अष्टाङ्गहृदये (उत्तरस्थानम्)
वर्त्मरोगप्रतिषेधं नवमोऽध्यायः।
अथातो वर्त्मरोगप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
कृच्छ्रोन्मीले पुराणाज्यं द्राक्षाकल्काम्बुसाधितम्।
ससितं योजयेत्स्निग्धं नस्यधूमाञ्जनादि च॥१॥
कुम्भीकावर्त्म लिखितं सैन्धवप्रतिसारितम्।
यष्टीधात्रीपटोलीनां क्वाथेन परिषेचयेत्॥२॥
निवातेऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः।
बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा॥३॥
निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम्।
न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः॥४॥
मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम्।
लिखेत्तेनैव पत्रैर्वा शाकशेफालिकादिजैः॥५॥
फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक्।
स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत्॥६॥
यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा।
घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा॥७॥
ऊर्ध्वाधः कर्णयोर्दत्त्वा पिण्डीं च यवसक्तुभिः।
द्वितीयेऽहनि मुक्तस्य परिषेकं यथायथम्॥८॥
कुर्याच्चतुर्थे नस्यादीन् मुञ्चेदेवाह्नि पञ्चमे।
समं नखनिभं शोफकण्डूघर्षाद्यपीडितम्॥९॥
विद्यात्सुलिखितं वर्त्म लिखेद् भूयो विपर्यये।
रुक्पक्ष्मवर्त्मसदनस्रंसनान्यतिलेखनात्॥१०॥
स्नेहस्वेदादिकस्तस्मिन्नष्टो वातहरः क्रमः।
अभ्यज्य नवनीतेन श्वेतरोध्रं प्रलेपयेत्॥११॥
एरण्डमूलकल्केन पुटपाके पचेत्ततः।
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतम्॥१२॥
स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम्।
शालितन्दुलकल्केन लिप्तं तद्वत् परिष्कृतम्॥१३॥
कुर्यान्नेत्रेऽतिलिखिते मृदितं दधिमस्तुना।
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः॥१४॥
पिटिका व्रीहिवक्त्रेण भित्त्वा तु कठिनोन्नताः।
निष्पीडयेदनु विधिः परिशेषस्तु पूर्ववत्॥१५॥
लेखने भेदने चायं क्रमः सर्वत्र वर्त्मनि।
पित्तास्रोत्क्लिष्टयोः स्वादुस्कन्धसिद्धेन सर्पिषा॥१६॥
सिराविमोक्षः स्निग्धस्य त्रिवृच्छ्रेष्ठं विरेचनम्।
लिखिते स्रुतरक्ते च वर्त्मनि क्षालनं हितम्॥१७॥
यष्टीकषायः, सेकस्तु क्षीरं चन्दनसाधितम्।
पक्ष्मणां सदने सूच्या रोमकूपान् विकुट्टयेत्॥१८॥
ग्राहयेद्वा जलौकोभिः, पयसेक्षुरसेन वा।
वमनं, नावनं सर्पिः शृतं मधुरशीतलैः॥१९॥
सञ्चूर्ण्य पुष्पकासीसं भावयेत्सुरसारसैः।
ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम्॥२०॥
पोथकीर्लिखिताः शुण्ठीसैन्धवप्रतिसारिताः।
उष्णाम्बुक्षालिताः सिञ्चेत् खदिराढकिशिग्रुभिः॥२१॥
अप्सिद्धैर्द्विनिशाश्रेष्ठामधुकैर्वा समाक्षिकैः।
कफोत्क्लिष्टे विलिखिते सक्षौद्रैः प्रतिसारणम्॥२२॥
सूक्ष्मैः सैन्धवकासीसमनोह्वाकणतार्क्ष्यजैः।
वमनाञ्जननस्यादि सर्वं च कफजिद्धितम्॥२३॥
कर्तव्यं लगणेऽप्येतदशान्तावग्निना दहेत्।
(स्विन्नां भित्त्वा विनिष्पीड्य भिषग(ड्योत्सङ्गां चा) ञ्जननामिकाम्।
शिलैलासैन्धवनतैः सक्षौद्रैः प्रतिसारयेत्॥१॥)
कुकूणे खदिरश्रेष्ठानिम्बपत्रशृतं घृतम्॥२४॥
पीत्वा धात्री वमेत्कृष्णायष्टीसर्षपसैन्धवैः।
अभयापिप्पलीद्राक्षाक्वाथेनैनां विरेचयेत्॥२५॥
मुस्ताद्विरजनीकृष्णाकल्केनालेपयेत्स्तनौ।
धूपयेत्सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत्॥२६॥
पटोलमुस्तमृद्वीकागुडूचीत्रिफलोद्भवम्।
शिशोस्तु लिखितं वर्त्म स्रुतासृग्वाऽम्बुजन्मभिः॥२७॥
धात्र्यश्मन्तकजम्बूत्थपत्रक्वाथेन सेचयेत्।
प्रायः क्षीरघृताशित्वाद्बालानां श्लेष्मजा गदाः॥२८॥
तस्माद्वमनमेवाग्रे सर्वव्याधिषु पूजितम्।
सिन्धूत्थकृष्णापामार्गबीजाज्यस्तन्यमाक्षिकम्॥२९॥
चूर्णो वचायाः सक्षौद्रो मदनं मधुकान्वितम्।
क्षीरं क्षीरान्नमन्नं च भजतः क्रमतः शिशोः॥३०॥
वमनं सर्वरोगेषु विशेषेण कुकूणके।
सप्तलारससिद्धाज्यं योज्यं चोभयशोधनम्॥३१॥
द्विनिशारोध्रयष्ट्याह्वरोहिणीनिम्बपल्लवैः।
कुकूणके हिता वर्तिः पिष्टैस्ताम्ररजोन्वितैः॥३२॥
क्षीरक्षौद्रघृतोपेतं दग्धं वा लोहजं रजः।
एलारसोनकतकशङ्खोषणफणिज्जकैः॥३३॥
वर्तिः कुकूणोपोथक्योः सुरापिष्टैः सकट्फलैः।
पक्ष्मरोधे प्रवृद्धेषु शुद्धदेहस्य रोमसु॥३४॥
उत्सृज्य द्वौ भ्रुवोऽधस्ताद्भागौ भागं च पक्ष्मतः।
यवमात्रं यवाकारं तिर्यक् छित्वाऽऽर्द्रवाससा॥३५॥
अपनेयमसृक् तस्मिन्नल्पीभवति शोणिते।
सीव्येत्कुटिलया सूच्या मुद्गमात्रान्तरैः पदैः॥३६॥
बध्वा ललाटे पट्टं च तत्र सीवनसूत्रकम्।
नातिगाढश्लथं सूच्या निक्षिपेदथ योजयेत्॥३७॥
मधुसर्पिः कवलिकां न चास्मिन् बन्धमाचरेत।
न्यग्रोधादिकषायैश्च सक्षीरैः सेचयेद्रुजि॥३८॥
पञ्चमे दिवसे सूत्रमपनीयावचूर्णयेत्।
गैरिकेण व्रणं युञ्ज्यात्तीक्ष्णं नस्याञ्जनादि च॥३९॥
दहेदशान्तौ निर्भुज्य वर्त्मदोषाश्रयां वलीम्।
संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत्॥४०॥
सूच्यग्रेणाग्निवर्णेन, दाहो बाह्यालजेः पुनः।
भिन्नस्य क्षारवह्निभ्यां सुच्छिन्नस्यार्बुदस्य च॥४१॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग-
हृदयसंहितायां षष्ठे उत्तरस्थाने वर्त्मरोगप्रतिषेधो नाम नवमोऽध्यायः॥९॥
Last updated on September 2nd, 2021 at 05:46 am