अष्टाङ्गहृदये (उत्तरस्थानम्)
दृष्टिरोगविज्ञानीयं द्वादशोऽध्यायः।
अथातो दृष्टिरोगविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
सिरानुसारिणि मले प्रथमं पटलं श्रिते।
अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः॥१॥
प्राप्ते द्वितीयं पटलमभूतमपि पश्यति।
भूतं तु यत्नादासन्नं दूरे सूक्ष्मं च नेक्षते॥२॥
दूरान्तिकस्थं रूपं च विपर्यासेन मन्यते।
दोषे मण्डलसंस्थाने मण्डलानीव पश्यति॥३॥
द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते।
दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्ययम्॥४॥
नान्तिकस्थमधः संस्थे दूरगं नोपरि स्थिते।
पार्श्वे पश्येन्नपार्श्वस्थे तिमिराख्योऽयमामयः॥५॥
प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते।
तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमम्॥६॥
यथा वर्णं च रज्येत दृष्टिर्हीयेत च क्रमात्।
तथाऽप्युपेक्षमाणस्य चतुर्थं पटलं गतः॥७॥
लिङ्गनाशं मलः कुर्वन् छादयेद्दृष्टिमण्डलम्।
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति॥८॥
चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः।
जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च॥९॥
काचीभूते दृगरुणा पश्यत्यास्यमनासिकम्।
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते॥१०॥
वृद्धः काचो दृशं कुर्याद्रजोधूमावृतामिव।
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम्॥११॥
स लिङ्गनाशो वाते तु सङ्कोचयति दृक्सिराः।
दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता॥१२॥
पित्तजे तिमिरे विद्युत्खद्योतद्योतदीपितम्।
शिखितित्तिरिपत्राभं प्रायो नीलं च पश्यति॥१३॥
काचे दृक् काचनीलाभा तादृगेव च पश्यति।
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनुंषि च॥१४॥
भृङ्गनीला निरालोका दृक् स्निग्धा लिङ्गनाशतः।
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शिनी॥१५॥
भवेत्पित्तविदग्धाख्या पीता पीताभदर्शना।
कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति॥१६॥
शङ्खेदुकुन्दकुसुमैः कुमदैरिव चाचितम्।
काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम्॥१७॥
सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते।
मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः॥१८॥
बिन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः।
उष्णे सङ्कोचमायाति छायायां परिसर्पति॥१९॥
शङ्खकुन्देन्दुकुमुदस्फटिकोपमशुक्लिमा।
रक्तेन तिमिरे रक्तं तमोभूतं च पश्यति॥२०॥
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति।
लिङ्गनाशेऽपि तादृग् दृङ् निष्प्रभा हतदर्शना॥२१॥
संसर्गसन्निपातेषु विद्यात्सङ्कीर्णलक्षणान्।
तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः॥२२॥
तिमिरे, शेषयोर्दृष्टौ चित्रो रागः प्रजायते।
द्योत्यते नकुलस्येव यस्य दृङ् निचिता मलैः॥२३॥
नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि।
अर्केऽस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः॥२४॥
स्थगयन्ति दृशं दोषा दोषान्धः स गदोऽपरः।
दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः॥२५॥
विलीनलीना यच्छन्ति व्यक्तमत्राह्नि दर्शनम्।
उष्णतप्तस्य सहसा शीतवारिनिमज्जनात्॥२६॥
त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततोऽक्षिणि।
दाहोषे मलिनं शुक्लमहन्याविलदर्शनम्॥२७॥
रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता।
भृशमम्लाशनाद्दोषैः सास्रैर्या दृष्टिराचिता॥२८॥
सक्लेदकण्डूकलुषा विदग्धाऽम्लेन सा स्मृता।
शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः॥२९॥
धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः।
सहसैवाल्पसत्त्वस्य पश्यतो रूपमद्भुतम्॥३०॥
भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः।
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम्॥३१॥
वैडूर्यवर्णां स्तिमितां प्रकृतिस्थामिवाव्यथाम्।
औपसर्गिक इत्येष लिङ्गनाशोऽत्र वर्जयेत्॥३२॥
विना कफाल्लिङ्गनाशान् गम्भीरां ह्रस्वजामपि।
षट् काचा नकुलान्धश्च याप्याः, शेषांस्तु साधयेत्॥३३॥
द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः॥३३.१.२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने दृष्टिरोगविज्ञानीयो नाम द्वादशोऽध्यायः॥१२॥
Last updated on September 2nd, 2021 at 11:04 am