चरकसंहिता
कल्पस्थानम् ।
दशमोऽध्याय: ।
अथात: सुधाकल्पं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता ।
सङ्घातं हि भिनत्त्याशु दोषाणां कष्टविभ्रमा ॥३॥
तस्मान्नैषा मृदौ कोष्ठे प्रयोक्तव्या कदाचन ।
न दोषनिचये चाल्पे सति मार्गपरिक्रमे ॥४॥
पाण्डुरोगोदरे गुल्मे कुष्ठे दूषीविषार्दिते ।
श्वयथौ मधुमेहे च दोषविभ्रान्तचेतसि ॥५॥
रोगैरेवंविधैर्ग्रस्तं ज्ञात्वा सप्राणमातुरम् ।
प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारित: ॥६॥
सद्यो हरति दोषाणां महान्तमपि संचयम् ।
द्विविध: स मतोऽल्पैश्च बहुभिश्चैव कण्टकै: ॥७॥
सुतीक्ष्णै: कण्टकैरल्पै: प्रवरो बहुकण्टक:।
स नाम्ना स्नुग्गुडा नन्दा सुधा निस्त्रिंशपत्रक: ॥८॥
तौ विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् भिषक् ।
द्विवर्षं वा त्रिवर्षं शिशिरान्ते विशेषत: ॥९॥
बिल्वादीनां बृहत्या वा कण्टकार्यास्तथैकश: ।
कषायेण समांशं तं कृत्वाऽङ्गारेषु शोषयेत् ॥१०॥
तत: कोलसमां मात्रां पिबेत् सौवीरकेण वा ।
तुषोदकेन कोलानां रसेनामलकस्य वा ॥११॥
सुरया दधिमण्डेन मातुलुङ्गरसेन वा ।
सातलां काञ्चनक्षीरीं श्यामादीनि कटुत्रिकम् ॥१२॥
यथोपपत्ति सप्ताहं सुधाक्षीरेण भावयेत् ।
कोलमात्रां घृतेनात: पिबेन्मांसरसेन वा ॥१३॥
त्र्यूषणं त्रिफलां दन्तीं चित्रकं त्रिवृतां तथा ।
स्नुक्क्षीरभावितं सम्यग्विदध्याद्गुडपानकम् ॥१४॥
त्रिवृतारग्वधं दन्तीं शङ्खिनीं सप्तलां समम् ।
गोमूत्रे रजनीं कृत्वा शोषयेदातपे तत: ॥१५॥
सप्ताहं भावयित्वैवं स्नुक्क्षीरेणापरं पुन: ।
सप्ताहं भावयेच्छुष्कं ततस्तेनापि भावितम् ॥१६॥
गन्धमाल्यं तदाघ्राय प्रावृत्य पटमेव च ।
सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपा: ॥१७॥
श्यामात्रिवृत्कषायेण स्नुक्क्षीरघृतफाणितै:।
लेहं पक्त्वा विरेकार्थं लेहयेन्मात्रया नरम् ॥१८॥
पाययेत्तु सुधाक्षीरं यूषैर्मांसरसैर्घृतै: ।
भाविताञ्छुष्कमत्स्यान् वा मांसं वा भक्षयेन्नर: ॥१९॥
क्षीरेणामलकै: सर्पिश्चतुरङ्गुलवत् पचेत् ।
सुरां वा कारयेत् क्षीरे घृतं वा पूर्ववत् पचेत् ॥२०॥
तत्र श्लोकौ–
सौवीरकादिभि: सप्त सर्पिषा च रसेन च ।
पानकं घ्रेयलेहौ च योगा यूषादिभिस्त्रय: ॥२१॥
द्वौ शुष्कमत्स्यमांसाभ्यां सुरैका द्वे च सर्पिषी ।
महावृक्षस्य योगास्ते विंशति: समुदाहृता: ॥२२॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते कल्पस्थाने सुधाकल्पो नाम दशमोऽध्याय: ॥१०॥
Last updated on July 2nd, 2021 at 10:17 am