चरकसंहिता
कल्पस्थानम् ।
द्वादशोऽध्याय: ।
अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलक: ।
द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया ॥३॥
(तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरी ।
प्रत्यक्श्रेणी सुतश्रेणी दन्ती र(च)ण्डा च कीर्तिता ॥)
तयोर्मूलानि संगृह्य स्थिराणि बहलानि च ।
हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान् ॥४॥
पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे ।
शोषयेदातपेऽग्न्यर्कौ हतो ह्येषां विकाशिताम् ॥५॥
तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च ।
विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च ॥६॥
दधितक्रसुरामण्डै: पिण्डमक्षसमं तयो: ।
प्रियालकोलबदरपीलुशीधुभिरेव च ॥७॥
पिबेुद्गुल्मोदरी दोषैरभिखिन्नश्च यो नर: ।
गोमृगाजरसै: पाण्डु: कृमिकोष्ठी भगन्दरी ॥८॥
तयो: कल्के कषाये च दशमूलरसायुते ।
कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम् ॥९॥
तैलं मेहे च गुल्मे च सोदावर्ते कफानिले ।
चतु:स्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु ॥१०॥
रसे दन्त्यजशृङ्ग्योश्च गुडक्षौद्रघृतान्वित: ।
लेह: सिद्धो विरेकार्थे दाहसंतापमेहनुत् ॥११॥
वाततर्षे ज्वरे पैत्ते स्यात् स एवाजगन्धया ।
दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे ॥१२॥
त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च ।
तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत् ॥१३॥
कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागश: ।
तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते ॥१४॥
रसे च दशमूलस्य तथा बैभीतके रसे ।
हरीतकीरसे चैव लेहानेवं पचेत् पृथक् ॥१५॥
तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम् ।
असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम् ॥१६॥
पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा ।
स्वेदयित्वा तत: खादेत् सुखं तेन विरिच्यते ॥१७॥
मूलं दन्तीद्रवन्त्योश्च सह: मुद्गैर्विपाचयेत् ।
लाववर्तीरकाद्यैश्च ते रसा: स्युर्विरेचने ॥१८॥
तयोर्वाऽपि कषायेण यवागूं जाङ्गलं रसम् ।
माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते ॥१९॥
तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च ।
एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा ॥२०॥
मोदको वाऽस्य कल्पेन कार्यस्तच्च विरेचनम् ।
तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत् ॥२१॥
दन्तीक्वाथेन चालोड्य दन्तीतैलेन साधितान् ।
गुडलावणिकान् भक्ष्यान् विविधान् भक्षयेन्नर: ॥२२॥
दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम् ।
नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम् ॥२३॥
सप्ताहं भावयेन्मूत्रे गवां पाणितलं तत: ।
पिबेद्घृतेन जीर्णे तु विरिक्तश्चापि तर्पणम् ॥२४॥
सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम् ।
चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम् ॥२५॥
दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च ।
गण्डमालासु वाते च पाण्डुरोगे च शस्यते ॥२६॥
पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशति: ।
त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत् ॥२७॥
विनीय मोदकान् कुर्याद्दशैकं भक्षयेत्तत: ।
उष्णाम्बु च पिबेच्चानु दशमे दशमेऽह्नि च ॥२८॥
एते निष्परिहारा: स्यु: सर्वरोगनिबर्हणा: ।
ग्रहणीपाण्डुरोगार्श:कण्डूकोठानिलापहा: ॥२९॥
दन्तीद्विपलनिर्यूहो द्राक्षार्धप्रस्थसाधित: ।
विरेचनं पित्तकासे पाण्डुरोगे च शस्यते ॥३०॥
दन्तीकल्कं समगुडं शीतवारियुतं पिबेत् ।
विरेचनं मुख्यतमं कामलाहरमुत्तमम् ॥३१॥
श्यामादन्तीरसे गौड: पिप्पलीफलचित्रकै: ।
लिप्तेऽरिष्टोऽनिलश्लेष्मप्लीहपाण्डूदरापह: ॥३२॥
तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयो: ।
गौड: कार्योऽऽजशृङ्ग्या वा स वै सुखविरेचन: ॥३३॥
तच्चूर्णक्वाथमाषाम्बुकिण्वतोयसमुद्भवा ।
मदिरा कफगुल्माल्पवह्निपार्श्वकटिग्रहे ॥३४॥
अजगन्धाकषायेण सौवीरकतुषोदकै ।
सुराकम्पिल्लके योगौ लोध्रवच्च तयो: स्मृतौ ॥३५॥
तत्र श्लोका:–
(दध्यादिषु त्रय: पञ्च प्रियालाद्यैस्त्रयो रसे ।
स्नेहेषु वै त्रयो लेह्या: षट् चूर्णे त्वेक एव च ॥३६॥
इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रय: ।
यवाग्वादौ त्रयश्चैव उक्त उत्कारिकाविधौ ॥३७॥
एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके ।
चूर्णमेकं पुनश्चैको मोदक: पञ्च चासवे ॥३८॥
एक: सौवीरकेऽथैको योग: स्यात्तु तुषोदके ।
एका सुरैक: कम्पिल्ले तथा पञ्च घृते स्मृता: ॥३९॥)
दन्तीद्रवन्तीकल्पेऽस्मिन् प्रोक्ता: षोडशकास्त्रय: ।
नानाविधानां योगानां भक्तिदोषामयान्प्रति ॥४०॥
त्रिशतं पञ्चपञ्चाशद्योगानां वमने स्मृतम् ।
द्वे शते नवका: पञ्च योगानां तु विरेचने ॥४१॥
ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट् ।
प्राधान्यत: समाश्रित्य द्रव्याणि दश पञ्च च ॥४२॥
भवन्ति चात्र–
यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते ।
तत्संज्ञक: स योगो वै भवतीति विनिश्चय: ॥४३॥
फलादीनां प्रधानानां गुणभूता: सुरादय: ।
ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे ॥४४॥
विरुद्धवीर्यमप्येषां प्रधानानामबाधकम् ।
अधिकं तुल्यवीर्ये हि क्रियासामर्थ्यमिष्यते ॥४५॥
इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम् ।
अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम् ॥४६॥
भूयश्चैषां बलाधानं कार्यं स्वरसभावनै: ।
सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत् ॥४७॥
स्वरसैस्तुल्यवीर्यैर्वा तस्माद्द्रव्याणि भावयेत् ।
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् ॥४८॥
कुर्यात् संयोगविश्लेषकालसंस्कारयुक्तिभि: ।
प्रदेशमात्रमेतावद्द्रष्टव्यमिह षट्शतम् ॥४९॥
स्वबुद्ध्यैवं सहस्राणि कोटीर्वाऽपि प्रकल्पयेत् ।
बहुद्रव्यविकल्पत्वाद्योगसंख्या न विद्यते ॥५०॥
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम् ।
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते ॥५१॥
नातिग्लानिकरं पायौ हृदये न च रुक्करम् ।
अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति ॥५२॥
विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत् ।
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम् ॥५३॥
ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यै: सुभावितम् ।
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम् ॥५४॥
किंचिदेभिर्गुणैर्हीनं पूर्वौक्तैर्मात्रया तथा ।
स्निग्धस्विन्नस्य वा सम्यङ्मध्यं भवति भेषजम् ॥५५॥
मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम् ।
अतुल्यवीर्यै: संयुक्तं मृदु स्यान्मन्दवेगवत् ॥५६॥
अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम् ।
मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता ॥५७॥
तीक्ष्णो मध्यो मृदुर्व्याधि: सर्वमध्याल्पलक्षण: ।
तीक्ष्णादीनि बलावेक्षी भेषजान्येषु योजयेत् ॥५८॥
देयं त्वनिर्हृते पूर्वं पीते पश्चात् पुन: पुन: ।
भेषजं वमनार्थीयं प्राय आपित्तदर्शनात् ॥५९॥
बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च ।
पुन: प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत् ॥६०॥
निर्हृते वाऽपि जीर्णे वा दोषनिर्हरणे बुध: ।
भेषजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम् ॥६१॥
अपक्वं वमनं दोषं पच्यमानं विरेचनम् ।
निर्हरेद्वमनस्यात: पाकं न प्रतिपालयेत् ॥६२॥
पीते प्रस्रंसने दोषान्न निर्हत्य जरां गते ।
वमिते चौषधे धीर: पाययेदौषधं पुन: ॥६३॥
दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम् ।
दु:शुद्धं तदहर्भुक्तं श्वोभूते पाययेत् पुन: ॥६४॥
दुर्बलो बहुदोषश्च दोषपाकेन यो नर: ।
विरिच्यते शनैर्भोज्यैर्भूयस्तमनुसारयेत् ॥६५॥
वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणत: ।
भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत् ॥६६॥
दुर्बलं शोधितं पूर्वमल्पदोषं च मानवम् ।
अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु ॥६७॥
श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम् ।
न चातितीक्ष्णं यत् क्षिप्रं जनयेत्प्राणसंशयम् ॥६८॥
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पश: ।
मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृता: ॥६९॥
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम् ।
वमितं कवलै: शुद्धं लङ्घितं पाययेत्तु तम् ॥७०॥
विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम् ।
तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति ॥७१॥
भेषजं दोषरुद्धं चेन्नोर्ध्वं नाध: प्रवर्तते ।
सोद्गारं साङ्गशूलं च स्वेदं तत्रावचारयेत् ॥७२॥
सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत् ।
अतिप्रवर्तनं जीर्णे सुशीतै: स्तम्भयेद्भिषक् ॥७३॥
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम् ।
क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते ॥७४॥
रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गतेऽपि वा ।
वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत् ॥७५॥
तृण्मोहभ्रममूर्च्छाया: स्युश्चेज्जीर्यति भेषजे ।
पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते ॥७६॥
लालाहृल्लासविष्टम्भलोमहर्षा: कफावृते ।
भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम् ॥७७॥
सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम् ।
तेनास्य स्नेहज: श्लेष्मा सङ्गश्चैवोपशाम्यति ॥७८॥
रूक्ष-बह्वनिल-क्रूरकोष्ठ-व्यायामशालिनाम् ।
दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति ॥७९॥
तेभ्यो बस्तिं पुरा दत्त्वा पश्चाद्दद्याद्विरेचनम् ।
बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम् ॥८०॥
रूक्षाशना: कर्मनित्या ये नरा दीप्तपावका: ।
तेषां दोषा: क्षयं यान्ति कर्मवातातपाग्निभि: ॥८१॥
विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते ।
स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् विशोधयेत् ॥८२॥
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम् ।
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम् ॥८३॥
एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित् ।
विरेचनं विरेच्येभ्य: प्रयच्छन्नापराध्यति ॥८४॥
विभ्रंशो विषवद्यस्य सम्यग्योगो यथाऽमृतम् ।
कालेष्ववश्यं पेयं च तस्माद्यत्नात् प्रयोजयेत् ॥८५॥
द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत् कोष्ठवयोबलेषु ।
तन्मूलमालम्ब्य भवेद्विकल्प्यं
तेषां विकल्प्योऽभ्यधिकोनभाव: ॥८६॥
षड् ध्वंश्यस्तु मरीचि: स्यात् षण्मरीच्यस्तु सर्षप: ।
अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम् ॥८७॥
धान्यमाषो भवेदेको धान्यमाषद्वयं यव: ।
अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु ते माषक: ॥८८॥
हेमश्च धान्यकश्चोक्तो भवेच्छाणस्तु ते त्रय: ।
शाणौ द्वौ द्रङ्क्षणं विद्यात् कोलं बदरमेव च ॥८९॥
विद्याद्द्वौ द्रङ्क्षणौ कर्षं सुवर्णं चाक्षमेव च ।
बिडालपदकं चैव पिचुं पाणितलं तथा ॥९०॥
तिन्दुकं च विजानीयात् कवलग्रहमेव च ।
द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा ॥९१॥
द्वे पलार्धे पलं मुष्टि: प्रकुञ्चोऽथ चतुर्थिका ।
बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदु: ॥९२॥
अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका ।
पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा ॥९३॥
चत्वार: कुडवा: प्रस्थश्चतु:प्रस्थमथाढकम् ।
पात्रं तदेव विज्ञेयं कंस: प्रस्थाष्टकं तथा ॥९४॥
कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत् ।
स एव कलश: ख्यातो घटमुन्मानमेव च ॥९५॥
द्रोणस्तु द्विगुण: शूर्पो विज्ञेय: कुम्भ एव च ।
गोणीं शूर्पद्वयं विद्यात् खारीं भारं तथैव च ॥९६॥
द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान् ।
तुलां शतपलं विद्यात् परिमाणविशारद: ॥९७॥
शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम् ।
द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च ॥९८॥
यद्धि मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत् ।
अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम् ॥९९॥
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम् ।
यतश्च पादनिर्देशश्चतुर्भागस्ततश्च स: ॥१००॥
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम् ।
तत्र स्यादौषधात् स्नेह: स्नेहात्तोयं चतुर्गुणम् ॥१०१॥
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्य: खरस्तथा ।
तुल्ये कल्केन निर्यासे भेषजानां मृदु: स्मृत: ॥१०२॥
संयाव इव निर्यासे मध्यो दर्वी विमुञ्चति ।
शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा ॥१०३॥
खरोऽभ्यङ्गे स्मृत: पाको, मृदुर्नस्त:क्रियासु च ।
मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत् ॥१०४॥
मानं च द्विविधं प्राहु: कालिङ्गं मागधं तथा ।
कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदु: ॥१०५॥
तत्र श्लोकौ–
कल्पार्थ: शोधनं संज्ञा पृथग्घेतु: प्रवर्तने ।
देशादीनां फलादीनां गुणा योगशतानि षट् ॥१०६॥
विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम् ।
विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शित: ॥१०७॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते कल्पस्थाने दन्तीद्रवन्तीकल्पो
नाम द्वादशोऽध्याय: ॥१२॥
Last updated on July 2nd, 2021 at 11:52 am