Skip to content

08. मात्राशितीय- सूत्र – अ.हृ.

अष्टाङ्गहृदयस्य(सूत्रस्थाने)मात्राशितीयः

अष्टमोऽध्यायः।

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

मात्राशी सर्वकालं स्यान्मात्रा ह्यग्ने: प्रवर्तिका।

मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि॥१॥

गुरूणामर्धसौहित्यं लघूनां नातितृप्तता।

मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति॥२॥

भोजनं हीनमात्रं तु न बलोपचयौजसे।

सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते॥३॥

अतिमात्रं पुनः सर्वानाशु दोषान्‌ प्रकोपयेत्‌।

पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः॥४॥

आमेनान्नेन दुष्टेन तदेवाविश्य कुर्वते।

विष्टम्भयन्तोऽलसकं च्यावयन्तो विसूचिकाम्‌॥५॥

अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः।

प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते॥६॥

आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः।

विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः॥७॥

सूचीभिरिव गात्राणि विध्यतीति विसूचिका।

तत्रशूलभ्रमानाहकम्पस्तम्भादयोऽनिलात्‌॥८॥

पित्ताज्ज्वरातिसारान्तर्दाहतृट्‌प्रलयादयः।

कफाच्छर्द्यङ्गगुरुतावाक्सङ्गष्ठीवनादयः॥९॥

विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः।

पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा॥१०॥

अलसं क्षोभितं दौषैः शल्यत्वेनैव संस्थितम्‌।

शूलादीन्‌ कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्‌॥११॥

सोऽलसः अत्यर्थदुष्टास्तु दोषा दुष्टामबद्धखाः।

यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत्‌॥१२॥

 दण्डकालसकं नाम तं त्यजेदाशुकारिणम्‌।

विरुद्धाध्यशनाजीर्णशीलिनो विषलक्षणम्‌।१३॥

आमदोषं महाघोरं वर्जयेद्विषसंज्ञकम्‌।

विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः॥१४॥

अथाममलसीभूतं साध्यं त्वरितमुल्लिखेत्‌।

पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः॥१५॥

स्वेदनं फलवर्तिं च मलवातानुलोमनीम्‌।

नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्‌॥१६॥

विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते।

तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्‌॥१७॥

तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्‌।

आमसन्नोऽनलो नालं पक्तुं दौषौषधाशनम्‌॥१८॥

निहन्यादपि चैतेषां विभ्रमः सहसाऽऽतुरम्‌।

जीर्णाशने तु भैषज्यं युञ्ज्यात्‌ स्तब्धगुरूदरे॥१९॥

दोषशेषस्य पाकार्थमग्ने: सन्धुक्षणाय च।

शान्तिरामविकाराणां भवति त्वपतर्पणात्‌॥२०॥

त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्‌।

तत्राल्पे लङ्घनं पथ्यं, मध्ये लङ्घनपाचनम्‌॥२१॥

प्रभूते शोधनं, तद्धि मूलादुन्मूलयेन्मलान्‌।

एवमन्यानपि व्याधीन्‌ स्वनिदानविपर्ययात्‌॥२२॥

चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्‌।

त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम्‌॥२३॥

तदर्थकारि वा, पक्वे दोषे त्विद्धे च पावके।

हितमभ्यञ्जनस्नेहपानबस्त्यादि युक्तितः॥२४॥

अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः।

सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्‌॥२५॥

विष्टब्धमनिलाच्छूलविबन्धाध्मानसादकृत्‌।

पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत्‌॥२६॥

लङ्घनं कार्यमामे तु, विष्टब्धे स्वेदनं भृशम्‌।

विदग्धे वमनं, यद्वा यथावस्थं हितं भवेत्‌॥२७॥

गरीयसो भवेल्लीनादामादेव विलम्बिका।

कफवातानुबद्धाऽऽमलिङ्गा तत्समसाधना॥२८॥

अश्रद्धा हृद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः।

शयीत किञ्चिदेवात्र सर्वश्चानाशितो दिवा॥२९॥             

स्वप्यादजीर्णी, सञ्जातबुभुक्षोऽद्यान्मितं लघु।

विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता॥३०॥

अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः।

न चातिमात्रमेवान्नमामदोषाय केवलम्‌॥३१॥

द्विष्टविष्टम्भिदग्धामगुरुरूक्षहिमाशुचि।

विदाहि शुष्कमत्यम्बुप्लुतं चान्नं च जीर्यति॥३२॥

उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः।

मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम्‌॥३३॥

विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम्‌।

अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्‌॥३४॥

त्रीण्यप्येतानि मृत्युं वा घोरान्‌ व्याधीन्‌ सृजन्ति वा।

काले सात्म्यं शुचि हितं स्निग्धोष्णं लघुतन्मनाः॥३५॥

षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम्‌।

स्नातः क्षुद्वान्‌ विविक्तस्थो धौतपादकराननः॥३६॥

तर्पयित्वा पितॄन्‌ देवानतिथीन्‌ बालकान्‌ गुरून्‌।

प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान्‌॥३७॥

समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन्‌ द्रवम्‌।

इष्टमिष्टैः सहाश्नीयाच्छुचिभक्तजनाहृतम्‌॥३८॥

भोजनं तृणकेशादिजुष्टमुष्णीकृतं पुनः।

शाकावरान्नभूयिष्ठमत्युष्णलवणं त्यजेत्‌॥३९॥

किलाटदधिकूर्चीकाक्षारशुक्ताममूलकम्‌।

कृशशुष्कवराहाविगोमत्स्यमहिषामिषम्‌॥४०॥

माषनिष्पावशालूकबिसपिष्टविरूढकम्‌।

शुष्कशाकानि यवकान्‌ फाणितं च न शीलयेत्‌॥४१॥

शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम्‌।

सुनिषण्णकजीवन्तीबालमूलकवास्तुकम्‌॥४२॥

पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः।

घृतदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम्‌॥४३॥

त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च।

स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत्‌॥४४॥

बिसेक्षुमोचचोचाम्रमोदकोत्कारिकादिकम्‌।

अद्याद्‌द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः॥४५॥

विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम्‌।

अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्‌॥४६॥

आश्रयं पवनादीनां चतुर्थमवशेषयेत्‌।

अनुपानं हिमं वारि यवगोधूमयोर्हितम्‌॥४७॥

दध्नि मद्ये विषे क्षौद्रे, कोष्णं पिष्टमयेषु तु।

शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम्‌॥४८॥

सुरा कृशानां पुष्ट्यर्थं, स्थूलानां तु मधूदकम्‌।

शोषे मांसरसो, मद्यं मांसे स्वल्पे च पावके॥४९॥

व्याध्यौषधाध्वभाष्यस्त्रीलङ्घनातपकर्मभिः।

क्षीणे वृद्धे च बाले च पयः पथ्यं यथाऽमृतम्‌॥५०॥

विपरीतं यदन्नस्य गुणैः स्यादविरोधि च।

अनुपानं समासेन, सर्वदा तत्प्रशस्यते॥५१॥

अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्‌।

अन्नसङ्घातशैथिल्यविक्लित्तिजरणानि च॥५२॥

नोर्ध्वजत्रुगदश्वासकासोरःक्षतपीनसे।

गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम्‌॥५३॥

प्रक्लिन्नदेहमेहाक्षिगलरोगव्रणातुराः।

पानं त्यजेयुः सर्वश्च भाष्याध्वशयनं त्यजेत्‌॥५४॥

पीत्वा, भुक्त्वाऽऽतपं वह्निं यानं प्लवनवाहनम्‌।

प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे।

विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति।

तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ

प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः॥५५॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने मात्राशितीयो नाम अष्टमोऽध्यायः॥८॥

Last updated on August 6th, 2021 at 11:25 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English