सुश्रुतसंहिता ।
सूत्रस्थानम् ।
एकादशोऽध्याय: ।
अथातः क्षारपाकविधिमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
शस्त्रानुशस्त्रेभ्यः क्षारः प्रधानतमः, छेद्यभेद्यलेख्यकरणात् त्रिदोषघ्नत्वाद्विशेषक्रियावचारणाच्च ||३||
तत्र क्षरणात् क्षणनाद्वा क्षारः ||४||
नानौषधिसमवायात्त्रिदोषघ्नः, शुक्लत्वात् सौम्यः; तस्य सौम्यस्यापि सतो दहनपचनदारणादिशक्तिरविरुद्धा, आग्नेयौषधिगुणभूयिष्ठत्वात् कटुक उष्णस्तीक्ष्णः पाचनो विलयनः शोधनो रोपणः शोषणः स्तम्भनो लेखनः कृम्यामकफकुष्ठविषमेदसामुपहन्ता पुंस्त्वस्य चातिसेवितः ||५||
स द्विविधः- प्रतिसारणीयः, पानीयश्च ||६||
तत्र प्रतिसारणीयः कुष्ठकिटिभदद्रुमण्डलकिलासभगन्दरार्बुदार्शोदुष्टव्रणनाडीचर्मकील- तिलकालकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमिविषादिषूपदिश्यते, सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भेषु तिसृषु च रोहिणीषु, एतेष्वेवानुशस्त्रप्रणिधानमुक्तम् ||७||
पानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारोचकानाह- शर्कराश्मर्याभ्यन्तरविद्रधिकृमिविषार्शःसूपयुज्यते ||८||
अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिबालवृद्धदुर्बलभ्रम- मदमूर्च्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविधेभ्यः ||९||
तं चेतरक्षारवद्दग्ध्वा परिस्रावयेत्; तस्य विस्तरोऽन्यत्र ||१०||
अथेतरस्त्रिविधो मृदुर्मध्यस्तीक्ष्णश्च |
तं चिकीर्षुः शरदि गिरिसानुजं शुचिरुपोष्य प्रशस्तेऽहनि प्रशस्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितमुष्ककमधिवास्यापरेद्युः पाटयित्वा खण्डशः प्रकल्प्यावपाट्य निवाते देशे निचितिं कृत्वा सुधाशर्कराश्च प्रक्षिप्य तिलनालैरादीपयेत् |
अथोपशान्तेऽग्नौ तद्भस्म पृथग्गृह्णीयाद्भस्मशर्कराश्च |
अथानेनैव विधानेन कुटजपलाशाश्वकर्णपारिभद्रकबिभीतकारग्वधतिल्वकार्कस्नुह्यपामार्गपाटलानक्तमालवृषकदली- चित्रकपूतीकेन्द्रवृक्षास्फोताश्वमारकसप्तच्छदाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपत्रशाखा दहेत् |
ततः क्षारद्रोणमुदकद्रोणैः षड्भिरालोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य, महति कटाहे शनैर्दर्व्याऽवघट्टयन् विपचेत् |
स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च तमादाय महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रयेत् |
तत एव क्षारोदकात् कुडवमध्यर्धं वाऽपनयेत् |
ततः कटशर्कराभस्मशर्कराक्षीरपाकशङ्खनाभीरग्निवर्णाः कृत्वाऽऽयसे पात्रे तस्मिन्नेव क्षारोदके निषिच्य पिष्ट्वा तेनैव द्विद्रोणेऽष्टपलसम्मितं शङ्खनाभ्यादीनां प्रमाणं प्रतिवाप्य, सततमप्रमत्तश्चैनमवघट्टयन् विपचेत् |
स यथा नातिसान्द्रो नातिद्रवश्च भवति तथा प्रयतेत |
अथैनमागतपाकमवतार्यानुगुप्तमायसे कुम्भे संवृतमुखे निदध्यादेष मध्यमः ||११||
एष चैवाप्रतीवापः पक्वः संव्यूहिमो मृदुः ||१२||
प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गलीपूतिकप्रवालतालपत्रीविडसुवर्चिकाकनकक्षीरीहिङ्गुवचातिविषाः समाः श्लक्ष्णचूर्णाः शुक्तिप्रमाणाः प्रतीवापः |
स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्णः ||१३||
तेषां यथाव्याधिबलमुपयोगः ||१४||
क्षीणबले तु क्षारोदकमावपेद्बलकरणार्थम् ||१५||
भवतश्चात्र-
नैवातितीक्ष्णो न मृदुः शुक्लः श्लक्ष्णोऽथ पिच्छिलः |
अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः ||१६||
अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः |
सान्द्रताऽपक्वता हीनद्रव्यता दोष उच्यते ||१७||
तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवातातपे देशेऽसम्बाधेऽग्रोपहरणीयोक्तेन विधानेनोपसम्भृतसम्भारं, ततोऽस्य तमवकाशं निरीक्ष्यावघृष्यावलिख्य प्रच्छयित्वा, शलाकया क्षारं प्रतिसारयेत्, दत्त्वा वाक्शतमात्रमुपेक्षेत ||१८||
तस्मिन्निपतिते व्याधौ कृष्णता दग्धलक्षणम् |
तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः ||१९||
अथ चेत् स्थिरमूलत्वात् क्षारदग्धं न शीर्यते |
इदमालेपनं तत्र समग्रमवचारयेत् ||२०||
अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च |
प्रपेष्य समभागानि तेनैनमनुलेपयेत् ||२१||
तिलकल्कः समधुको घृताक्तो व्रणरोपणः |
रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन च योजितः ||२२||
आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति |
एवं चेन्मन्यसे वत्स! प्रोच्यमानं निबोध मे ||२३||
अम्लवर्जान् रसान् क्षारे सर्वानेव विभावयेत् |
कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा |
अम्लेन सह संयुक्तः स तीक्ष्णलवणो रसे ||२४||
माधुर्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति |
माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः ||२५||
तत्र सम्यग्दग्धे विकारोपशमो लाघवमनास्रावश्च |
हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च ||
अतिदग्धे दाहपाकरागस्रावाङ्गमर्दक्लमपिपासामूर्च्छाः स्युर्मरणं वा ||२६||
क्षारदग्धव्रणं तु यथादोषं यथाव्याधि चोपक्रमेत् ||२७||
अथ नैते क्षारकृत्याः- तद्यथा- दुर्बलबालस्थविरभीरुसर्वाङ्गशूनोदरिरक्तपित्तिगर्भिण्यृतुमतीप्रवृद्धज्वरिप्रमेहिरूक्षक्षतक्षीण- तृष्णामूर्च्छोपद्रुतक्लीबापवृत्तोद्वृत्तफलयोनयः ||२८||
तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधमनीगलनाभिनखान्तःशेफःस्रोतःस्वल्पमांसेषु च देशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्त्मरोगात् ||२९||
तत्र क्षारसाध्येष्वपि व्याधिषु शूनगात्रमस्थिशूलिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रुतं च क्षारो न साधयति (दुर्बलबालस्थविरादीन् प्रतिसारणीय इति) ||३०||
भवति चात्र-
विषाग्निशस्त्राशनिमृत्युकल्पः क्षारो भवत्यल्पमतिप्रयुक्तः |
स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादचिरेण घोरान् ||३१||
इति सुश्रुतसंहितायां सूत्रस्थाने क्षारपाकविधिर्नामैकादशोऽध्यायः ||११||
Last updated on May 24th, 2021 at 06:06 am