चरकसंहिता
सिद्धिस्थानम्।
अष्टमोऽध्याय: ।
अथात: प्रासृतयोगीयां सिद्धिं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्।
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतै: पृथक्॥३॥
क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः ।
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्॥४॥
एकैक: प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्।
बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातनुत्॥५॥
पञ्चमूलरसात् पञ्च द्वौ तैलात् क्षौद्रसर्पिषो: ।
एकैक: प्रसृतो बस्ति: स्नेहनीयोऽनिलापह: ॥६॥
सैन्धवार्धाक्ष एकैक: क्षौद्रतैलपयोघृतात्।
प्रसृतो हपुषाकर्षो निरूह: शुक्रकृत् परम्॥७॥
पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भस: ।
चत्वार: प्रसृता एको घृतात् सर्षपकल्कित: ॥८॥
निरूह: पञ्चतिक्तोऽयं मेहाभिष्यन्दकुष्ठनुत्।
विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात्॥९॥
कषायात् प्रसृता: पञ्च तैलादेको विमथ्य तान्।
विडङ्गपिप्पलीकल्को निरूह: क्रिमिनाशन: ॥१०॥
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्।
एकैक: प्रसृतो बस्ति: कृष्णाकल्को वृषत्वकृत्॥११॥
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्।
प्रसृता: सर्षपै: कल्कैर्विट्सङ्गानाहभेदन: ॥१२॥
श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात् सुरासवात्।
प्रसृता: पञ्च यष्ट्याह्वकौन्तीमागधिकासिता: ॥१३॥
कल्क: स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तम: ।
एते सलवणा: कोष्णा निरूहा: प्रसृतैर्नव॥१४॥
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते।
तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते॥१५॥
वातोपसृष्टस्योष्णै: स्युर्गुददाहादयो यदि।
द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम्॥१६॥
तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत्।
शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुताम्॥१७॥
अथवाऽतिविरिक्त: स्यात् क्षीणविट्क: स भक्षयेत्।
माषयूषेण कुल्माषान् पिबेन्मध्वथवा सुराम्॥१८॥
सामं चेत् कुणपं शूलैरुपविशेदरोचकी।
स घनातिविषाकुष्ठनतदारुवचा: पिबेत्॥१९॥
शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते।
पक्वं, तत्र स्ववर्गीयैर्बस्ति: श्रेष्ठं भिषग्जितम्॥२०॥
षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु।
केवलै: सह षट्त्रिंशद्विद्यात् सोपद्रवानपि॥२१॥
शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्।
तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्॥२२॥
तत्रामेऽन्तरपानं स्यात् व्योषाम्ललवणैर्युतम्।
पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते॥२३॥
वातघ्नैर्ग्राहिवर्गीयैर्बस्ति: शकृति शस्यते।
स्वाद्वम्ललवणै: शस्त: स्नेहबस्ति: समीरणे॥२४॥
रक्ते रक्तेन, पित्ते तु कषायस्वादुतिक्तकै: ।
सार्यमाणे कफे बस्ति: कषायकटुतिक्तकै: ॥२५॥
शकृता वायुना वाऽऽमे तेन वर्चस्यथानिले।
संसृष्टेऽन्तरपानं स्याद् व्योषाम्लवणैर्युतम्॥२६॥
पित्तेनामेऽसृजा वाऽपि तयोरामेन वा पुन: ।
संसृष्टयोर्भवेत् पानं सव्योषस्वादुतिक्तकम्॥२७॥
तथाऽऽमे कफसंसृष्टे कषायव्योषतिक्तकम्।
आमेन तु कफे व्योषकषायलवणैर्युतम्॥२८॥
वातेन विशि पित्ते वा विट्पित्ताभ्यां तथाऽनिले।
मधुराम्लकषाय: स्यात् संसृष्टे बस्तिरुत्तम: ॥२९॥
शकृच्छोणितयो: पित्तशकृतो रक्तपित्तयो: ।
बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तक: ॥३०॥
कफेन विशि पित्ते वा कफे विट्पित्तशोणितै: ।
व्योषतिक्तकषाय: स्यात् संसृष्टे बस्तिरुत्तम: ॥३१॥
स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे।
मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते॥३२॥
मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्।
बस्तिर्वातेन पित्ते तु कार्य: स्वाद्वम्लतिक्तक: ॥३३॥
त्रिचतु:पञ्चसंसर्गानेवमेव विकल्पयेत्।
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता॥३४॥
युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत्।
निरामाणां तु पञ्चानां बस्ति: षाड्रसिको मत: ॥३५॥
उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वच: ।
शङ्खं सर्जरसं लाक्षां कर्दमं च पलांशिकम्॥३६॥
पिष्ट्वा तै: सर्पिष: प्रस्थं क्षीरद्विगुणितं पचेत्।
अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्॥३७॥
कच्छुराधातकीबिल्वसमङ्गारक्तशालिभि: ।
मसूराश्वत्थशुङ्गैश्च यवागू: स्याज्जले शृतै: ॥३८॥
बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवै: ।
मसूरधातकीपुष्पबलाभिश्च तथा भवेत्॥३९॥
स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा।
क्वाथेषु समसूराणां यवाग्व: स्यु: पृथक् पृथक्॥४०॥
कच्छुरामूलशाल्यादितण्डुलैरुपसाधिता: ।
दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा॥४१॥
शीता: सशर्कराक्षौद्रा: सर्वातीसारनाशना: ।
ससर्पिर्मरिचाजाज्यो मधुरा लवणा: शिवा: ॥४२॥
भवन्ति चात्र श्लोका:–
स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्ण: ।
शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च॥४३॥
तिक्तोष्णकषायकटुश्लेष्मणि संग्राहि वातनुच्छकृति।
पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते॥४४॥
अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च।
तत्रोद्रेकविशेषाद्दोषेषूपक्रम: कार्य: ॥४५॥
तत्र श्लोक:–
प्रासृतिका: सव्यापत्क्रियानिरूहास्तथाऽतिसारहिता: ।
रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ॥४६॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते
दृढबलसंपूरिते सिद्धिस्थाने प्रासृतयोगीयासिद्धिर्नामाष्टमोऽध्याय: ॥८॥
Last updated on July 6th, 2021 at 05:35 am