चरकसंहिता
चिकित्सास्थानम् ।
नवमोऽध्याय: ।
अथात उन्मादचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
बुद्धिस्मृतिज्ञानतपोनिवास:
पुनर्वसु: प्राणभृतां शरण्य: ।
उन्मादहेत्वाकृतिभेषजानि
कालेऽग्निवेशाय शशंस पृष्ट: ॥३॥
विरुद्धदुष्टाशुचिभोजनानि
प्रधर्षणं देवगुरुद्विजानाम् ।
उन्मादहेतुर्भयहर्षपूर्वो
मनोऽभिघातो विषमाश्च चेष्टा: ॥४॥
तैरल्पसत्त्वस्य मला: प्रदुष्टा ।
बुद्धेर्निवासं हृदयं प्रदूष्य ।
स्रोतांस्यधिष्ठाय मनोवहानि
प्रमोहयन्त्याशु नरस्य चेत: ॥५॥
धीविभ्रम: सत्त्वपरिप्लवश्च
पर्याकुला दृष्टिरधीरता च ।
अबद्धवाक्त्वं हृदयं च शून्यं
सामान्यमुन्मादगदस्य लिङ्गम् ॥६॥
स मूढचेता न सुखं न दु:खं
नाचारधर्मौ कुत एव शान्तिम् ।
विन्दत्यपास्तस्मृतिबुद्धिसंज्ञो
भ्रमत्ययं चेत इतस्ततश्च ॥७॥
समुद्भ्रमं बुद्धिमन:स्मृतीनामुन्मादमागन्तुनिजोत्थमाहु: ।
तस्योद्भवं पञ्चविधं पृथक् तु
वक्ष्यामि लिङ्गानि चिकित्सितं च ॥८॥
रूक्षाल्पशीतान्नविरेकधातु-
क्षयोपवासैरनिलोऽतिवृद्ध: ।
चिन्तादिजुष्टं हृदयं प्रदूष्य
बुद्धिं स्मृतिं चाप्युपहन्ति शीघ्रम् ॥९॥
अस्थानहासस्मितनृत्यगीतवागङ्गविक्षेपणरोदनानि ।
पारुष्यकार्श्यारुणवर्णताश्च
जीर्णे बलं चानिलजस्य रूपम् ॥१०॥
अजीर्णकट्वम्लविदाह्यशीतैर्भोज्यैश्चितं पित्तमुदीर्णवेगम् ।
उन्मादमत्युग्रमनात्मकस्य
हृदि श्रितं पूर्ववदाशु कुर्यात् ॥११॥
अमर्षसंरम्भविनग्नभावा:
संतर्जनातिद्रवणौष्ण्यरोषा: ।
प्रच्छायशीतान्नजलाभिलाषा:
पीता च भा: पित्तकतस्य लिङ्गम् ॥१२॥
संपूरणैर्मन्दविचेष्टितस्य
सोष्मा कफो मर्मणि संप्रवृद्ध: ।
बुद्धिं स्मृतिं चाप्युपहत्य चित्तं
प्रमोहयन् संजनयेद्विकारम् ॥१३॥
वाक्चेष्टितं मन्दमरोचकश्च
नारीविविक्तप्रियताऽतिनिद्रा ।
छर्दिश्च लाला च बलं च भुङ्क्ते
नखादिशौक्ल्यं च कफात्मकस्य ॥१४॥
य: सन्निपातप्रभवोऽतिघोर:
सर्वै: समस्तै: स च हेतुभि: स्यात् ।
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्य: ॥१५॥
देवर्षिगन्धर्वपिशाचयक्षरक्ष:पितॄणामभिधर्षणानि ।
आगन्तुहेतुर्नियमव्रतादि
मिथ्याकृतं कर्म च पूर्वदेहे ॥१६॥
अमर्त्यवाग्विक्रमवीर्यचेष्टो
ज्ञानादिविज्ञानबलादिभिर्य: ।
उन्मादकालोऽनियतश्च यस्य
भूतोत्थमुन्मादमुदाहरेत्तम् ॥१७॥
अदूषयन्त: पुरुषस्य देहं
देवादय: स्वैस्तु गुणप्रभावै: ।
विशन्त्यदृश्यास्तरसा यथैव
च्छायातपौ दर्पणसूर्यकान्तौ ॥१८॥
आघातकालो हि स पूर्वरूप:
प्रोक्तो निदानेऽथ सुरादिभिश्च ।
उन्मादरूपाणि पृथङ्निबोध
कालं च गम्यान् पुरुषांश्च तेषाम् ॥१९॥
तद्यथा-सौम्यदृष्टिं गम्भीरमधृष्यमकोपनमस्वप्नभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवातं शुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात्, गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्यानानुरूपचेष्टाहारव्याहारं तैरुन्मत्तं विद्यात्, अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाचमनन्नाभिलाषमरोचकाविपाकपरीतं च पितृभिरुन्मत्तं विद्यात; (चण्डं साहसिकं तीक्ष्णं गम्भीरमघृष्यं) मुखवाद्यनृत्य- गीतान्नपानस्नानमाल्यधूपगन्धरतिं रक्तवस्त्रबलिकर्महास्यकथानुयोगप्रियं शुभगन्धं च गन्धर्वोन्मत्तं विद्यात्; असकृत्स्वप्नरोदनहास्यं नृत्यगीतवाद्यपाठकथान्नपानस्नानमाल्यधूपगन्धरतिं रक्तविप्लुताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणं च यक्षोन्मत्तं विद्यात्; नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्यतिबलिनं शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं संतर्जकं च राक्षसोन्मत्तं विद्यात्; प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभि: स्तुतिवेदमन्त्रशास्त्रोदाहरणै: काष्ठादिभिरात्मपीडनेन च ब्रह्मराक्षसोन्मत्तं विद्यात्; अस्वस्थचित्तं स्थानमलभमानं नृत्यगीतहासिनं बद्धाबद्धप्रलापिनं संकरकूटमलिनरथ्याचेलतृणाश्मकाष्ठाधिरोहणरतिं भिन्नरूक्षस्वरं नग्नं विधावन्तं नैकत्र तिष्ठन्तं दु:खान्यावेदयन्तं नष्टस्मृतिं च पिशाचोन्मत्तं विद्यात् ॥२०॥
तत्र चौक्षाचारं तप:स्वाध्यायकोविदं नरं प्राय: शुक्लप्रतिपदि त्रयोदश्यां च छिद्रमवेक्ष्याभिधर्षयन्ति देवा:, स्नानशुचिविविक्तसेविनं धर्मशास्त्रश्रुतिवाक्यकुशलं प्राय: षष्ठ्यां नवम्यां चर्षय:, मातृपितृगुरुवृद्धसिद्धाचार्योपसेविनं प्रायो दशम्याममावस्यायां च पितर:, गन्धर्वा: स्तुतिगीतवादित्ररतिं परदारगन्धमाल्यप्रियं चौक्षाचारं प्रायो द्वादश्यां चतुर्दश्यां च, सत्त्वबलरूपगर्वशौर्ययुक्तं माल्यानुलेपनहास्यप्रियमतिवाक्करणं प्राय: शुक्लैकादश्यां सप्तम्यां च यक्षा:, स्वाध्यायतपोनियमोपवास- ब्रह्मचर्यदेवयतिगुरुपूजाऽरतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं वा ब्राह्मणवादिनं शूरमानिनं देवागारसलिलक्रीडनरतिं प्राय: शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने च ब्रह्मराक्षसा:, रक्ष:पिशाचास्तु हीनसत्त्वं पिशुनं स्त्रैणं लुब्धं शठं प्रायो द्वितीयातृतीयाष्टमीषु; इत्यपरिसंख्येयानां ग्रहाणामाविष्कृततमा ह्यष्टावेते व्याख्याता: ॥२१॥
सर्वेष्वपि तु खल्वेषु यो हस्तावुद्यम्य रोषसंरम्भान्नि:शङ्कमन्येष्वात्मनि वा निपातयेत् स ह्यसाध्यो ज्ञेय:; तथा य: साश्रुनेत्रो मेढ्रप्रवृत्तरक्त: क्षतजिह्व: प्रस्रुतनासिकश्छिद्यमानचर्माऽप्रतिहन्यमानवाणि: सततं विकूजन् दुर्वर्णस्तृषार्त: पूतिगन्धश्च स हिंसार्थिनोन्मत्तो ज्ञेय:, तं परिवर्जयेत् ॥२२॥
रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वा तदङ्गोपहारबलिमिश्रेण । मन्त्रभैषज्यविधिनोपक्रमेत् ॥२३॥
तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयो: समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्याम: ॥२४॥
उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित् ।
कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम् ॥२५॥
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम् ।
स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रम: ॥२६॥
निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम् ।
तत: कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत् ॥२७॥
हृदिन्द्रियशिर:कोष्ठे संशुद्धे वमनादिभि: ।
मन:प्रसादमाप्नोति स्मृतिं संज्ञां च विन्दति ॥२८॥
शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम् ।
ताडनं च मनोबुद्धिदेहसंवेजनं हितम् ॥२९॥
य: सक्तोऽविनये पट्टै: संयम्य सुदृढै: सुखै: ।
अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे ॥३०॥
तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम् ।
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मन: ॥३१॥
प्रदेहोत्सादनाभ्यङ्गधूमा: पानं च सर्पिष: ।
प्रयोक्तव्यं मनोबुद्धिस्मृतिसंज्ञाप्रबोधनम् ॥३२॥
सर्पि:पानादिरागन्तोर्मन्त्रादिश्चेष्यते विधि: ।
अत: सिद्धतमान्योगाञ्छृणून्मादविनाशनान् ॥३३॥
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम् ।
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम् ॥३४॥
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम् ।
स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका ॥३५॥
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम् ।
तालीशपत्रं बृहती मालत्या: कुसुमं नवम् ॥३६॥
विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ ।
अष्टविंशतिभि: कल्कैरेतैरक्षसमन्वितै: ॥३७॥
चतुर्गुणे जले सम्यग्घृतप्रस्थं विपाचयेत् ।
अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये ॥३८॥
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके ।
छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च ॥३९॥
कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च ।
भूतोपहतचित्तानां गद्गदानामचेसाम् ॥४०॥
शस्तं स्त्रीणां च वन्ध्यानां धन्यामायुर्बलप्रदम् ।
अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम् ॥४१॥
कल्याणकमिदं सर्पि: श्रेष्ठं पुंसवनेषु च ।
इति कल्याणकं घृतम् ।
एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् ॥४२॥
रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे ।
वीरार्द्रमाषकाकोलीस्वयंगुप्तर्षभर्धिभि: ॥४३॥
मेदया च समै: कल्कैस्तत् स्यात् कल्याणकं महत् ।
बृंहणीयं विशेषेण सन्निपातहरं परम् ॥४४॥
इति महाकल्याणकं घृतम् ।
जटिलां पूतनां केशीं चारटीं मर्कटीं वचाम्
त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम् ॥४५॥
वय:स्थां शूकरीं छत्रमतिच्छत्रां पलङ्कषाम् ।
महापुरुषदन्तां च कायस्थां नाकुलीद्वयम् ॥४६॥
कटम्भरां वृश्चिकालीं स्थिरां चाहृत्य तैर्घृतम् ।
सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम् ॥४७॥
महापैशाचिकं नाम घृतमेतद्यथाऽमृतम् ।
बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम् ॥४८॥
इति महापैशाचिकं घृतम् ।
लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम् ।
गवां चर्ममसीप्रस्थो व्द्याढकं क्षीरमूत्रयो: ॥४९॥
पुराणसर्पिष: प्रस्थ एभि: सिद्धं प्रयोजयेत् ।
हिङ्गुचूर्णपलं शीते दत्त्वा च मधुमाणिकाम् ॥५०॥
तद्दोषागन्तुसंभूतानुन्मादान् विषमज्वरान् ।
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनै: ॥५१॥
इति लशुनाद्यं घृतम् ।
लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम् ।
तदर्धं दशमूलस्य व्द्याढकेऽपां विपाचयेत् ॥५२॥
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा ।
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै: रसै: ॥५३॥
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकै: ।
साधयेत् त्रिफलादारुलवणव्योषदीप्यकै: ॥५४॥
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकै: ।
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम् ॥५५॥
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरकृमीन् ।
वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति ॥५६॥
इत्यपरं लशुनाद्यं घृतम् ।
हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवय:स्थया ।
सिद्धं सर्पिर्हितं तद्वद्वय:स्थाहिङ्गुचोरकै: ॥५७॥
केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम् ।
पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा ॥५८॥
विशेषत: पुराणं च घृतं तं पाययेद्भिषक् ।
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम् ॥५९॥
गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम् ।
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम् ॥६०॥
लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम् ।
मेध्यं विरेचनेष्वग्र्यं प्रपुराणमत: परम् ॥६१॥
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम् ।
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम् ॥६२॥
अपस्मारग्रहोन्मादवतां शस्तं विशेषत: ।
एतानौषधयोगान् वा विधेयत्वमगच्छति ॥६३॥
अञ्जनोत्सादनालेपनावनादिषु योजयेत् ।
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा ॥६४॥
कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम् ।
तद्वद्व्याेषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपा: ॥६५॥
शिरीषबीजं चोन्मादग्रहापस्मारनाशनम् ।
पिष्ट्वा तुल्यमपामार्गं हिङ्ग्वालं हिङ्गुपत्रिकाम् ॥६६॥
वर्ति: स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयो: ।
तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान् ॥६७॥
भूतार्तानमरार्तांश्च नरांश्चैव दृगामये ।
मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम् ॥६८॥
वैकृतं पश्यत: कार्यं दोषभूतहतस्मृते: ।
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च ॥६९॥
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम् ।
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ॥७०॥
बस्तमूत्रेण पिष्टोऽयमगद: पानमञ्जनम् ।
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा ॥७१॥
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापह: ।
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते ॥७२॥
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत् ।
प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत् ॥७३॥
वैरेचनिकधूमोक्तै: श्वेताद्यैर्वा सहिङ्गुभि: ।
शल्लकोलूकमार्जारजम्बूकवृकबस्तजै: ॥७४॥
मूत्रपित्तशकृल्लोमनखैार्मभिरेव च ।
सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत् ॥७५॥
वातश्लेष्मात्मके प्राय: पैत्तिके तु प्रशस्यते ।
तिक्तकं जीवनीयं च सर्पि: स्नेहश्च मिश्रक: ॥७६॥
शीतानि चान्नपानानि मधुराणि मृदूनि च ।
शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम् ।
उन्मादे विषमे चैव ज्वरेऽपस्मार एव च ॥७७॥
घृतमांसवितृप्तं वा निवाते स्थापयेत् सुखम् ।
त्यक्त्वा मतिस्मृतिभ्रंशं संज्ञां लब्ध्वा प्रमुच्यते ॥७८॥
आश्वासयेत् सुहृद्वा तं वाक्यैर्धर्मार्थसंहितै: ।
ब्रूयादिष्टविनाशं वा दर्शयेदद्भुतानि वा ॥७९॥
बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे ।
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलै: स्पृशेत् ॥८०॥
कशाभिस्ताडयित्वा वा सुबद्धं विजने गृहे ।
रुन्ध्याच्चेतो हि विभ्रान्तं व्रजत्यस्य तथा शमम् ॥८१॥
सर्पेणोद्धृतदंष्ट्रेण दान्तै: सिंहैर्गजैश्च तम् ।
त्रासयेच्छस्त्रहस्तैर्वा तस्करै: शत्रुभिस्तथा ॥८२॥
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम् ।
त्रासयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया ॥८३॥
देहदु:खभयेभ्यो हि परं प्राणभयं स्मृतम् ।
तेन याति शमं तस्य सर्वतो विप्लुतं मन: ॥८४॥
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते ।
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासै: शमं नयेत् ॥८५॥
कामशोकभयक्रोधहर्षेर्ष्यालोभसंभवान् ।
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत् ॥८६॥
बुद्ध्वा देशं वय: सात्म्यं दोषं कालं बलाबले ।
चिकित्सितमिदं कुर्यादुन्मादे भूतदोषजे ॥८७॥
देवर्षिपितृगन्धर्वैरुन्मत्तस्य तु बुद्धिमान् ।
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म च ॥८८॥
सर्पिष्पानादि तस्येह मृदु भैषज्यमाचरेत् ।
पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा ॥८९॥
शान्तिकर्मेष्टिहोमांश्च जपस्वस्त्ययनानि च ।
वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत् ॥९०॥
भूतानामधिपं देवमीश्वरं जगत: प्रभुम् ।
पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम् ॥९१॥
रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये ।
तेषां पूजां च कुर्वाण उन्मादेभ्य: प्रमुच्यते ॥९२॥
बलिभिर्मङ्गलैर्होमैरोषध्यगदधारणै: ।
सत्याचारतपोज्ञानप्रदाननियमव्रतै: ॥९३॥
देवगोब्राह्मणानां च गुरूणां पूजनेन च ।
आगन्तु: प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा ॥९४॥
यच्चोपदेक्ष्यते किंचिदपस्मारचिकित्सिते ।
उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययो: ॥९५॥
निवृत्तामिषमद्यो यो हिताशी प्रयत: शुचि: ।
निजागन्तुभिरुन्मादै: सत्त्ववान् न स युज्यते ॥९६॥
प्रसादश्चेन्द्रियार्थानां बुद्ध्यात्ममनसां तथा ।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ॥९७॥
तत्र श्लोक:-
उन्मादानां समुत्थानं लक्षणं सचिकित्सितम् ।
निजागन्तुनिमित्तानामुक्तवान् भिषगुत्तम: ॥९८॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलपूरिते चिकित्सास्थाने उन्मादचिकित्सितं
नाम नवमोऽध्याय: ॥९॥
Last updated on June 21st, 2021 at 09:40 am