऽपि शनैर्विवृद्धिम् ।
तस्मादशेष: कुशलै: समन्ताच्छेद्यो भवेद्वीक्ष्य शरीरदेशान् ॥८३॥
शेषे कृते पाकवशेन शीर्यात्तत: क्षतोत्थ: प्रसरेद्विसर्प: ।
उपद्रवं तं प्रविचार्य तज्ज्ञस्तैर्भेषजै: पूर्वतरैर्यथोक्तै: ॥८४॥
निवारयेदादित एव यत्नाद्विधानवित् स्वस्वविधिं विधाय ।
तत: क्रमेणास्य यथाविधानं
व्रणं व्रणज्ञस्त्वरया चिकित्सेत् ॥८५॥
विवर्जयेत् कुक्ष्युदराश्रितं च
तथा गले मर्मणि संश्रितं च ।
स्थूल: खरश्चापि भवेद्विवर्ज्यो
यश्चापि बालस्थविराबलानाम् ॥८६॥
ग्रन्थ्यर्बुदानां च यतोऽविशेष:
प्रदेशहेत्वाकृतिदोषदूष्यै: ।
ततश्चिकित्सोद्भिषगर्बुदानि
विधानविग्रन्थिचिकित्सितेन ॥८७॥
ताम्रा सशूला पिडका भवेद्या
सा चालजी नाम परिस्रुताग्रा ।
शोफोऽक्षतश्चर्मनखान्तरे स्यान्मांसास्रदूषी भृशशीघ्रपाक: ॥८८॥
ज्वरान्विता वङ्क्षणकक्षजा या वर्तिर्निरर्ति: कठिनायता च ।
विदारिका सा कफमारुताभ्यां
तेषां यथादोषमुपक्रम: स्यात् ॥८९॥
विस्रावणं पिण्डिकयोपनाह:
पक्वेषु चैव व्रणवच्चिकित्सा ।
विस्फोटका: सर्वशरीरगास्तु
स्फोटा: सरागज्वरतर्षयुक्ता: ॥९०॥
यज्ञोपवीतप्रतिमा: प्रभूता:
पित्तानिलाभ्यां जनितास्तु कक्षा: ।
याश्चापरा: स्यु: पिडका: प्रकीर्णा:
स्थूलाणुमध्या अपि पित्तजास्ता: ॥९१॥
क्षुद्रप्रमाणा: पिडका: शरीरे
सर्वाङ्गगा: सज्वरदाहतृष्णा: ।
कण्डूयुता: सारुचिसप्रसेका
रोमान्तिका: पित्तकफात् प्रदिष्टा: ॥९२॥
या: सर्वगात्रेषु मसूरमात्रा
मसूरिका: पित्तकफात् प्रदिष्टा: ।
वीसर्पशान्त्यै विहिता क्रिया या
तां तेषु कुष्ठे च हितां विदध्यात् ॥९३॥
ब्रध्नोऽनिलाद्यैर्वृषणे स्वलिङ्गैरन्त्रं निरेति प्रविशेन्मुहुश्च ।
मूत्रेण पूर्णं मृदु मेदसा चेत्
स्निग्धं च विद्यात् कठिनं च शोथम् ॥९४॥
विरेचनाभ्यङ्गनिरूहलेपा:
पक्वेषु चैव व्रणवच्चिकित्सा ।
स्यान्मूत्रसेक: कफजं विपाट्य
विशोध्य सीव्येद्व्रणवच्च पक्वम् ॥९५॥
क्रिम्यस्थिसूक्ष्मक्षणनव्यवायप्रवाहणान्युत्कटकाश्वपृष्ठै: ।
गुदस्य पार्श्वे पिडका भृशार्ति:
पक्वप्रभिन्ना तु भगन्दर: स्यात् ॥९६॥
विरेचनं चैषणपाटनं च
विशुद्धमार्गस्य च तैलदाह: ।
स्यात् क्षारसूत्रेण सुपाचितेन
छिन्नस्य चास्य व्रणवच्चिकित्सा ॥९७॥
जङ्घासु पिण्डीप्रपदोपरिष्टात्
स्याच्छ्लीपदं मांसकफास्रदोषात् ।
सिराकफघ्नश्च विधि: समग्रस्तत्रेष्यते सर्षपलेपनं च ॥९८॥
मन्दास्तु पित्तप्रबला: प्रदुष्टा
दोषा: सुतीव्रं तनुरक्तपाकम् ।
कुर्वन्ति शोथं ज्वरतर्षयुक्तं
विसर्पणं जालकगर्दभाख्यम् ॥९९॥
विलङ्घनं रक्तविमोक्षणं च
विरूक्षणं कायविशोधनं च ।
धात्रीप्रयोगाञ् शिशिरान् प्रदेहान्
कुर्यात् सदा जालकगर्दभस्य ॥१००॥
एवंविधांश्चाप्यपरान् परीक्ष्य
शोथप्रकाराननिलादिलिङ्गै: ।
शान्तिं नयेद्दोषहरैर्यथास्वमालेपनच्छेदनभेददाहै: ॥१०१॥
प्रायोऽभिघातादनिल: सरक्त:
शोथं सरागं प्रकरोति तत्र ।
वीसर्पनुन्मारुतरक्तनुच्च
कार्यं विषघ्नं विषजे च कर्म ॥१०२॥
तत्र श्लोक:–
त्रिविधस्य दोषभेदात् सर्वार्धावयवगात्रभेदाच्च।
श्वयथोर्द्विविधस्य तथा लिङ्गानि चिकित्सितं चोक्तम्
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने श्वयथुचिकित्सितं
नाम द्वादशोऽध्याय: ॥१२॥
Last updated on June 22nd, 2021 at 06:25 am