चरकसंहिता
चिकित्सास्थानम् ।
एकादशोऽध्याय: ।
अथात: क्षतक्षीणचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
उदारकीर्तिब्रह्मर्षिरात्रेय: परमार्थवित्।
क्षतक्षीणचिकित्सार्थमिदमाह चिकित्सितम् ॥३॥
धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम् ।
पततो विषमोच्चेभ्यो बलिभि: सह युध्यत: ॥४॥
वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णत: ।
शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नत: परान् ॥५॥
अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम् ।
महानदीं वा तरतो हयैर्वा सह धावत: ॥६॥
सहसोत्पततो दूरं तूर्णं चातिप्रनृत्यत: ।
तथाऽन्यै: कर्मभि: क्रूरैर्भृशमभ्याहतस्य च ॥७॥
विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते ।
स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिन: ॥८॥
उरो विरुज्यते तस्य भिद्यतेऽथ विभज्यते ।
प्रपीड्येते तत: पार्श्वे शुष्यत्यङ्गं प्रवेपते ॥९॥
क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते ।
ज्वरो व्यथा मनोदैन्यं विड्भेदोऽग्निवधादपि ॥१०॥
दुष्ट: श्याव: सुदुर्गन्ध: पीतो विग्रथितो बहु: ।
कासमानस्य च श्लेष्मा सरक्त: संप्रवर्तते ॥११॥
स क्षत: क्षीयतेऽत्यर्थं तथा शुक्रौजसो: क्षयात् ।
अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ॥१२॥
उरोरुक्शोणितच्छर्दि: कासो वैशेषिक: क्षते ।
क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटिग्रह: ॥१३॥
अल्पलिङ्गस्य दीप्ताग्ने: साध्यो बलवतो नव: ।
परिसंवत्सरो याप्य: सर्वलिङ्गं तु वर्जयेत् ॥१४॥
उरो मत्वा क्षतं लाक्षां पयसा मधुसंयुताम् ।
सद्य एव पिबेज्जीर्णे पयसाऽद्यात् सशर्करम् ॥१५॥
पार्श्वबस्तिरुजी चाल्पपित्ताग्निस्तां सुरायुताम् ।
भिन्नविट्क: समुस्तातिविषापाठां सवत्सकाम् ॥१६॥
लाक्षां सर्पिर्मधूच्छिष्टंजीवनीयगणं सिताम् ।
त्वक्क्षीरीं समितां क्षीरे पक्त्वा दीप्तानल: पिबेत् ॥१७॥
इक्ष्वालिकाबिसग्रन्थिपद्मकेशरचन्दनै: ।
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती ॥१८॥
यवानां चूर्णमादाय क्षीरसिद्धं घृतप्लुतम् ।
ज्वरे दाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत् ॥१९॥
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबला: ।
कासी पार्श्वास्थिशूली च लिह्यात्सघृतमाक्षिका: ॥२०॥
एलापत्रत्वचोऽर्धाक्षा: पिप्पल्यर्धपलं तथा ।
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिता: ॥२१॥
संचूर्ण्य मधुना युक्ता गुटिका: संप्रकल्पयेत् ।
अक्षमात्रां ततश्चैकां भक्षयेन्ना दिने दिने ॥२२॥
कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम् ।
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम् ॥२३॥
शोषप्लीहाढ्यवातांश्च स्वरभेदं क्षतं क्षयम् ।
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् ॥२४॥
इत्येलादिगुटिका ।
रक्तेऽतिवृत्ते दक्षाण्डं यूषैस्तोयेन वा पिबेत् ।
चटकाण्डरसं वाऽपिरक्तं वा छागजाङ्गलम् ॥२५॥
चूर्णं पौनर्नवं रक्तशालितण्डुलशर्करम् ।
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतै: ॥२६॥
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम् ।
मूढवातस्त्वजामेद: सुराभृष्टं ससैन्धवम् ॥२७॥
क्षाम: क्षीण: क्षतोरस्कस्त्वनिद्र: सबलेऽनिले ।
शृतक्षीरसरेणाद्यात् सक्षौद्रघृतशर्करम् ॥२८॥
शर्करां यवगोधूमौ जीवकर्षभकौ मधु ।
शृतक्षीरानुपानं वा लिह्यात् क्षीण: क्षती कृश: ॥२९॥
क्रव्यादमांसनिर्यूहं घृतभृष्टं पिबेच्च स: ।
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम् ॥३०॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षशालप्रियङ्गुभि: ।
तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकै: ॥३१॥
साश्वकर्णै: शृतात् क्षीरादद्याज्जातेन सर्पिषा ।
शाल्योदनं क्षतोरस्क: क्षीणशुक्रश्च मानव: ॥३२॥
यष्ट्याह्वनागबलयो: क्वाथे क्षीरसमं घृतम् ।
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम् ॥३३॥
कोललाक्षारसे तद्वत् क्षीराष्टगुणसाधितम् ।
कल्कै: कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम् ॥३४॥
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम् ।
चतस्र: पर्णिनीर्मेदे काकोल्यौ द्वे निदिग्धिके ॥३५॥
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम् ।
ऋद्धिं परूषकं भार्गीं मृद्वीकां बृहतीं तथा ॥३६॥
शृङ्गाटकं तामलकीं पयस्यां पिप्पलीं बलाम् ।
बदराक्षोटखर्जूरवातामाभिषुकाण्यपि ॥३७॥
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान् ।
धात्रीरसविदारीक्षुच्छागमांसरसं पय: ॥३८॥
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत् ।
प्रस्थार्धं मधुन: शीते शर्करार्धतुलां तथा ॥३९॥
द्विकार्षिकाणि पत्रैलाहेमत्वङ्मरिचानि च ।
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नर: ॥४०॥
अमृतप्राशमित्येतन्नराणाममृतं घृतम् ।
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना ॥४१॥
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान् ।
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनाश्च बृंहयेत् ॥४२॥
कासहिक्काज्वरश्वासदाहतृष्णास्रपित्तनुत् ।
पुत्रदं वमिमूर्च्छाहृद्योनिमूत्रामयापहम् ॥४३॥
इत्यमृतप्राशघृतम् ।
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ।
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ॥४४॥
पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे ।
कल्क: स्वगुप्ताजीवन्तीमेदर्षभकजीवकै: ॥४५॥
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसै: ।
प्रस्थ: सिद्धो घृताद्वातपित्तहृद्द्र(द्भ)वशूलनुत् ॥४६॥
मूत्रकृच्छ्रप्रमेहार्श:कासशोषक्षयापह: ।
धनु:स्त्रीमद्यभाराध्वखिन्नानां बलमांसद: ॥४७॥
इति श्वदंष्ट्रादिघृतम् ।
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे घृतं पचेत् ।
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले ॥४८॥
पृथगष्टपलं क्षौद्रशर्कराभ्यां विमिश्रयेत् ।
समसक्तु क्षतक्षीणे रक्तगुल्मे च तद्धितम् ॥४९॥
धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम् ।
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक् ॥५०॥
सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेच्च तत् ।
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम् ॥५१॥
वय:स्थापनमायुष्यं मांसशुक्रबलप्रदम् ।
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत् ॥५२॥
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम् ।
आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च ॥५३॥
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु ।
त्वक्क्षीरीशर्करालाजचूर्णै: स्त्यानानि योजयेत् ॥५४॥
सर्पिर्गुडान् समध्वंशाञ्जग्ध्वा चानु पय: पिबेत् ।
रेतो वीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात् ॥५५॥
इति सर्पिर्गुडा: ।
बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा ।
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशका अपि ॥५६॥
एषां कषाये द्विक्षीरे विदार्याजरसांशिके ।
जीवनीयै: पचेत् कल्कैरक्षमात्रैर्घृताढकम् ॥५७॥
सितापलानि पूते च शीते द्वात्रिंशतं क्षिपेत् ।
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ॥५८॥
समाक्षिकं कौडविकं तत् सर्वं खजमूर्च्छितम् ।
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत् ॥५९॥
ताञ्जग्ध्वा पलिकान् क्षीरं मद्यं वाऽनुपिबेत् कफे ।
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते ॥६०॥
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते ।
शस्ता: पार्श्वशिर:शूले भेदे च स्वरवर्णयो: ॥६१॥
इति द्वितीयसर्पिर्गुडा: ।
त्वक्क्षीरीश्रावणीद्राक्षामूर्वर्षभकजीवकै: ।
वीरर्धिक्षीरकाकोलीबृहतीकपिकच्छुभि: ॥६२॥
खर्जूरफलमेदाभि: क्षीरपिष्टै: पलोन्मितै: ।
धात्रीविदारीक्षुरसप्रस्थै: प्रस्थं घृतात् पचेत् ॥६३॥
शर्करार्धतुलां शीते क्षौद्रार्धप्रस्थमेव च ।
दत्त्वा सर्पिर्गुडान् कुर्यात्कासहिक्काज्वरापहान् ॥६४॥
यक्ष्माणं तमकं श्वासं रक्तपित्तं हलीमकम् ।
शुक्रनिद्राक्षयं तृष्णां हन्यु: कार्श्यं सकामलम् ॥६५॥
इति तृतीया: सर्पिर्गुडा: ।
नवमामलकं द्राक्षामात्मगुप्तां पुनर्नवाम् ।
शतावरीं विदारीं च समङ्गां पिप्पलीं तथा॥६६॥
पृथग्दशपलान् भागान् पलान्यष्टौ च नागरात् ।
यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च ॥६७॥
क्षीरतैलघृतानां च त्र्याढके शर्कराशते ।
क्वथिते तानि चूर्णानि दत्त्वा बिल्वसमान् गुडान् ॥६८॥
कुर्यात्तान् भक्षयेत् क्षीण: क्षत: शुष्कश्च मानव: ।
तेन सद्यो रसादीनां वृद्ध्या पुष्टिं स विन्दति ॥६९॥
इति चतुर्थसर्पिर्गुडा: ।
गोक्षीरार्धाढकं सर्पि: प्रस्थमिक्षुरसाढकम् ।
विदार्या: स्वरसात्प्रस्थं रसात्प्रस्थं च तैत्तिरात् ॥७०॥
दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान् ।
मधूकपुष्पकुडवं प्रियालकुडवं तथा ॥७१॥
कुडवार्धं तुगाक्षीर्या: खर्जूराणां च विंशतिम् ।
पृथग्बिभीतकानां च पिप्पल्याश्च चतुर्थिकाम् ॥७२॥
त्रिंशत्पलानि खण्डाच्च मधुकात् कर्षमेव च ।
तथाऽर्धपलिकान्यत्र जीवनीयानि दापयेत् ॥७३॥
सिद्धेऽस्मिन् कुडवं क्षौद्रं शीते क्षिप्त्वाऽथ मोदकान् ।
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान् ॥७४॥
वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च ।
शुष्यतां क्षीणशुक्राणां रक्ते चोरसि संस्थिते ॥७५॥
कृशदुर्बलवृद्धानां पुष्टिवर्णबलार्थिनाम् ।
योनिदोषकृतस्रावहतानां चापि योषिताम् ॥७६॥
गर्भार्थिनीनां गर्भश्च स्रवेद्यासां म्रियेत वा ।
धन्या बल्या हितास्ताभ्य: शुक्रशोणितवर्धना: ॥७७॥
इति पञ्चमसर्पिर्मोदका: ।
बस्तिदेशे विकुर्वाणे स्त्रीप्रसक्तस्य मारुते ।
वातघ्नान् बृंहणान् वृष्यान् योगांस्तस्य प्रयोजयेत् ॥७८॥
शर्करापिप्पलीचूर्णै: सर्पिषा माक्षिकेण च ।
संयुक्तं वा शृतं क्षीरं पिबेत् कासज्वरापहम् ॥७९॥
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम् ।
स्त्रीषु क्षीण: पिबेद्यूषं जीवनं बृंहणं परम् ॥८०॥
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम् ।
यवान्नसात्म्यो दीप्ताग्नि: क्षतक्षीण: पिबेन्नर: ॥८१॥
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम् ।
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम् ॥८२॥
गोमहिष्यश्वनागाजै: क्षीरैर्मांसरसैस्तथा ।
यवान्नं भोजयेद्यूषै: फलाम्लैर्घृतसंस्कृतै: ॥८३॥
दीप्तेऽग्नौ विधिरेष: स्यान्मन्दे दीपनपाचन: ।
यक्ष्मिणां विहितो ग्राही भिन्ने शकृति चेष्यते ॥८४॥
पलिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले ।
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमर्जकात् ॥८५॥
एकैकं मरिचाजाज्योर्धान्यकाद्द्वे चतुर्थिके ।
शर्कराया: पलान्यत्र दश द्वे च प्रदापयेत् ॥८६॥
कृत्वा चूर्णमतो मात्रामन्नपाने प्रयोजयेत् ।
रोचनं दीपनं बल्यं पार्श्वार्तिश्वासकासनुत् ॥८७॥
इति सैन्धवादिचूर्णम् ।
एका षोडशिका धान्याद्द्वे द्वेऽजाज्यजमोदयो: ।
ताभ्यां दाडिमवृक्षाम्लं द्विर्द्वि: सौवर्चलात्पलम् ॥८८॥
शुण्ठ्या: कर्षं दधित्थस्य मध्यात् पञ्च पलानि च ।
तच्चूर्णं षोडशपले शर्कराया विमिश्रयेत् ॥८९॥
षाडवोऽयं प्रदेय: स्यादन्नपानेषु पूर्ववत् ।
मन्दानले शकृद्भेदे यक्ष्मिणामग्निवर्धन: ॥९०॥
इति षाडव: ।
पिबेन्नागबलामूलमर्धकर्षविवर्धितम् ।
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक् ॥९१॥
एष प्रयोग: पुष्ट्यायुर्बलारोग्यकर: पर: ।
मण्डूकपर्ण्या: कल्पोऽयं शुण्ठीमधुकयोस्तथा ॥९२॥
यद्यत् संतर्पणं शीतमविदाहि हितं लघु ।
अन्नपानं निषेव्यं तत्क्षतक्षीणै: सुखार्थिभि: ।
यच्चोक्तं यक्ष्मिणां पथ्यं कासिनां रक्तपित्तिनाम् ।
तच्च कुर्यादवेक्ष्याग्निं व्याधिं सात्म्यं बलं तथा ॥९३॥
उपेक्षिते भवेत्तस्मिन्ननुबन्धो हि यक्ष्मण: ।
प्रागेवागमनात्तस्य तस्मात्तं त्वरया जयेत् ॥९५॥
तत्र श्लोकौ–
क्षतक्षयसमुत्थानं सामान्यपृथगाकृतिम् ।
असाध्ययाप्यसाध्यत्वं साध्यानां सिद्धिमेव च ॥९६॥
उक्तवाञ्ज्येष्ठशिष्याय क्षतक्षीणचिकित्सिते ।
तत्त्वार्थविद्वीतरजस्तमोदोष: पुनर्वसु: ॥९७॥
इत्यग्निवेशकृते तन्त्रेऽप्राप्ते दृढबलपूरिते चिकित्सितस्थाने क्षतक्षीणचिकित्सितं
नामैकादशोऽध्याय: ॥११॥
Last updated on June 21st, 2021 at 11:43 am