अष्टाङ्गहृदये (उत्तरस्थानम्)
सन्धिसितासितरोगविज्ञानीयं दशमोऽध्यायः।
अथातः सन्धिसितासितरोगविज्ञानीयं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः।
अश्रु स्रावयते वर्त्मशुक्लसन्धेः कनीनकात्॥१॥
तेन नेत्रं सरुग्रागशोफं स्यात्स जलास्रवः।
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत्॥२॥
कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः।
पृथुमूलबलः स्निग्धः सवर्णो मृदुपिच्छिलः॥३॥
महानपाकः कण्डूमानुपनाहः स नीरुजः।
रक्ताद् रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत्॥४॥
वर्त्मसन्ध्याश्रया शुक्ले पिटिका दाहशूलिनी।
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी॥५॥
पूयास्रवे मलाः सास्रा वर्त्मसन्धेः कनीनकात्।
स्रावयन्ति मुहुः पूयं सास्रं त्वङ्मांसपाकतः॥६॥
पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः।
कनीनसन्धावाध्मायी पूयास्रावी सवेदनः॥७॥
कनीनस्यान्तरलजी शोफो रुक्तोददाहवान्।
अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान्॥८॥
पूयास्रावी कृमिग्रन्थिर्ग्रन्थिः कृमियुतोऽर्तिमान्।
उपनाहकृमिग्रन्थिपूयालसकपर्वणीः॥९॥
शस्त्रेण साधयेत्पञ्च सालजीनास्रवांस्त्यजेत्।
पित्तं कुर्यात्सिते बिन्दूनसितश्यावपीतकान्॥१०॥
मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक्।
रोगोऽयं शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः॥११॥
कफाच्छुक्ले समं श्वेतं चिरवृद्ध्यधिमांसकम्।
शुक्लार्म शोफस्त्वरुजः सवर्णो बहलोऽमृदुः॥१२॥
गुरुः स्निग्धोऽम्बुबिन्द्वाभो बलासग्रथितं स्मृतम्।
बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत्॥१३॥
रक्तराजीततं शुक्लमुष्यते यत्सवेदनम्।
अशोफाश्रूपदेहं च सिरोत्पातः स शोणितात्॥१४॥
उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्।
कुर्यात्सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम्॥१५॥
सिराजाले सिराजालं बृहद्रक्तं घनोन्नतम्।
शोणितार्म समं श्लक्ष्णं पद्माभमधिमांसकम्॥१६॥
नीरुक् श्लक्ष्णोऽर्जुनं बिन्दुः शशलोहितलोहितः।
मृद्वाशुवृद्ध्यरुङ्मांसं प्रस्तारि श्यावलोहितम्॥१७॥
प्रस्तार्यर्म मलैः सास्रैः स्नावार्म स्नावसन्निभम्।
शुष्कासृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु॥१८॥
अधिमांसार्म तद् दाहघर्षवत्यः सिरावृताः।
कृष्णासन्नाः सिरासंज्ञाः पिटिकाः सर्षपोपमाः॥१९॥
शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम्।
साधयेदौषधैः षट्कं शेषं शस्त्रेण सप्तकम्॥२०॥
नवोत्थं तदपि द्रव्यैः अर्मोक्तं यच्च पञ्चधा।
तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतम्॥२१॥
चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं च वर्जयेत्।
पित्तं कृष्णेऽथवा दृष्टौ शुक्रं तोदाश्रुरागवत्॥२२॥
छित्त्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम्।
पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम्॥२३॥
तत्कृच्छ्रसाध्यं, याप्यं तु द्वितीयपटलव्यधात्।
तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता॥२४॥
तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः।
शङ्खशुक्लं कफात्साध्यं नातिरुक् शुद्धशुक्रकम्॥२५॥
आताम्रपिच्छिलास्रस्रुदाताम्रपिटिकाऽतिरुक्।
अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्याऽसृजाऽजका॥२६॥
सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम्।
सतोददाहताम्राभिः सिराभिरवतन्यते॥२७॥
अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत्।
दोषैः सास्रैः सकृत्कृष्णं नीयते शुक्लरूपताम्॥२८॥
धवलाभ्रोपलिप्ताभं निष्पावार्धदलाकृति।
अतितीव्ररुजारागदाहश्वयथुपीडितम्॥२९॥
पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम्।
यस्य वा लिङ्गनाशोऽन्तः श्यावं यद्वा सलोहितम्॥३०॥
अत्युत्सेधावगाढं वा साश्रु नाडीव्रणावृतम्।
पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम्॥३१॥
पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः॥३१.१.२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सन्धिसितासितरोगविज्ञानीयो नाम दशमोऽध्यायः॥१०॥
Last updated on September 2nd, 2021 at 10:23 am