सूश्रूतसंहिता ।
अथ चिकित्सास्थानम् ।
नवमोऽध्यायः ।
अथातः कुष्ठचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनां चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति ||३||
तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमाषनिष्पावेक्षुपिष्टविकाराम्लविरुद्धाध्यशनाजीर्णविदाह्यभिष्यन्दीनि दिवास्वप्नं व्यवायं च परिहरेत् ||४||
ततः शालिषष्टिकयवगोधूमकोरदूषश्यामाकोद्दालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण, मण्डूकपर्ण्यवल्गुजाटरूषकरूपिकापुष्पैः सर्पिःसिद्धैः सर्षपतैलसिद्धैर्वा, तिक्तवर्गेण वाऽभिहितेन; मांससात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत्; तैलं वज्रकमभ्यङ्गार्थे; आरग्वधादिकषायमुत्सादनार्थे; पानपरिषेकावगाहादिषु च खदिरकषायम्; इत्येष आहाराचारविभागः ||५||
तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत |
तत्र त्वक्सम्प्राप्ते शोधनालेपनानि, शोणितप्राप्ते संशोधनालेपनकषायपानशोणितावसेचनानि, मांसप्राप्ते शोधनालेपनकषायपानशोणितावसेचनारिष्टमन्थप्राशाः, चतुर्थकर्मगुणप्राप्तं याप्यमात्मवतः संविधानवतश्च, तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्लातशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधानमासेवेत; पञ्चमं नैवोपक्रमेत् ||६||
तत्र प्रथममेव कुष्ठिनं स्नेहपानविधानेनोपपादयेत् |
मेषशृङ्गीश्वदंष्ट्राशार्ङ्गेष्टागुडूचीद्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्ठिनां पानाभ्यङ्गयोर्विदध्यात्, धवाश्वकर्णककुभपलाशपिचुमर्दपर्पटकमधुकरोध्रसमङ्गासिद्धं सर्पिः पित्तकुष्ठिनां, प्रियालशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धं श्लेष्मकुष्ठिनां भल्लातकाभयाविडङ्गसिद्धं वा, सर्वेषां तुवरकतैलं भल्लातकतैलं वेति ||७||
सप्तपर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफलापटोलपिचुमर्दपर्पटकदुरालभात्रायमाणामुस्ताचन्दनपद्मक- हरिद्रोपकुल्याविशालामूर्वाशतावरीसारिवेन्द्रयवाटरूषकषड्ग्रन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कःस्यात्, कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद्द्विगुणो धात्रीफलरसस्तच्चतुर्गुणा आपस्तदैकध्यं समालोड्य विपचेत्, एतन्महातिक्तकं नाम सर्पिः कुष्ठविषमज्वररक्तपित्तहृद्रोगोन्मादापस्मारगुल्मपिडकासृग्दरगलगण्डगण्डमाला- श्लीपदपाण्डुरोगविसर्पार्शःषाण्ढ्यकण्डूपामादीञ्छमयेदिति ||८||
त्रिफलापटोलपिचुमन्दाटरूषककटुरोहिणीदुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागाञ्जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्धपलिकानि त्रायमाणामुस्तेन्द्रयवचन्दनकिराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य विपचेत्, एतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वरगुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पषाण्ढ्यशमनमूर्ध्वजत्रुगतरोगघ्नं चेति ||९||
अतोऽन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा विध्येत्; मण्डलानि चोत्सन्नान्यवलिखेदभीक्ष्णं, प्रच्छयेद्वा, समुद्रफेनशाकगोजीकाकोदुम्बरिकापत्रैर्वाऽवघृष्यालेपयेल्लाक्षासर्जरसरसाञ्जन- प्रपुन्नडावल्गुजतेजोवत्यश्वमारकार्ककुटजारेवतमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा, स्वर्जिकातुत्थकासीसविडङ्गागारधूमचित्रककटुकसुधाहरिद्रासैन्धवकल्कैर्वा, एतान्येवावाप्य क्षारकल्पेन निःस्रुते पालाशे क्षारे ततो विपाच्य फाणीतमिव सञ्जातमवतार्य लेपयेत्, ज्योतिष्कफललाक्षामरिचपिप्पलीसुमनःपत्रैर्वा, हरितालमनःशिलार्कक्षीरतिलशिग्रुमरिचकल्कैर्वा, स्वर्जिकाकुष्ठतुत्थकुटजचित्रकविडङ्गमरिचरोध्रमनःशिलाकल्कैर्वा, हरीतकीकरञ्जिकाविडङ्गसिद्धार्थकलवणरोचनावल्गुजहरिद्राकल्कैर्वा ||१०||
सर्वे कुष्ठापहाः सिद्धा लेपाः सप्त प्रकीर्तिताः |
वैशेषिकानतस्तूर्ध्वं दद्रूश्वित्रेषु मे शृणु ||११||
लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं
रात्रिर्व्योषं चक्रमर्दस्य बीजम् |
कृत्वैकस्थं तक्रपिष्टः प्रलेपो
दद्रूषूक्तो मूलकाद्बीजयुक्तः ||१२||
सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम् |
पिष्टो लेपोऽयं कपित्थाद्रसेन दद्रूस्तूर्णं नाशयत्येष योगः ||१३||
हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः |
शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्धर्षणेषूपयुक्ताः ||१४||
भद्रासञ्ज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः |
सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटाञ्छ्वित्रे पुण्डरीके च कुर्यात् ||१५||
द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः |
पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको निहन्ति ||१६||
कृष्णस्य सर्पस्य मसी सुदग्धा बैभीतकं तैलमथ द्वितीयम् |
एतत् समस्तं मृदितं प्रलेपाच्छ्वित्राणि अर्वाण्यपहन्ति शीघ्रम् ||१७||
अध्यर्धतोये सुभतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः |
तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्र्यम् ||१८||
घृतेन युक्तं प्रपुनाडबीजं कुष्ठं च यष्टीमधुकं च पिष्ट्वा |
श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय बुभुक्षिताय ||१९||
तस्योपसङ्गृह्य च तत् पुरीषमुत्पाचितं सर्वत एव लिम्पेत् |
अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ्वित्रमथो निहन्ति ||२०||
क्षारे सुदग्धे जलगण्डजे तु गजस्य मूत्रेण बहुस्रुते च |
द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य ||२१||
एतद्यदा चिक्कणतामुपैति तदा समस्तं गुटिका विदध्यात् |
श्वित्रं प्रलिम्पेदथ सम्प्रघृष्य तया व्रजेदाशु सवर्णभावम् ||२२||
कषायकल्पेन सुभावितां तु जलं त्वचा चूतहरीतकीनाम् |
तां ताम्रदीपे प्रणिधाय धीमान् वर्तिं वटक्षीरसुभावितां तु ||२३||
आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याम्भसि भावयित्वा |
सम्प्रच्छितं तद्बहुशः किलासं तैलेन सिक्तं कटुना प्रयाति ||२४||
आवल्गुजं बीजमग्र्यं नदीजं काकाह्वानोदुम्बरी या च लाक्षा |
लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्याः कृष्णवर्णास्तिलाश्च ||२५||
वर्तिं कृत्वा तां गवां पित्तपिष्टां लेपः कार्यः श्वित्रिणां श्वित्रहारी |
लेपात् पित्तं शैखिनं श्वित्रहारि ह्रीबेरं वा दग्धमेतेन युक्तम् ||२६||
तुत्थालकटुकाव्योषसिंहार्कहयमारकाः |
कुष्ठावल्गुजभल्लातक्षीरिणीसर्षपाः स्नुही ||२७||
तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य च |
बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम् ||२८||
आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः |
वायसीफल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक् ||२९||
द्वे लोहरजसः प्रस्थे त्रिफलात्र्याढकं तथा |
त्रिद्रोणेऽपां पचेद्यावद्भागौ द्वावसनादपि ||३०||
शिष्टौ च विपचेद्भूय एतैः श्लक्ष्णप्रपेषितैः |
कल्कैरिन्द्रयवव्योषत्वग्दारुचतुरङ्गुलैः ||३१||
पारावतपदीदन्तीबाकुचीकेशराह्वयैः |
कण्टकार्या च तत्पक्वं घृतं कुष्ठिषु योजयेत् ||३२||
दोषधात्वाश्रितं पानादभ्यङ्गात्त्वग्गतं तथा |
अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति ||३३||
त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका |
वायस्यारग्वधश्चैषां तुलां कुर्यात् पृथक् पृथक् ||३४||
काकमाच्यर्कवरुणदन्तीकुटजचित्रकात् |
दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा ||३५||
त्रिद्रोणेऽपां पचेद्यावत् षट्प्रस्थं परिशेषितम् |
शकृद्रसदधिक्षीरमूत्राणां पृथगाढकम् ||३६||
तद्वद्धृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः |
करञ्जफलनीलिकाश्यामावल्गुजपीलुभिः ||३७||
नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम् |
म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम् |
भगन्दरं कृमीनर्शो महानीलं नियच्छति ||३८||
मूत्रं गव्यं चित्रकव्योषयुक्तं सर्पिःकुम्भे क्षौद्रयुक्तं स्थितं हि |
पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् |
कुर्याच्चास्मिन् कुष्ठदिष्टं विधानम् ||३९||
पूतीकार्कस्नुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च |
लेपः श्वित्रं हन्ति दद्रूर्व्रणांश्च दुष्टान्यर्शांस्येष नाडीव्रणांश्च ||४०||
अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जातप्राणं सर्पिषा स्नेहयित्वा |
तीक्ष्णैर्योगैश्छर्दयित्वा प्रगाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः ||४१||
दुर्वान्तो वा दुर्विरिक्तोऽपि वा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः |
निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात् कृत्स्नान्निर्हरेत्तस्य दोषान् ||४२||
पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम् |
स्राव्यं रक्तं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात्त्रिरात्रात् ||४३||
पथ्या व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात् |
धात्रीपथ्याक्षोपकुल्याविडङ्गान् क्षौद्राज्याभ्यामेकतो वाऽवलिह्यात् ||४४||
पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोगस्य गच्छेत् |
एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः ||४५||
तद्वत्तार्क्ष्यं मासमात्रं च पेयं, तेनाजस्रं देहमालेपयेच्च |
आरिष्टीत्वक् साप्तपर्णी च तुल्या लाक्षा मुस्तं पञ्चमूल्यौ हरिद्रे ||४६||
मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रीविडङ्गाः |
सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन् ||४७||
कुष्ठाज्जन्तुर्मुच्यते त्रैफलं वा सर्पिर्द्रोणं व्योषयुक्तं च युञ्जन् |
गोमूत्राम्बुद्रोणसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् ||४८||
आरग्वधे सप्तपर्णे पटोले सवृक्षके नक्तमाले सनिम्बे जीर्णं पक्वं तद्धरिद्राद्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः ||४९||
रोध्रारिष्टं पद्मकं रक्तसारः
सप्ताह्वाक्षौ वृक्षको बीजकश्च |
योज्याः स्नाने दह्यमानस्य जन्तोः
पेया वा स्यात् क्षौद्रयुक्ता त्रिभण्डी ||५०||
खादेत् कुष्ठी मांसशा(पा)ते पुराणान् मुद्गान् सिद्धान्निम्बतोये सतैलान् |
निम्बक्वाथं जातसत्त्वः पिबेद्वा क्वाथं वाऽर्कालर्कसप्तच्छदानाम् ||५१||
जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गैः समूत्रैः |
मूत्रैश्चैनं सेचयेद्भोजयेच्च सर्वाहारान् सम्प्रयुक्तान् विडङ्गैः ||५२||
कारञ्जं वा सार्षपं वा क्षतेषु क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा |
पक्वं सर्वैर्वा कटूष्णैः सतिक्तैः शेषं च स्याद्दुष्टवत् संविधानम् ||५३||
सप्तपर्णकरञ्जार्कमालतीकरवीरजम् |
स्नुहीशिरीषायोर्मूलं चित्रकास्फोतयोरपि ||५४||
विषलाङ्गलवज्राख्यकासीसालमनःशिलाः |
करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ||५५||
सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत् |
मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् ||५६||
एतद्वज्रकमभ्यङ्गान्नाडीदुष्टव्रणापहम् |
सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम् ||५७||
कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी |
लाक्षा सर्जरसोऽर्कश्च सास्फोतारग्वधौ स्नुही ||५८||
शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा |
कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा ||५९||
मालती कटुतुम्बी च गन्धाह्वा मूलकं तथा |
सैन्धवं करवीरश्च गृहधूमं विषं तथा ||६०||
कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये |
समभागानि सर्वाणि कल्कपेष्याणि कारयेत् ||६१||
गोमूत्रं द्विगुणं दद्यात्तिलतैलाच्चतुर्गुणम् |
कारञ्जं या महावीर्यं सार्षपं वा महागुणम् ||६२||
अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान् |
नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः ||६३||
महावज्रकमित्येतन्नाम्ना तैलं महागुणम् |
पित्तावापैर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् ||६४||
सप्ताहं कटुकालाब्वां निदधीत चिकित्सकः |
पीतवन्तं ततो मात्रां तेनाभ्यक्तं च मानवम् ||६५||
शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः |
स्रुतदोषं समुत्थाप्य स्नातं खदिरवारिणा ||६६||
यवागूं पाययेदेनं साधितां खदिराम्बुना |
एवं संशोधने वर्गे कुष्ठघ्नेष्वौषधेषु च ||६७||
कुर्यात्तैलानि सर्पींषि प्रदेहोद्धर्षणानि च |
प्रातः प्रातश्च सेवेत योगान् वैरेचनाञ् शुभान् |
पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति ||६८||
कारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम् |
जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति ||६९||
दिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः |
सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु ||७०||
यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा |
तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा ||७१||
नीचरोमनखः श्रान्तो हिताश्यौषधतत्परः |
योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति ||७२||
इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमोऽध्यायः ||९||
Last updated on July 8th, 2021 at 09:14 am